Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Pandavas Go Out
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
कृष्णसखः
कृष्णो
भ्रात्रा
राज्ञा
विकल्पितः
।
नानाशङ्कास्पदं
रूपं
कृष्णविश्लेषकर्शितः
2
▾
Meaning
Keep
शोकेन
शुष्यद्वदनहृत्सरोजो
हतप्रभः
।
विभुं
तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम्
3
▾
Meaning
Keep
कृच्छ्रेण
संस्तभ्य
शुचः
पाणिनाऽऽमृज्य
नेत्रयोः
।
परोक्षेण
समुन्नद्धप्रणयौत्कण्ठ्यकातरः
4
▾
Meaning
Keep
सख्यं
मैत्रीं
सौहृदं
च
सारथ्यादिषु
संस्मरन्
।
नृपमग्रजमित्याह
बाष्पगद्गदया
गिरा
5
▾
Meaning
Keep
वञ्चितोऽहं
महाराज
हरिणा
बन्धुरूपिणा
।
येन
मेऽपहृतं
तेजो
देवविस्मापनं
महत्
6
▾
Meaning
Keep
यस्य
क्षणवियोगेन
लोको
ह्यप्रियदर्शनः
।
उक्थेन
रहितो
ह्येष
मृतकः
प्रोच्यते
यथा
7
▾
Meaning
Keep
यत्संश्रयाद्द्रुपदगेहमुपागतानां
राज्ञां
स्वयंवरमुखे
स्मरदुर्मदानाम्
।
तेजो
हृतं
खलु
मयाभिहतश्च
मत्स्यः
सज्जीकृतेन
धनुषाधिगता
च
कृष्णा
8
▾
Meaning
Keep
यत्सन्निधावहमु
खाण्डवमग्नयेऽदा-
मिन्द्रं
च
सामरगणं
तरसा
विजित्य
।
लब्धा
सभा
मयकृताद्भुतशिल्पमाया
दिग्भ्योऽहरन्
नृपतयो
बलिमध्वरे
ते
9
▾
Meaning
Keep
यत्तेजसा
नृपशिरोऽङ्घ्रिम्
अहन्
मखार्थम्
आर्योऽनुजस्तव
गजायुतसत्त्ववीर्यः
।
तेनाहृताः
प्रमथनाथमखाय
भूपा
यन्मोचितास्तदनयन्
बलिमध्वरे
ते
10
▾
Meaning
Keep
पत्न्यास्तवाधिमखकॢप्तमहाभिषेक-
श्लाघिष्ठचारुकबरं
कितवैः
सभायाम्
।
स्पृष्टं
विकीर्य
पदयोः
पतिताश्रुमुख्या
यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः
11
▾
Meaning
Keep
यो
नो
जुगोप
वनमेत्य
दुरन्तकृच्छ्राद्
दुर्वाससोऽरिविहितादयुताग्रभुग्यः
।
शाकान्नशिष्टमुपयुज्य
यतस्त्रिलोकीं
तृप्ताममंस्त
सलिले
विनिमग्नसङ्घः
12
▾
Meaning
Keep
यत्तेजसाथ
भगवान्
युधि
शूलपाणि-
र्विस्मापितः
सगिरिजोऽस्त्रमदान्निजं
मे
।
अन्येऽपि
चाहममुनैव
कलेवरेण
प्राप्तो
महेन्द्रभवने
महदासनार्धम्
13
▾
Meaning
Keep
तत्रैव
मे
विहरतो
भुजदण्डयुग्मं
गाण्डीवलक्षणमरातिवधाय
देवाः
।
सेन्द्राः
श्रिता
यदनुभावितमाजमीढ
तेनाहमद्य
मुषितः
पुरुषेण
भूम्ना
14
▾
Meaning
Keep
यद्बान्धवः
कुरुबलाब्धिमनन्तपारमेको
रथेन
ततरेऽहमतार्यसत्त्वम्
।
प्रत्याहृतं
बहु
धनं
च
मया
परेषां
तेजास्पदं
मणिमयं
च
हृतं
शिरोभ्यः
15
▾
Meaning
Keep
यो
भीष्मकर्णगुरुशल्यचमूष्वदभ्र-
राजन्यवर्यरथमण्डलमण्डितासु
।
अग्रेचरो
मम
विभो
रथयूथपाना-
मायुर्मनांसि
च
दृशा
सह
ओज
आर्च्छत्
16
▾
Meaning
