Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Omens at Hastinapura
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
संप्रस्थिते
द्वारकायां
जिष्णौ
बन्धुदिदृक्षया
।
ज्ञातुं
च
पुण्य
श्लोकस्य
कृष्णस्य
च
विचेष्टितम्
2
▾
Meaning
Keep
व्यतीताः
कतिचिन्मासास्तदा
नायात्ततोऽर्जुनः
।
ददर्श
घोररूपाणि
निमित्तानि
कुरूद्वहः
3
▾
Meaning
Keep
कालस्य
च
गतिं
रौद्रां
विपर्यस्तर्तुधर्मिणः
।
पापीयसीं
नृणां
वार्तां
क्रोधलोभानृतात्मनाम्
4
▾
Meaning
Keep
जिह्मप्रायं
व्यवहृतं
शाठ्यमिश्रं
च
सौहृदम्
।
पितृमातृसुहृद्भ्रातृदम्पतीनां
च
कल्कनम्
5
▾
Meaning
Keep
निमित्तान्यत्यरिष्टानि
काले
त्वनुगते
नृणाम्
।
लोभाद्यधर्मप्रकृतिं
दृष्ट्वोवाचानुजं
नृपः
6
▾
Meaning
Keep
सम्प्रेषितो
द्वारकायां
जिष्णुर्बन्धुदिदृक्षया
।
ज्ञातुं
च
पुण्यश्लोकस्य
कृष्णस्य
च
विचेष्टितम्
7
▾
Meaning
Keep
गताः
सप्ताधुना
मासा
भीमसेन
तवानुजः
।
नायाति
कस्य
वा
हेतोर्नाहं
वेदेदमञ्जसा
8
▾
Meaning
Keep
अपि
देवर्षिणाऽऽदिष्टः
स
कालोऽयमुपस्थितः
।
यदाऽऽत्मनोऽङ्गमाक्रीडं
भगवानुत्सिसृक्षति
9
▾
Meaning
Keep
यस्मान्नः
सम्पदो
राज्यं
दाराः
प्राणाः
कुलं
प्रजाः
।
आसन्
सपत्नविजयो
लोकाश्च
यदनुग्रहात्
10
▾
Meaning
Keep
पश्योत्पातान्
नरव्याघ्र
दिव्यान्
भौमान्
सदैहिकान्
।
दारुणान्
शंसतोऽदूराद्भयं
नो
बुद्धिमोहनम्
11
▾
Meaning
Keep
ऊर्वक्षिबाहवो
मह्यं
स्फुरन्त्यङ्ग
पुनः
पुनः
।
वेपथुश्चापि
हृदये
आराद्दास्यन्ति
विप्रियम्
12
▾
Meaning
Keep
शिवैषोद्यन्तमादित्यमभिरौत्यनलानना
।
मामङ्ग
सारमेयोऽयमभिरेभत्यभीरुवत्
13
▾
Meaning
Keep
शस्ताः
कुर्वन्ति
मां
सव्यं
दक्षिणं
पशवोऽपरे
।
वाहांश्च
पुरुषव्याघ्र
लक्षये
रुदतो
मम
14
▾
Meaning
Keep
मृत्युदूतः
कपोतोऽयमुलूकः
कम्पयन्
मनः
।
प्रत्युलूकश्च
कुह्वानैरनिद्रौ
शून्यमिच्छतः
15
▾
Meaning
Keep
धूम्रा
दिशः
परिधयः
कम्पते
भूः
सहाद्रिभिः
।
निर्घातश्च
महांस्तात
साकं
च
स्तनयित्नुभिः
16
▾
Meaning
Keep
वायुर्वाति
खरस्पर्शो
रजसा
विसृजंस्तमः
।
असृग्वर्षन्ति
जलदा
बीभत्समिव
सर्वतः
17
▾
Meaning
Keep
सूर्यं
हतप्रभं
पश्य
ग्रहमर्दं
मिथो
दिवि
।
ससङ्कुलैर्भूतगणैर्ज्वलिते
इव
रोदसी
18
▾
Meaning
Keep
नद्यो
नदाश्च
क्षुभिताः
सरांसि
च
मनांसि
च
।
न
ज्वलत्यग्निराज्येन
कालोऽयं
किं
विधास्यति
19
▾
Meaning
Keep
न
पिबन्ति
स्तनं
वत्सा
न
दुह्यन्ति
च
मातरः
।
रुदन्त्यश्रुमुखा
गावो
न
हृष्यन्त्यृषभा
व्रजे
20
▾
Meaning
Keep
दैवतानि
रुदन्तीव
स्विद्यन्ति
ह्युच्चलन्ति
च
।
इमे
जनपदा
ग्रामाः
पुरोद्यानाकराश्रमाः
।
भ्रष्टश्रियो
निरानन्दाः
किमघं
दर्शयन्ति
नः
21
▾
Meaning
Keep
मन्य
एतैर्महोत्पातैर्नूनं
भगवतः
पदैः
।
अनन्यपुरुषश्रीभिर्हीना
भूर्हतसौभगा
22
▾
Meaning
Keep
इति
चिन्तयतस्तस्य
दृष्टारिष्टेन
चेतसा
।
राज्ञः
प्रत्यागमद्ब्रह्मन्
यदुपुर्याः
कपिध्वजः
23
