Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Dvaraka Welcomes Him Home
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
आनर्तान्
स
उपव्रज्य
स्वृद्धाञ्जनपदान्
स्वकान्
।
दध्मौ
दरवरं
तेषां
विषादं
शमयन्निव
2
▾
Meaning
Keep
स
उच्चकाशे
धवलोदरो
दरो-
ऽप्युरुक्रमस्याधरशोणशोणिमा
।
दाध्मायमानः
करकञ्जसम्पुटे
यथाब्जखण्डे
कलहंस
उत्स्वनः
3
▾
Meaning
Keep
तमुपश्रुत्य
निनदं
जगद्भयभयावहम्
।
प्रत्युद्ययुः
प्रजाः
सर्वा
भर्तृदर्शनलालसाः
4
▾
Meaning
Keep
तत्रोपनीतबलयो
रवेर्दीपमिवादृताः
।
आत्मारामं
पूर्णकामं
निजलाभेन
नित्यदा
5
▾
Meaning
Keep
प्रीत्युत्फुल्लमुखाः
प्रोचुर्हर्षगद्गदया
गिरा
।
पितरं
सर्वसुहृदमवितारमिवार्भकाः
Hymn
6
▾
Meaning
Keep
नताः
स्म
ते
नाथ
सदाङ्घ्रिपङ्कजं
विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम्
।
परायणं
क्षेममिहेच्छतां
परं
न
यत्र
कालः
प्रभवेत्परः
प्रभुः
7
▾
Meaning
Keep
भवाय
नस्त्वं
भव
विश्वभावन
त्वमेव
माताथ
सुहृत्पतिः
पिता
।
त्वं
सद्गुरुर्नः
परमं
च
दैवतं
यस्यानुवृत्त्या
कृतिनो
बभूविम
8
▾
Meaning
Keep
अहो
सनाथा
भवता
स्म
यद्वयं
त्रैविष्टपानामपि
दूरदर्शनम्
।
प्रेमस्मितस्निग्धनिरीक्षणाननं
पश्येम
रूपं
तव
सर्वसौभगम्
9
▾
Meaning
Keep
यर्ह्यम्बुजाक्षापससार
भो
भवान्
कुरून्
मधून्
वाथ
सुहृद्दिदृक्षया
।
तत्राब्दकोटिप्रतिमः
क्षणो
भवे-
द्रविं
विनाक्ष्णोरिव
नस्तवाच्युत
10
▾
Meaning
Keep
इति
चोदीरिता
वाचः
प्रजानां
भक्तवत्सलः
।
शृण्वानोऽनुग्रहं
दृष्ट्या
वितन्वन्
प्राविशत्पुरीम्
11
▾
Meaning
Keep
मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः
।
आत्मतुल्यबलैर्गुप्तां
नागैर्भोगवतीमिव
12
▾
Meaning
Keep
सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः
।
उद्यानोपवनारामैर्वृतपद्माकरश्रियम्
13
▾
Meaning
Keep
गोपुरद्वारमार्गेषु
कृतकौतुकतोरणाम्
।
चित्रध्वजपताकाग्रैरन्तः
प्रतिहतातपाम्
14
▾
Meaning
Keep
सम्मार्जितमहामार्गरथ्यापणकचत्वराम्
।
सिक्तां
गन्धजलैरुप्तां
फलपुष्पाक्षताङ्कुरैः
15
▾
Meaning
Keep
द्वारि
द्वारि
गृहाणां
च
दध्यक्षतफलेक्षुभिः
।
अलङ्कृतां
पूर्णकुम्भैर्बलिभिर्धूपदीपकैः
16
▾
Meaning
Keep
निशम्य
प्रेष्ठमायान्तं
वसुदेवो
महामनाः
।
अक्रूरश्चोग्रसेनश्च
रामश्चाद्भुतविक्रमः
17
▾
Meaning
Keep
प्रद्युम्नश्चारुदेष्णश्च
साम्बो
जाम्बवतीसुतः
।
प्रहर्षवेगोच्छ्वशितशयनासनभोजनाः
18
▾
Meaning
Keep
वारणेन्द्रं
पुरस्कृत्य
ब्राह्मणैः
ससुमङ्गलैः
।
शङ्खतूर्यनिनादेन
ब्रह्मघोषेण
चादृताः
।
प्रत्युज्जग्मू
रथैर्हृष्टाः
प्रणयागतसाध्वसाः
19
▾
Meaning
Keep
वारमुख्याश्च
शतशो
यानैस्तद्दर्शनोत्सुकाः
।
लसत्कुण्डलनिर्भातकपोलवदनश्रियः
20
▾
Meaning
Keep