Keep
यद्दोष्षु
मा
प्रणिहितं
गुरुभीष्मकर्णनप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः
।
अस्त्राण्यमोघमहिमानि
निरूपितानि
नो
पस्पृशुर्नृहरिदासमिवासुराणि
17
▾
Meaning
Keep
सौत्ये
वृतः
कुमतिनाऽऽत्मद
ईश्वरो
मे
यत्पादपद्ममभवाय
भजन्ति
भव्याः
।
मां
श्रान्तवाहमरयो
रथिनो
भुविष्ठं
न
प्राहरन्
यदनुभावनिरस्तचित्ताः
18
▾
Meaning
Keep
नर्माण्युदाररुचिरस्मितशोभितानि
हे
पार्थ
हेऽर्जुन
सखे
कुरुनन्दनेति
।
संजल्पितानि
नरदेव
हृदिस्पृशानि
स्मर्तुर्लुठन्ति
हृदयं
मम
माधवस्य
19
▾
Meaning
Keep
शय्यासनाटनविकत्थनभोजनादि-
ष्वैक्याद्वयस्य
ऋतवानिति
विप्रलब्धः
।
सख्युः
सखेव
पितृवत्तनयस्य
सर्वं
सेहे
महान्
महितया
कुमतेरघं
मे
20
▾
Meaning
Keep
सोऽहं
नृपेन्द्र
रहितः
पुरुषोत्तमेन
सख्या
प्रियेण
सुहृदा
हृदयेन
शून्यः
।
अध्वन्युरुक्रमपरिग्रहमङ्ग
रक्षन्
गोपैरसद्भिरबलेव
विनिर्जितोऽस्मि
21
▾
Meaning
Keep
तद्वै
धनुस्त
इषवः
स
रथो
हयास्ते
सोऽहं
रथी
नृपतयो
यत
आनमन्ति
।
सर्वं
क्षणेन
तदभूदसदीशरिक्तं
भस्मन्
हुतं
कुहकराद्धमिवोप्तमूष्याम्
22
▾
Meaning
Keep
राजंस्त्वयाभिपृष्टानां
सुहृदां
नः
सुहृत्पुरे
।
विप्रशापविमूढानां
निघ्नतां
मुष्टिभिर्मिथः
23
▾
Meaning
Keep
वारुणीं
मदिरां
पीत्वा
मदोन्मथितचेतसाम्
।
अजानतामिवान्योन्यं
चतुःपञ्चावशेषिताः
24
▾
Meaning
Keep
प्रायेणैतद्भगवत
ईश्वरस्य
विचेष्टितम्
।
मिथो
निघ्नन्ति
भूतानि
भावयन्ति
च
यन्मिथः
25
▾
Meaning
Keep
जलौकसां
जले
यद्वन्महान्तोऽदन्त्यणीयसः
।
दुर्बलान्
बलिनो
राजन्
महान्तो
बलिनो
मिथः
26
▾
Meaning
Keep
एवं
बलिष्ठैर्यदुभिर्महद्भिरितरान्
विभुः
।
यदून्
यदुभिरन्योन्यं
भूभारान्
सञ्जहार
ह
27
▾
Meaning
Keep
देशकालार्थयुक्तानि
हृत्तापोपशमानि
च
।
हरन्ति
स्मरतश्चित्तं
गोविन्दाभिहितानि
मे
28
▾
Meaning
Keep
एवं
चिन्तयतो
जिष्णोः
कृष्णपादसरोरुहम्
।
सौहार्देनातिगाढेन
शान्ताऽऽसीद्विमला
मतिः
29
▾
Meaning
Keep
वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा
।
भक्त्या
निर्मथिताशेषकषायधिषणोऽर्जुनः
30
▾
Meaning
Keep
गीतं
भगवता
ज्ञानं
यत्तत्सङ्ग्राममूर्धनि
।
कालकर्मतमोरुद्धं
पुनरध्यगमद्
विभुः
31
▾
Meaning
Keep
विशोको
ब्रह्मसम्पत्त्या
संछिन्नद्वैतसंशयः
।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसंभवः
32
▾
Meaning
Keep
निशम्य
भगवन्मार्गं
संस्थां
यदुकुलस्य
च
।
स्वःपथाय
मतिं
चक्रे
निभृतात्मा
युधिष्ठिरः
33
▾
Meaning
Keep
पृथाप्यनुश्रुत्य
धनञ्जयोदितं
नाशं
यदूनां
