Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Highest Calling
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
संप्रश्नसंहृष्टो
विप्राणां
रौमहर्षणिः
।
प्रतिपूज्य
वचस्तेषां
प्रवक्तुमुपचक्रमे
Hymn
2
▾
Meaning
Keep
यं
प्रव्रजन्तमनुपेतमपेतकृत्यं
द्वैपायनो
विरहकातर
आजुहाव
।
पुत्रेति
तन्मयतया
तरवोऽभिनेदु-
स्तं
सर्वभूतहृदयं
मुनिमानतोऽस्मि
3
▾
Meaning
Keep
यः
स्वानुभावमखिलश्रुतिसारमेक-
मध्यात्मदीपमतितितीर्षतां
तमोऽन्धम्
।
संसारिणां
करुणयाऽऽह
पुराणगुह्यं
तं
व्याससूनुमुपयामि
गुरुं
मुनीनाम्
4
▾
Meaning
Keep
नारायणं
नमस्कृत्य
नरं
चैव
नरोत्तमम्
।
देवीं
सरस्वतीं
व्यासं
ततो
जयमुदीरयेत्
5
▾
Meaning
Keep
मुनयः
साधु
पृष्टोऽहं
भवद्भिर्लोकमङ्गलम्
।
यत्कृतः
कृष्णसंप्रश्नो
येनात्मा
सुप्रसीदति
6
▾
Meaning
Keep
स
वै
पुंसां
परो
धर्मो
यतो
भक्तिरधोक्षजे
।
अहैतुक्यप्रतिहता
ययाऽऽत्मा
सम्प्रसीदति
7
▾
Meaning
Keep
वासुदेवे
भगवति
भक्तियोगः
प्रयोजितः
।
जनयत्याशु
वैराग्यं
ज्ञानं
च
यदहैतुकम्
8
▾
Meaning
Keep
धर्मः
स्वनुष्ठितः
पुंसां
विष्वक्सेनकथासु
यः
।
नोत्पादयेद्यदि
रतिं
श्रम
एव
हि
केवलम्
9
▾
Meaning
Keep
धर्मस्य
ह्यापवर्ग्यस्य
नार्थोऽर्थायोपकल्पते
।
नार्थस्य
धर्मैकान्तस्य
कामो
लाभाय
हि
स्मृतः
10
▾
Meaning
Keep
कामस्य
नेन्द्रियप्रीतिर्लाभो
जीवेत
यावता
।
जीवस्य
तत्त्वजिज्ञासा
नार्थो
यश्चेह
कर्मभिः
11
▾
Meaning
Keep
वदन्ति
तत्तत्त्वविदस्तत्त्वं
यज्ज्ञानमद्वयम्
।
ब्रह्मेति
परमात्मेति
भगवानिति
शब्द्यते
12
▾
Meaning
Keep
तच्छ्रद्दधाना
मुनयो
ज्ञानवैराग्ययुक्तया
।
पश्यन्त्यात्मनि
चात्मानं
भक्त्या
श्रुतगृहीतया
13
▾
Meaning
Keep
अतः
पुम्भिर्द्विजश्रेष्ठा
वर्णाश्रमविभागशः
।
स्वनुष्ठितस्य
धर्मस्य
संसिद्धिर्हरितोषणम्
14
▾
Meaning
Keep
तस्मादेकेन
मनसा
भगवान्
सात्वतां
पतिः
।
श्रोतव्यः
कीर्तितव्यश्च
ध्येयः
पूज्यश्च
नित्यदा
15
▾
Meaning
Keep
यदनुध्यासिना
युक्ताः
कर्मग्रन्थिनिबन्धनम्
।
छिन्दन्ति
कोविदास्तस्य
को
न
कुर्यात्कथारतिम्
16
▾
Meaning
Keep
शुश्रूषोः
श्रद्दधानस्य
वासुदेवकथारुचिः
।
स्यान्महत्सेवया
विप्राः
पुण्यतीर्थनिषेवणात्
17
▾
Meaning
Keep
शृण्वतां
स्वकथाः
कृष्णः
