Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Narada Names What Is Missing
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
तं
सुखमासीन
उपासीनं
बृहच्छ्रवाः
।
देवर्षिः
प्राह
विप्रर्षिं
वीणापाणिः
स्मयन्निव
2
▾
Meaning
Keep
पाराशर्य
महाभाग
भवतः
कच्चिदात्मना
।
परितुष्यति
शारीर
आत्मा
मानस
एव
वा
3
▾
Meaning
Keep
जिज्ञासितं
सुसंपन्नमपि
ते
महदद्भुतम्
।
कृतवान्
भारतं
यस्त्वं
सर्वार्थपरिबृंहितम्
4
▾
Meaning
Keep
जिज्ञासितमधीतं
च
यत्तद्ब्रह्म
सनातनम्
।
अथापि
शोचस्यात्मानमकृतार्थ
इव
प्रभो
5
▾
Meaning
Keep
अस्त्येव
मे
सर्वमिदं
त्वयोक्तं
तथापि
नात्मा
परितुष्यते
मे
।
तन्मूलमव्यक्तमगाधबोधं
पृच्छामहे
त्वाऽऽत्मभवात्मभूतम्
6
▾
Meaning
Keep
स
वै
भवान्
वेद
समस्तगुह्य-
मुपासितो
यत्पुरुषः
पुराणः
।
परावरेशो
मनसैव
विश्वं
सृजत्यवत्यत्ति
गुणैरसङ्गः
7
▾
Meaning
Keep
त्वं
पर्यटन्नर्क
इव
त्रिलोकी-
मन्तश्चरो
वायुरिवात्मसाक्षी
।
परावरे
ब्रह्मणि
धर्मतो
व्रतैः
स्नातस्य
मे
न्यूनमलं
विचक्ष्व
8
▾
Meaning
Keep
भवतानुदितप्रायं
यशो
भगवतोऽमलम्
।
येनैवासौ
न
तुष्येत
मन्ये
तद्दर्शनं
खिलम्
9
▾
Meaning
Keep
यथा
धर्मादयश्चार्था
मुनिवर्यानुकीर्तिताः
।
न
तथा
वासुदेवस्य
महिमा
ह्यनुवर्णितः
10
▾
Meaning
Keep
न
यद्वचश्चित्रपदं
हरेर्यशो
जगत्पवित्रं
प्रगृणीत
कर्हिचित्
।
तद्वायसं
तीर्थमुशन्ति
मानसा
न
यत्र
हंसा
निरमन्त्युशिक्क्षयाः
11
▾
Meaning
Keep
तद्वाग्विसर्गो
जनताघविप्लवो
यस्मिन्
प्रतिश्लोकमबद्धवत्यपि
।
नामान्यनन्तस्य
यशोऽङ्कितानि
यच्छृण्वन्ति
गायन्ति
गृणन्ति
साधवः
12
▾
Meaning
Keep
नैष्कर्म्यमप्यच्युतभाववर्जितं
न
शोभते
ज्ञानमलं
निरञ्जनम्
।
कुतः
पुनः
शश्वदभद्रमीश्वरे
न
चार्पितं
कर्म
यदप्यकारणम्
13
▾
Meaning
Keep
अथो
महाभाग
भवानमोघदृक्-
शुचिश्रवाःसत्यरतो
धृतव्रतः
।
उरुक्रमस्याखिलबन्धमुक्तये
समाधिनानुस्मर
तद्विचेष्टितम्
14
▾
Meaning
Keep
ततोऽन्यथा
किञ्चन
यद्विवक्षतः
पृथग्दृशस्तत्कृतरूपनामभिः
।
न
कुत्रचित्क्वापि
च
दुःस्थिता
मति-
र्लभेत
वाताहतनौरिवास्पदम्
15
▾
Meaning
Keep
जुगुप्सितं
धर्मकृतेऽनुशासतः
स्वभावरक्तस्य
महान्
व्यतिक्रमः
।
यद्वाक्यतो
धर्म
इतीतरः
स्थितो
न
मन्यते
तस्य
निवारणं
जनः
16
▾
Meaning
Keep
विचक्षणोऽस्यार्हति
वेदितुं
विभो-
रनन्तपारस्य
निवृत्तितः
सुखम्
।
प्रवर्तमानस्य
गुणैरनात्मन-
स्ततो
भवान्
दर्शय
चेष्टितं
विभोः
17
▾
Meaning
Keep
त्यक्त्वा
स्वधर्मं
चरणाम्बुजं
हरे-
र्भजन्नपक्वोऽथ
पतेत्ततो
यदि
।
यत्र
क्व
वाभद्रमभूदमुष्य
किं
को
वार्थ
आप्तोऽभजतां
स्वधर्मतः
18
▾
Meaning
Keep
तस्यैव
हेतोः
प्रयतेत
कोविदो
न
लभ्यते
यद्भ्रमतामुपर्यधः
।
तल्लभ्यते
दुःखवदन्यतः
सुखं
कालेन
सर्वत्र
गभीररंहसा
19
▾
Meaning
Keep
न
वै
जनो
जातु
कथंचनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग
संसृतिम्
।
स्मरन्मुकुन्दाङ्घ्र्युपगूहनं
पुनर्विहातुमिच्छेन्न
रसग्रहो
यतः
20
▾
Meaning
Keep
इदं
हि
विश्वं