▾
Meaning
Keep
तं
पादयोर्निपतितमयथापूर्वमातुरम्
।
अधोवदनमब्बिन्दून्
सृजन्तं
नयनाब्जयोः
24
▾
Meaning
Keep
विलोक्योद्विग्नहृदयो
विच्छायमनुजं
नृपः
।
पृच्छति
स्म
सुहृन्मध्ये
संस्मरन्
नारदेरितम्
25
▾
Meaning
Keep
कच्चिदानर्तपुर्यां
नः
स्वजनाः
सुखमासते
।
मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः
26
▾
Meaning
Keep
शूरो
मातामहः
कच्चित्स्वस्त्यास्ते
वाथ
मारिषः
।
मातुलः
सानुजः
कच्चित्कुशल्यानकदुन्दुभिः
27
▾
Meaning
Keep
सप्त
स्वसारस्तत्पत्न्यो
मातुलान्यः
सहात्मजाः
।
आसते
सस्नुषाः
क्षेमं
देवकीप्रमुखाः
स्वयम्
28
▾
Meaning
Keep
कच्चिद्राजाऽऽहुको
जीवत्यसत्पुत्रोऽस्य
चानुजः
।
हृदीकः
ससुतोऽक्रूरो
जयन्तगदसारणाः
29
▾
Meaning
Keep
आसते
कुशलं
कच्चिद्ये
च
शत्रुजिदादयः
।
कच्चिदास्ते
सुखं
रामो
भगवान्
सात्वतां
प्रभुः
30
▾
Meaning
Keep
प्रद्युम्नः
सर्ववृष्णीनां
सुखमास्ते
महारथः
।
गम्भीररयोऽनिरुद्धो
वर्धते
भगवानुत
31
▾
Meaning
Keep
सुषेणश्चारुदेष्णश्च
साम्बो
जाम्बवतीसुतः
।
अन्ये
च
कार्ष्णिप्रवराः
सपुत्रा
ऋषभादयः
32
▾
Meaning
Keep
तथैवानुचराः
शौरेः
श्रुतदेवोद्धवादयः
।
सुनन्दनन्दशीर्षण्या
ये
चान्ये
सात्वतर्षभाः
33
▾
Meaning
Keep
अपि
स्वस्त्यासते
सर्वे
रामकृष्णभुजाश्रयाः
।
अपि
स्मरन्ति
कुशलमस्माकं
बद्धसौहृदाः
34
▾
Meaning
Keep
भगवानपि
गोविन्दो
ब्रह्मण्यो
भक्तवत्सलः
।
कच्चित्पुरे
सुधर्मायां
सुखमास्ते
सुहृद्वृतः
35
▾
Meaning
Keep
मङ्गलाय
च
लोकानां
क्षेमाय
च
भवाय
च
।
आस्ते
यदुकुलाम्भोधावाद्योऽनन्तसखः
पुमान्
36
▾
Meaning
Keep
यद्बाहुदण्डगुप्तायां
स्वपुर्यां
यदवोऽर्चिताः
।
क्रीडन्ति
परमानन्दं
महापौरुषिका
इव
37
▾
Meaning
Keep
यत्पादशुश्रूषणमुख्यकर्मणा
सत्यादयो
द्व्यष्टसहस्रयोषितः
।
निर्जित्य
संख्ये
त्रिदशांस्तदाशिषो
हरन्ति
वज्रायुधवल्लभोचिताः
38
▾
Meaning
Keep
यद्बाहुदण्डाभ्युदयानुजीविनो
यदुप्रवीरा
ह्यकुतोभया
मुहुः
।
अधिक्रमन्त्यङ्घ्रिभिराहृतां
बला-
त्सभां
सुधर्मां
सुरसत्तमोचिताम्
39
▾
Meaning
Keep
कच्चित्तेऽनामयं
तात
भ्रष्टतेजा
विभासि
मे
।
अलब्धमानोऽवज्ञातः
किं
वा
तात
चिरोषितः
40
▾
Meaning
Keep
कच्चिन्नाभिहतोऽभावैः
शब्दादिभिरमङ्गलैः
।
न
दत्तमुक्तमर्थिभ्य
आशया
यत्प्रतिश्रुतम्
41
▾
Meaning
Keep
कच्चित्त्वं
ब्राह्मणं
बालं
गां
वृद्धं
रोगिणं
स्त्रियम्
।
शरणोपसृतं
सत्त्वं
नात्याक्षीः
शरणप्रदः
42
▾
Meaning
Keep
कच्चित्त्वं
नागमोऽगम्यां
गम्यां
वासत्कृतां
स्त्रियम्
।
पराजितो
वाथ
भवान्नोत्तमैर्नासमैः
पथि
43
▾
Meaning
Keep
अपि
स्वित्पर्यभुङ्क्थास्त्वं
संभोज्यान्
वृद्धबालकान्
।
जुगुप्सितं
कर्म
किञ्चित्कृतवान्न
यदक्षमम्
44
▾
Meaning
Keep
कच्चित्प्रेष्ठतमेनाथ
हृदयेनात्मबन्धुना
।
शून्योऽस्मि
रहितो
नित्यं
मन्यसे
तेऽन्यथा
न
रुक्
Previous
←
Dhrtarastra Goes to the Forest
Next
The Pandavas Go Out
→