पुण्यश्रवणकीर्तनः
।
हृद्यन्तःस्थो
ह्यभद्राणि
विधुनोति
सुहृत्सताम्
18
▾
Meaning
Keep
नष्टप्रायेष्वभद्रेषु
नित्यं
भागवतसेवया
।
भगवत्युत्तमश्लोके
भक्तिर्भवति
नैष्ठिकी
19
▾
Meaning
Keep
तदा
रजस्तमोभावाः
कामलोभादयश्च
ये
।
चेत
एतैरनाविद्धं
स्थितं
सत्त्वे
प्रसीदति
20
▾
Meaning
Keep
एवं
प्रसन्नमनसो
भगवद्भक्तियोगतः
।
भगवत्तत्त्वविज्ञानं
मुक्तसङ्गस्य
जायते
21
▾
Meaning
Keep
भिद्यते
हृदयग्रन्थिश्छिद्यन्ते
सर्वसंशयाः
।
क्षीयन्ते
चास्य
कर्माणि
दृष्ट
एवात्मनीश्वरे
22
▾
Meaning
Keep
अतो
वै
कवयो
नित्यं
भक्तिं
परमया
मुदा
।
वासुदेवे
भगवति
कुर्वन्त्यात्मप्रसादनीम्
23
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
प्रकृतेर्गुणास्तैर्युक्तः
परः
पुरुष
एक
इहास्य
धत्ते
।
स्थित्यादये
हरिविरिञ्चिहरेति
संज्ञाः
श्रेयांसि
तत्र
खलु
सत्त्वतनोर्नृणां
स्युः
24
▾
Meaning
Keep
पार्थिवाद्दारुणो
धूमस्तस्मादग्निस्त्रयीमयः
।
तमसस्तु
रजस्तस्मात्सत्त्वं
यद्ब्रह्मदर्शनम्
25
▾
Meaning
Keep
भेजिरे
मुनयोऽथाग्रे
भगवन्तमधोक्षजम्
।
सत्त्वं
विशुद्धं
क्षेमाय
कल्पन्ते
येऽनु
तानिह
26
▾
Meaning
Keep
मुमुक्षवो
घोररूपान्
हित्वा
भूतपतीनथ
।
नारायणकलाः
शान्ता
भजन्ति
ह्यनसूयवः
27
▾
Meaning
Keep
रजस्तमःप्रकृतयः
समशीला
भजन्ति
वै
।
पितृभूतप्रजेशादीन्
श्रियैश्वर्यप्रजेप्सवः
28
▾
Meaning
Keep
वासुदेवपरा
वेदा
वासुदेवपरा
मखाः
।
वासुदेवपरा
योगा
वासुदेवपराः
क्रियाः
29
▾
Meaning
Keep
वासुदेवपरं
ज्ञानं
वासुदेवपरं
तपः
।
वासुदेवपरो
धर्मो
वासुदेवपरा
गतिः
30
▾
Meaning
Keep
स
एवेदं
ससर्जाग्रे
भगवानात्ममायया
।
सदसद्रूपया
चासौ
गुणमयागुणो
विभुः
31
▾
Meaning
Keep
तया
विलसितेष्वेषु
गुणेषु
गुणवानिव
।
अन्तःप्रविष्ट
आभाति
विज्ञानेन
विजृम्भितः
32
▾
Meaning
Keep
यथा
ह्यवहितो
वह्निर्दारुष्वेकः
स्वयोनिषु
।
नानेव
भाति
विश्वात्मा
भूतेषु
च
तथा
पुमान्
33
▾
Meaning
Keep
असौ
गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः
।
स्वनिर्मितेषु
निर्विष्टो
भुङ्क्ते
भूतेषु
तद्गुणान्
34
▾
Meaning
Keep
भावयत्येष
सत्त्वेन
लोकान्
वै
लोकभावनः
।
लीलावतारानुरतो
देवतिर्यङ्नरादिषु
Previous
←
The Sages Ask at Naimisa
Next
The Descents of the Lord
→