Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Earth and Dharma Talk Together
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ततः
परीक्षिद्द्विजवर्यशिक्षया
महीं
महाभागवतः
शशास
ह
।
यथा
हि
सूत्यामभिजातकोविदाः
समादिशन्
विप्र
महद्गुणस्तथा
2
▾
Meaning
Keep
स
उत्तरस्य
तनयामुपयेम
इरावतीम्
।
जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान्
3
▾
Meaning
Keep
आजहाराश्वमेधांस्त्रीन्
गङ्गायां
भूरिदक्षिणान्
।
शारद्वतं
गुरुं
कृत्वा
देवा
यत्राक्षिगोचराः
4
▾
Meaning
Keep
निजग्राहौजसा
वीरः
कलिं
दिग्विजये
क्वचित्
।
नृपलिङ्गधरं
शूद्रं
घ्नन्तं
गोमिथुनं
पदा
5
▾
Meaning
Keep
कस्य
हेतोर्निजग्राह
कलिं
दिग्विजये
नृपः
।
नृदेवचिह्नधृक्
शूद्रकोऽसौ
गां
यः
पदाहनत्
।
तत्कथ्यतां
महाभाग
यदि
कृष्णकथाश्रयम्
6
▾
Meaning
Keep
अथवास्य
पदाम्भोजमकरन्दलिहां
सताम्
।
किमन्यैरसदालापैरायुषो
यदसद्व्ययः
7
▾
Meaning
Keep
क्षुद्रायुषां
नृणामङ्ग
मर्त्यानामृतमिच्छताम्
।
इहोपहूतो
भगवान्
मृत्युः
शामित्रकर्मणि
8
▾
Meaning
Keep
न
कश्चिन्म्रियते
तावद्यावदास्त
इहान्तकः
।
एतदर्थं
हि
भगवानाहूतः
परमर्षिभिः
।
अहो
नृलोके
पीयेत
हरिलीलामृतं
वचः
9
▾
Meaning
Keep
मन्दस्य
मन्दप्रज्ञस्य
वयो
मन्दायुषश्च
वै
।
निद्रया
ह्रियते
नक्तं
दिवा
च
व्यर्थकर्मभिः
10
▾
Meaning
Keep
यदा
परीक्षित्
कुरुजाङ्गलेऽवसत्
कलिं
प्रविष्टं
निजचक्रवर्तिते
।
निशम्य
वार्तामनतिप्रियां
ततः
शरासनं
संयुगशौण्डिराददे
11
▾
Meaning
Keep
स्वलङ्कृतं
श्यामतुरङ्गयोजितं
रथं
मृगेन्द्रध्वजमाश्रितः
पुरात्
।
वृतो
रथाश्वद्विपपत्तियुक्तया
स्वसेनया
दिग्विजयाय
निर्गतः
12
▾
Meaning
Keep
भद्राश्वं
केतुमालं
च
भारतं
चोत्तरान्
कुरून्
।
किम्पुरुषादीनि
वर्षाणि
विजित्य
जगृहे
बलिम्
13
▾
Meaning
Keep
तत्र
तत्रोपशृण्वानः
स्वपूर्वेषां
महात्मनाम्
।
प्रगीयमाणं
च
यशः
कृष्णमाहात्म्यसूचकम्
14
▾
Meaning
Keep
आत्मानं
च
परित्रातमश्वत्थाम्नोऽस्त्रतेजसः
।
स्नेहं
च
वृष्णिपार्थानां
तेषां
भक्तिं
च
केशवे
15
▾
Meaning
Keep
तेभ्यः
परमसन्तुष्टः
प्रीत्युज्जृम्भितलोचनः
।
महाधनानि
वासांसि
ददौ
हारान्
महामनाः
16
▾
Meaning
Keep
सारथ्यपारषदसेवनसख्यदौत्यवीरासनानुगमनस्तवनप्रणामान्
।
स्निग्धेषु
पाण्डुषु
जगत्प्रणतिं
च
विष्णोर्भक्तिं
करोति
नृपतिश्चरणारविन्दे
17
▾
Meaning
Keep
तस्यैवं
वर्तमानस्य
पूर्वेषां
वृत्तिमन्वहम्
।
नातिदूरे
किलाश्चर्यं
यदासीत्तन्निबोध
मे
18
▾
Meaning
Keep
धर्मः
पदैकेन
चरन्
विच्छायामुपलभ्य
गाम्
।
पृच्छति
स्माश्रुवदनां
विवत्सामिव
मातरम्
19
▾
Meaning
Keep
कच्चिद्भद्रेऽनामयमात्मनस्ते
विच्छायासि
म्लायतेषन्मुखेन
।
आलक्षये
भवतीमन्तराधिं
दूरे