भगवद्गतिं
च
ताम्
।
एकान्तभक्त्या
भगवत्यधोक्षजे
निवेशितात्मोपरराम
संसृतेः
34
▾
Meaning
Keep
ययाहरद्भुवो
भारं
तां
तनुं
विजहावजः
।
कण्टकं
कण्टकेनेव
द्वयं
चापीशितुः
समम्
35
▾
Meaning
Keep
यथा
मत्स्यादिरूपाणि
धत्ते
जह्याद्यथा
नटः
।
भूभारः
क्षपितो
येन
जहौ
तच्च
कलेवरम्
36
▾
Meaning
Keep
यदा
मुकुन्दो
भगवानिमां
महीं
जहौ
स्वतन्वा
श्रवणीयसत्कथः
।
तदाहरेवाप्रतिबुद्धचेतसामधर्महेतुः
कलिरन्ववर्तत
37
▾
Meaning
Keep
युधिष्ठिरस्तत्परिसर्पणं
बुधः
पुरे
च
राष्ट्रे
च
गृहे
तथाऽऽत्मनि
।
विभाव्य
लोभानृतजिह्महिंसना-
द्यधर्मचक्रं
गमनाय
पर्यधात्
38
▾
Meaning
Keep
स्वराट्
पौत्रं
विनयिनमात्मनः
सुसमं
गुणैः
।
तोयनीव्याः
पतिं
भूमेरभ्यषिञ्चद्गजाह्वये
39
▾
Meaning
Keep
मथुरायां
तथा
वज्रं
शूरसेनपतिं
ततः
।
प्राजापत्यां
निरूप्येष्टिमग्नीनपिबदीश्वरः
40
▾
Meaning
Keep
विसृज्य
तत्र
तत्सर्वं
दुकूलवलयादिकम्
।
निर्ममो
निरहङ्कारः
संछिन्नाशेषबन्धनः
41
▾
Meaning
Keep
वाचं
जुहाव
मनसि
तत्प्राण
इतरे
च
तम्
।
मृत्यावपानं
सोत्सर्गं
तं
पञ्चत्वे
ह्यजोहवीत्
42
▾
Meaning
Keep
त्रित्वे
हुत्वाथ
पञ्चत्वं
तच्चैकत्वेऽजुहोन्मुनिः
।
सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये
43
▾
Meaning
Keep
चीरवासा
निराहारो
बद्धवाङ्मुक्तमूर्धजः
।
दर्शयन्नात्मनो
रूपं
जडोन्मत्तपिशाचवत्
44
▾
Meaning
Keep
अनवेक्षमाणो
निरगादशृण्वन्
बधिरो
यथा
।
उदीचीं
प्रविवेशाशां
गतपूर्वां
महात्मभिः
।
हृदि
ब्रह्म
परं
ध्यायन्
नावर्तेत
यतो
गतः
45
▾
Meaning
Keep
सर्वे
तमनुनिर्जग्मुर्भ्रातरः
कृतनिश्चयाः
।
कलिनाधर्ममित्रेण
दृष्ट्वा
स्पृष्टाः
प्रजा
भुवि
46
▾
Meaning
Keep
ते
साधुकृतसर्वार्था
ज्ञात्वाऽऽत्यन्तिकमात्मनः
।
मनसा
धारयामासुर्वैकुण्ठचरणाम्बुजम्
47
▾
Meaning
Keep
तद्ध्यानोद्रिक्तया
भक्त्या
विशुद्धधिषणाः
परे
।
तस्मिन्
नारायणपदे
एकान्तमतयो
गतिम्
48
▾
Meaning
Keep
अवापुर्दुरवापां
ते
असद्भिर्विषयात्मभिः
।
विधूतकल्मषा
स्थानं
विरजेनात्मनैव
हि
49
▾
Meaning
Keep
विदुरोऽपि
परित्यज्य
प्रभासे
देहमात्मवान्
।
कृष्णावेशेन
तच्चित्तः
पितृभिः
स्वक्षयं
ययौ
50
▾
Meaning
Keep
द्रौपदी
च
तदाऽऽज्ञाय
पतीनामनपेक्षताम्
।
वासुदेवे
भगवति
ह्येकान्तमतिराप
तम्
51
▾
Meaning
Keep
यः
श्रद्धयैतद्
भगवत्प्रियाणां
पाण्डोः
सुतानामिति
संप्रयाणम्
।
शृणोत्यलं
स्वस्त्ययनं
पवित्रं
लब्ध्वा
हरौ
भक्तिमुपैति
सिद्धिम्
Previous
←
The Omens at Hastinapura
Next
The Earth and Dharma Talk Together
→