नटनर्तकगन्धर्वाः
सूतमागधवन्दिनः
।
गायन्ति
चोत्तमश्लोकचरितान्यद्भुतानि
च
21
▾
Meaning
Keep
भगवांस्तत्र
बन्धूनां
पौराणामनुवर्तिनाम्
।
यथाविध्युपसङ्गम्य
सर्वेषां
मानमादधे
22
▾
Meaning
Keep
प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः
।
आश्वास्य
चाश्वपाकेभ्यो
वरैश्चाभिमतैर्विभुः
23
▾
Meaning
Keep
स्वयं
च
गुरुभिर्विप्रैः
सदारैः
स्थविरैरपि
।
आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम्
24
▾
Meaning
Keep
राजमार्गं
गते
कृष्णे
द्वारकायाः
कुलस्त्रियः
।
हर्म्याण्यारुरुहुर्विप्र
तदीक्षणमहोत्सवाः
25
▾
Meaning
Keep
नित्यं
निरीक्षमाणानां
यदपि
द्वारकौकसाम्
।
न
वितृप्यन्ति
हि
दृशः
श्रियो
धामाङ्गमच्युतम्
26
▾
Meaning
Keep
श्रियो
निवासो
यस्योरः
पानपात्रं
मुखं
दृशाम्
।
बाहवो
लोकपालानां
सारङ्गाणां
पदाम्बुजम्
27
▾
Meaning
Keep
सितातपत्रव्यजनैरुपस्कृतः
प्रसूनवर्षैरभिवर्षितः
पथि
।
पिशङ्गवासा
वनमालया
बभौ
घनो
यथार्कोडुपचापवैद्युतैः
28
▾
Meaning
Keep
प्रविष्टस्तु
गृहं
पित्रोः
परिष्वक्तः
स्वमातृभिः
।
ववन्दे
शिरसा
सप्त
देवकीप्रमुखा
मुदा
29
▾
Meaning
Keep
ताः
पुत्रमङ्कमारोप्य
स्नेहस्नुतपयोधराः
।
हर्षविह्वलितात्मानः
सिषिचुर्नेत्रजैर्जलैः
30
▾
Meaning
Keep
अथाविशत्स्वभवनं
सर्वकाममनुत्तमम्
।
प्रासादा
यत्र
पत्नीनां
सहस्राणि
च
षोडश
31
▾
Meaning
Keep
पत्न्यः
पतिं
प्रोष्य
गृहानुपागतं
विलोक्य
संजातमनोमहोत्सवाः
।
उत्तस्थुरारात्सहसाऽऽसनाशयात्
साकं
व्रतैर्व्रीडितलोचनाननाः
32
▾
Meaning
Keep
तमात्मजैर्दृष्टिभिरन्तरात्मना
दुरन्तभावाः
परिरेभिरे
पतिम्
।
निरुद्धमप्यास्रवदम्बुनेत्रयो-
र्विलज्जतीनां
भृगुवर्य
वैक्लवात्
33
▾
Meaning
Keep
यद्यप्यसौ
पार्श्वगतो
रहोगत-
स्तथापि
तस्याङ्घ्रियुगं
नवं
नवम्
।
पदे
पदे
का
विरमेत
तत्पदा-
च्चलापि
यच्छ्रीर्न
जहाति
कर्हिचित्
34
▾
Meaning
Keep
एवं
नृपाणां
क्षितिभारजन्मना-
मक्षौहिणीभिः
परिवृत्ततेजसाम्
।
विधाय
वैरं
श्वसनो
यथानलं
मिथो
वधेनोपरतो
निरायुधः
35
▾
Meaning
Keep
स
एष
नरलोकेऽस्मिन्नवतीर्णः
स्वमायया
।
रेमे
स्त्रीरत्नकूटस्थो
भगवान्
प्राकृतो
यथा
36
▾
Meaning
Keep
उद्दामभावपिशुनामलवल्गुहासव्रीडावलोकनिहतो
मदनोऽपि
यासाम्
।
सम्मुह्य
चापमजहात्प्रमदोत्तमास्ता
यस्येन्द्रियं
विमथितुं
कुहकैर्न
शेकुः
37
▾
Meaning
Keep
तमयं
मन्यते
लोको
ह्यसङ्गमपि
सङ्गिनम्
।
आत्मौपम्येन
मनुजं
व्यापृण्वानं
यतोऽबुधः
38
▾
Meaning
Keep
एतदीशनमीशस्य
प्रकृतिस्थोऽपि
तद्गुणैः
।
न
युज्यते
सदाऽऽत्मस्थैर्यथा
बुद्धिस्तदाश्रया
39
▾
Meaning
Keep
तं
मेनिरेऽबला
मूढाः
स्त्रैणं
चानुव्रतं
रहः
।
अप्रमाणविदो
भर्तुरीश्वरं
मतयो
यथा
Previous
←
Krsna Leaves for Dvaraka
Next
Pariksit Is Born
→