भगवानिवेतरो
यतो
जगत्स्थाननिरोधसम्भवाः
।
तद्धि
स्वयं
वेद
भवांस्तथापि
वै
प्रादेशमात्रं
भवतः
प्रदर्शितम्
21
▾
Meaning
Keep
त्वमात्मनाऽऽत्मानमवेह्यमोघदृक्-
परस्यपुंसः
परमात्मनः
कलाम्
।
अजं
प्रजातं
जगतः
शिवाय
तन्-
महानुभावाभ्युदयोऽधिगण्यताम्
22
▾
Meaning
Keep
इदं
हि
पुंसस्तपसः
श्रुतस्य
वा
स्विष्टस्य
सूक्तस्य
च
बुद्धिदत्तयोः
।
अविच्युतोऽर्थः
कविभिर्निरूपितो
यदुत्तमश्लोकगुणानुवर्णनम्
23
▾
Meaning
Keep
अहं
पुरातीतभवेऽभवं
मुने
दास्यास्तु
कस्याश्चन
वेदवादिनाम्
।
निरूपितो
बालक
एव
योगिनां
शुश्रूषणे
प्रावृषि
निर्विविक्षताम्
24
▾
Meaning
Keep
ते
मय्यपेताखिलचापलेऽर्भके
दान्तेऽधृतक्रीडनकेऽनुवर्तिनि
।
चक्रुः
कृपां
यद्यपि
तुल्यदर्शनाः
शुश्रूषमाणे
मुनयोऽल्पभाषिणि
25
▾
Meaning
Keep
उच्छिष्टलेपाननुमोदितो
द्विजैः
सकृत्स्म
भुञ्जे
तदपास्तकिल्बिषः
।
एवं
प्रवृत्तस्य
विशुद्धचेतस-
स्तद्धर्म
एवात्मरुचिः
प्रजायते
26
▾
Meaning
Keep
तत्रान्वहं
कृष्णकथाः
प्रगायता-
मनुग्रहेणाशृणवं
मनोहराः
।
ताः
श्रद्धया
मेऽनुपदं
विशृण्वतः
प्रियश्रवस्यङ्ग
ममाभवद्रुचिः
27
▾
Meaning
Keep
तस्मिंस्तदा
लब्धरुचेर्महामुने
प्रियश्रवस्यस्खलिता
मतिर्मम
।
ययाहमेतत्सदसत्स्वमायया
पश्ये
मयि
ब्रह्मणि
कल्पितं
परे
28
▾
Meaning
Keep
इत्थं
शरत्प्रावृषिकावृतू
हरेर्विशृण्वतो
मेऽनुसवं
यशोऽमलम्
।
संकीर्त्यमानं
मुनिभिर्महात्मभिर्भक्तिः
प्रवृत्ताऽऽत्मरजस्तमोऽपहा
29
▾
Meaning
Keep
तस्यैवं
मेऽनुरक्तस्य
प्रश्रितस्य
हतैनसः
।
श्रद्दधानस्य
बालस्य
दान्तस्यानुचरस्य
च
30
▾
Meaning
Keep
ज्ञानं
गुह्यतमं
यत्तत्साक्षाद्भगवतोदितम्
।
अन्ववोचन्
गमिष्यन्तः
कृपया
दीनवत्सलाः
31
▾
Meaning
Keep
येनैवाहं
भगवतो
वासुदेवस्य
वेधसः
।
मायानुभावमविदं
येन
गच्छन्ति
तत्पदम्
32
▾
Meaning
Keep
एतत्संसूचितं
ब्रह्मंस्तापत्रयचिकित्सितम्
।
यदीश्वरे
भगवति
कर्म
ब्रह्मणि
भावितम्
33
▾
Meaning
Keep
आमयो
यश्च
भूतानां
जायते
येन
सुव्रत
।
तदेव
ह्यामयं
द्रव्यं
न
पुनाति
चिकित्सितम्
34
▾
Meaning
Keep
एवं
नृणां
क्रियायोगाः
सर्वे
संसृतिहेतवः
।
त
एवात्मविनाशाय
कल्पन्ते
कल्पिताः
परे
35
▾
Meaning
Keep
यदत्र
क्रियते
कर्म
भगवत्परितोषणम्
।
ज्ञानं
यत्तदधीनं
हि
भक्तियोगसमन्वितम्
36
▾
Meaning
Keep
कुर्वाणा
यत्र
कर्माणि
भगवच्छिक्षयासकृत्
।
गृणन्ति
गुणनामानि
कृष्णस्यानुस्मरन्ति
च
37
▾
Meaning
Keep
नमो
भगवते
तुभ्यं
वासुदेवाय
धीमहि
।
प्रद्युम्नायानिरुद्धाय
नमः
सङ्कर्षणाय
च
38
▾
Meaning
Keep
इति
मूर्त्यभिधानेन
मन्त्रमूर्तिममूर्तिकम्
।
यजते
यज्ञपुरुषं
स
सम्यग्दर्शनः
पुमान्
39
▾
Meaning
Keep
इमं
स्वनिगमं
ब्रह्मन्नवेत्य
मदनुष्ठितम्
।
अदान्मे
ज्ञानमैश्वर्यं
स्वस्मिन्
भावं
च
केशवः
40
▾
Meaning
Keep
त्वमप्यदभ्रश्रुत
विश्रुतं
विभोः
समाप्यते
येन
विदां
बुभुत्सितम्
।
आख्याहि
दुःखैर्मुहुरर्दितात्मनां
संक्लेशनिर्वाणमुशन्ति
नान्यथा
Previous
←
Vyasa's Discontent
Next
Narada Tells the Rest
→