बन्धुं
शोचसि
कञ्चनाम्ब
20
▾
Meaning
Keep
पादैर्न्यूनं
शोचसि
मैकपाद-
मात्मानं
वा
वृषलैर्भोक्ष्यमाणम्
।
आहो
सुरादीन्
हृतयज्ञभागान्
प्रजा
उत
स्विन्मघवत्यवर्षति
21
▾
Meaning
Keep
अरक्ष्यमाणाः
स्त्रिय
उर्वि
बालान्
शोचस्यथो
पुरुषादैरिवार्तान्
।
वाचं
देवीं
ब्रह्मकुले
कुकर्म-
ण्यब्रह्मण्ये
राजकुले
कुलाग्र्यान्
22
▾
Meaning
Keep
किं
क्षत्रबन्धून्
कलिनोपसृष्टान्
राष्ट्राणि
वा
तैरवरोपितानि
।
इतस्ततो
वाशनपानवासः
स्नानव्यवायोन्मुखजीवलोकम्
23
▾
Meaning
Keep
यद्वाम्ब
ते
भूरिभरावतार-
कृतावतारस्य
हरेर्धरित्रि
।
अन्तर्हितस्य
स्मरती
विसृष्टा
कर्माणि
निर्वाणविलम्बितानि
24
▾
Meaning
Keep
इदं
ममाचक्ष्व
तवाधिमूलं
वसुन्धरे
येन
विकर्शितासि
।
कालेन
वा
ते
बलिनां
बलीयसा
सुरार्चितं
किं
हृतमम्ब
सौभगम्
25
▾
Meaning
Keep
धरण्युवाच ।
भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।
चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः
26
▾
Meaning
Keep
सत्यं
शौचं
दया
क्षान्तिस्त्यागः
सन्तोष
आर्जवम्
।
शमो
दमस्तपः
साम्यं
तितिक्षोपरतिः
श्रुतम्
27
▾
Meaning
Keep
ज्ञानं
विरक्तिरैश्वर्यं
शौर्यं
तेजो
बलं
स्मृतिः
।
स्वातन्त्र्यं
कौशलं
कान्तिर्धैर्यं
मार्दवमेव
च
28
▾
Meaning
Keep
प्रागल्भ्यं
प्रश्रयः
शीलं
सह
ओजो
बलं
भगः
।
गाम्भीर्यं
स्थैर्यमास्तिक्यं
कीर्तिर्मानोऽनहङ्कृतिः
29
▾
Meaning
Keep
एते
चान्ये
च
भगवन्
नित्या
यत्र
महागुणाः
।
प्रार्थ्या
महत्त्वमिच्छद्भिर्न
वियन्ति
स्म
कर्हिचित्
30
▾
Meaning
Keep
तेनाहं
गुणपात्रेण
श्रीनिवासेन
साम्प्रतम्
।
शोचामि
रहितं
लोकं
पाप्मना
कलिनेक्षितम्
31
▾
Meaning
Keep
आत्मानं
चानुशोचामि
भवन्तं
चामरोत्तमम्
।
देवान्
पितॄनृषीन्
साधून्
सर्वान्
वर्णांस्तथाऽऽश्रमान्
32
▾
Meaning
Keep
ब्रह्मादयो
बहुतिथं
यदपाङ्गमोक्ष-
कामास्तपः
समचरन्
भगवत्प्रपन्नाः
।
सा
श्रीः
स्ववासमरविन्दवनं
विहाय
यत्पादसौभगमलं
भजतेऽनुरक्ता
33
▾
Meaning
Keep
तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः
श्रीमत्पदैर्भगवतः
समलंकृताङ्गी
।
त्रीनत्यरोच
उपलभ्य
ततो
विभूतिं
लोकान्
स
मां
व्यसृजदुत्स्मयतीं
तदन्ते
34
▾
Meaning
Keep
यो
वै
ममातिभरमासुरवंशराज्ञा-
मक्षौहिणीशतमपानुददात्मतन्त्रः
।
त्वां
दुःस्थमूनपदमात्मनि
पौरुषेण
सम्पादयन्
यदुषु
रम्यमबिभ्रदङ्गम्
35
▾
Meaning
Keep
का
वा
सहेत
विरहं
पुरुषोत्तमस्य
प्रेमावलोकरुचिरस्मितवल्गुजल्पैः
।
स्थैर्यं
समानमहरन्मधुमानिनीनां
रोमोत्सवो
मम
यदङ्घ्रिविटङ्कितायाः
36
▾
Meaning
Keep
तयोरेवं
कथयतोः
पृथिवीधर्मयोस्तदा
।
परीक्षिन्नाम
राजर्षिः
प्राप्तः
प्राचीं
सरस्वतीम्
Previous
←
The Pandavas Go Out
Next
The King Confronts Kali
→