Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The King Confronts Kali
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तत्र
गोमिथुनं
राजा
हन्यमानमनाथवत्
दण्डहस्तं
च
वृषलं
ददृशे
नृपलाञ्छनम्
2
▾
Meaning
Keep
वृषं
मृणालधवलं
मेहन्तमिव
बिभ्यतम्
।
वेपमानं
पदैकेन
सीदन्तं
शूद्रताडितम्
3
▾
Meaning
Keep
गां
च
धर्मदुघां
दीनां
भृशं
शूद्रपदाहताम्
।
विवत्सां
साश्रुवदनां
क्षामां
यवसमिच्छतीम्
4
▾
Meaning
Keep
पप्रच्छ
रथमारूढः
कार्तस्वरपरिच्छदम्
।
मेघगम्भीरया
वाचा
समारोपितकार्मुकः
5
▾
Meaning
Keep
कस्त्वं
मच्छरणे
लोके
बलाद्धंस्यबलान्
बली
।
नरदेवोऽसि
वेषेण
नटवत्कर्मणाद्विजः
6
▾
Meaning
Keep
यस्त्वं
कृष्णे
गते
दूरं
सहगाण्डीवधन्वना
।
शोच्योऽस्यशोच्यान्
रहसि
प्रहरन्
वधमर्हसि
7
▾
Meaning
Keep
त्वं
वा
मृणालधवलः
पादैर्न्यूनः
पदा
चरन्
।
वृषरूपेण
किं
कश्चिद्देवो
नः
परिखेदयन्
8
▾
Meaning
Keep
न
जातु
कौरवेन्द्राणां
दोर्दण्डपरिरम्भिते
।
भूतलेऽनुपतन्त्यस्मिन्
विना
ते
प्राणिनां
शुचः
9
▾
Meaning
Keep
मा
सौरभेयानुशुचो
व्येतु
ते
वृषलाद्भयम्
।
मा
रोदीरम्ब
भद्रं
ते
खलानां
मयि
शास्तरि
10
▾
Meaning
Keep
यस्य
राष्ट्रे
प्रजाः
सर्वास्त्रस्यन्ते
साध्व्यसाधुभिः
।
तस्य
मत्तस्य
नश्यन्ति
कीर्तिरायुर्भगो
गतिः
11
▾
Meaning
Keep
एष
राज्ञां
परो
धर्मो
ह्यार्तानामार्तिनिग्रहः
।
अत
एनं
वधिष्यामि
भूतद्रुहमसत्तमम्
12
▾
Meaning
Keep
कोऽवृश्चत्तव
पादांस्त्रीन्
सौरभेय
चतुष्पद
।
मा
भूवंस्त्वादृशा
राष्ट्रे
राज्ञां
कृष्णानुवर्तिनाम्
13
▾
Meaning
Keep
आख्याहि
वृष
भद्रं
वः
साधूनामकृतागसाम्
।
आत्मवैरूप्यकर्तारं
पार्थानां
कीर्तिदूषणम्
14
▾
Meaning
Keep
जनेऽनागस्यघं
युञ्जन्
सर्वतोऽस्य
च
मद्भयम्
।
साधूनां
भद्रमेव
स्यादसाधुदमने
कृते
15
▾
Meaning
Keep
अनागःस्विह
भूतेषु
य
आगस्कृन्निरङ्कुशः
।
आहर्तास्मि
भुजं
साक्षादमर्त्यस्यापि
साङ्गदम्
16
▾
Meaning
Keep
राज्ञो
हि
परमो
धर्मः
स्वधर्मस्थानुपालनम्
।
शासतोऽन्यान्
यथाशास्त्रमनापद्युत्पथानिह
17
▾
Meaning
Keep
एतद्वः
पाण्डवेयानां
युक्तमार्ताभयं
वचः
।
येषां
गुणगणैः
कृष्णो
दौत्यादौ
भगवान्
कृतः
18
▾
Meaning
Keep
न
वयं
क्लेशबीजानि
यतः
स्युः
पुरुषर्षभ
।
पुरुषं
तं
विजानीमो
वाक्यभेदविमोहिताः
19
▾
Meaning
Keep
केचिद्विकल्पवसना
आहुरात्मानमात्मनः
।
दैवमन्ये
परे
कर्म
स्वभावमपरे
प्रभुम्
20
▾
Meaning
Keep
अप्रतर्क्यादनिर्देश्यादिति
केष्वपि
निश्चयः
।
अत्रानुरूपं
राजर्षे
विमृश
स्वमनीषया
21
▾
Meaning
Keep
एवं
धर्मे
प्रवदति
स
सम्राड्
द्विजसत्तमाः
।
समाहितेन
मनसा
विखेदः
पर्यचष्ट
तम्
22
▾
Meaning
Keep
धर्मं
ब्रवीषि
धर्मज्ञ
धर्मोऽसि
वृषरूपधृक्
।
यदधर्मकृतः
स्थानं
सूचकस्यापि
तद्भवेत्
23
▾
Meaning
Keep
अथवा
देवमायाया
नूनं
गतिरगोचरा
।
चेतसो
वचसश्चापि
भूतानामिति
निश्चयः
24
▾
Meaning
Keep
तपः
शौचं
दया
सत्यमिति
पादाः
कृते
कृताः
।
अधर्मांशैस्त्रयो
भग्नाः
स्मयसङ्गमदैस्तव
25
▾
Meaning
Keep
इदानीं
धर्म
पादस्ते
सत्यं
निर्वर्तयेद्यतः
।
तं
जिघृक्षत्यधर्मोऽयमनृतेनैधितः
कलिः
26
▾
Meaning
Keep
इयं
च
भूर्भगवता
न्यासितोरुभरा
सती
।
श्रीमद्भिस्तत्पदन्यासैः
सर्वतः
कृतकौतुका
27
▾
Meaning
Keep
शोचत्यश्रुकला
साध्वी
दुर्भगेवोज्झिताधुना
।
अब्रह्मण्या
नृपव्याजाः
शूद्रा
भोक्ष्यन्ति
मामिति
28
▾
Meaning
Keep
इति
धर्मं
महीं
चैव
सान्त्वयित्वा
महारथः
।
निशातमाददे
खड्गं
कलयेऽधर्महेतवे
29
▾
Meaning
Keep
तं
जिघांसुमभिप्रेत्य
विहाय
नृपलाञ्छनम्
।
तत्पादमूलं
शिरसा
समगाद्भयविह्वलः
30
▾
Meaning
Keep
पतितं
पादयोर्वीरः
कृपया
दीनवत्सलः
।
शरण्यो
नावधीच्छ्लोक्य
आह
चेदं
हसन्निव
31
▾
Meaning
Keep
न
ते
गुडाकेशयशोधराणां
बद्धाञ्जलेर्वै
भयमस्ति
किञ्चित्
।
न
वर्तितव्यं
भवता
कथञ्चन
क्षेत्रे
मदीये
त्वमधर्मबन्धुः
32
▾
Meaning
Keep
त्वां
वर्तमानं
नरदेवदेहे-
ष्वनुप्रवृत्तोऽयमधर्मपूगः
।
लोभोऽनृतं
चौर्यमनार्यमंहो
ज्येष्ठा
च
माया
कलहश्च
दम्भः
33
▾
Meaning
Keep
न
वर्तितव्यं
तदधर्मबन्धो
धर्मेण
सत्येन
च
वर्तितव्ये
।
ब्रह्मावर्ते
यत्र
यजन्ति
यज्ञै-
र्यज्ञेश्वरं
यज्ञवितानविज्ञाः
34
▾
Meaning
Keep
यस्मिन्
हरिर्भगवानिज्यमान
इज्यात्ममूर्तिर्यजतां
शं
तनोति
।
कामानमोघान्
स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष
आत्मा
35
▾
Meaning
Keep
परीक्षितैवमादिष्टः
स
कलिर्जातवेपथुः
।
तमुद्यतासिमाहेदं
दण्डपाणिमिवोद्यतम्
36
▾
Meaning
Keep
यत्र
क्वचन
वत्स्यामि
सार्वभौम
तवाज्ञया
।
लक्षये
तत्र
तत्रापि
त्वामात्तेषुशरासनम्
37
▾
Meaning
Keep
तन्मे
धर्मभृतां
श्रेष्ठ
स्थानं
निर्देष्टुमर्हसि
।
यत्रैव
नियतो
वत्स्य
आतिष्ठंस्तेऽनुशासनम्
38
▾
Meaning
Keep
अभ्यर्थितस्तदा
तस्मै
स्थानानि
कलये
ददौ
।
द्यूतं
पानं
स्त्रियः
सूना
यत्राधर्मश्चतुर्विधः
39
▾
Meaning
Keep
पुनश्च
याचमानाय
जातरूपमदात्प्रभुः
।
ततोऽनृतं
मदं
कामं
रजो
वैरं
च
पञ्चमम्
40
▾
Meaning
Keep
अमूनि
पञ्च
स्थानानि
ह्यधर्मप्रभवः
कलिः
।
औत्तरेयेण
दत्तानि
न्यवसत्तन्निदेशकृत्
41
▾
Meaning
Keep
अथैतानि
न
सेवेत
बुभूषुः
पुरुषः
क्वचित्
।
विशेषतो
धर्मशीलो
राजा
लोकपतिर्गुरुः
42
▾
Meaning
Keep
वृषस्य
नष्टांस्त्रीन्
पादान्
तपः
शौचं
दयामिति
।
प्रतिसन्दध
आश्वास्य
महीं
च
समवर्धयत्
43
▾
Meaning
Keep
स
एष
एतर्ह्यध्यास्त
आसनं
पार्थिवोचितम्
।
पितामहेनोपन्यस्तं
राज्ञारण्यं
विविक्षता
44
▾
Meaning
Keep
आस्तेऽधुना
स
राजर्षिः
कौरवेन्द्रश्रियोल्लसन्
।
गजाह्वये
महाभागश्चक्रवर्ती
बृहच्छ्रवाः
45
▾
Meaning
Keep
इत्थम्भूतानुभावोऽयमभिमन्युसुतो
नृपः
।
यस्य
पालयतः
क्षोणीं
यूयं
सत्राय
दीक्षिताः
Previous
←
The Earth and Dharma Talk Together
Next
The Brahmin Boy's Curse
→