Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Brahmin Boy's Curse
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यो
वै
द्रौण्यस्त्रविप्लुष्टो
न
मातुरुदरे
मृतः
।
अनुग्रहाद्भगवतः
कृष्णस्याद्भुतकर्मणः
2
▾
Meaning
Keep
ब्रह्मकोपोत्थिताद्यस्तु
तक्षकात्प्राणविप्लवात्
।
न
सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः
3
▾
Meaning
Keep
उत्सृज्य
सर्वतः
सङ्गं
विज्ञाताजितसंस्थितिः
।
वैयासकेर्जहौ
शिष्यो
गङ्गायां
स्वं
कलेवरम्
4
▾
Meaning
Keep
नोत्तमश्लोकवार्तानां
जुषतां
तत्कथामृतम्
।
स्यात्सम्भ्रमोऽन्तकालेऽपि
स्मरतां
तत्पदाम्बुजम्
5
▾
Meaning
Keep
तावत्कलिर्न
प्रभवेत्प्रविष्टोऽपीह
सर्वतः
।
यावदीशो
महानुर्व्यामाभिमन्यव
एकराट्
6
▾
Meaning
Keep
यस्मिन्नहनि
यर्ह्येव
भगवानुत्ससर्ज
गाम्
।
तदैवेहानुवृत्तोऽसावधर्मप्रभवः
कलिः
7
▾
Meaning
Keep
नानुद्वेष्टि
कलिं
सम्राट्
सारङ्ग
इव
सारभुक्
।
कुशलान्याशु
सिद्ध्यन्ति
नेतराणि
कृतानि
यत्
8
▾
Meaning
Keep
किं
नु
बालेषु
शूरेण
कलिना
धीरभीरुणा
।
अप्रमत्तः
प्रमत्तेषु
यो
वृको
नृषु
वर्तते
9
▾
Meaning
Keep
उपवर्णितमेतद्वः
पुण्यं
पारीक्षितं
मया
।
वासुदेवकथोपेतमाख्यानं
यदपृच्छत
10
▾
Meaning
Keep
या
याः
कथा
भगवतः
कथनीयोरुकर्मणः
।
गुणकर्माश्रयाः
पुम्भिः
संसेव्यास्ता
बुभूषुभिः
11
▾
Meaning
Keep
सूत
जीव
समाः
सौम्य
शाश्वतीर्विशदं
यशः
।
यस्त्वं
शंससि
कृष्णस्य
मर्त्यानाममृतं
हि
नः
12
▾
Meaning
Keep
कर्मण्यस्मिन्ननाश्वासे
धूमधूम्रात्मनां
भवान्
।
आपाययति
गोविन्दपादपद्मासवं
मधु
13
▾
Meaning
Keep
तुलयाम
लवेनापि
न
स्वर्गं
नापुनर्भवम्
।
भगवत्सङ्गिसङ्गस्य
मर्त्यानां
किमुताशिषः
14
▾
Meaning
Keep
को
नाम
तृप्येद्रसवित्कथायां
महत्तमैकान्तपरायणस्य
।
नान्तं
गुणानामगुणस्य
जग्मु-
र्योगेश्वरा
ये
भवपाद्ममुख्याः
15
▾
Meaning
Keep
तन्नो
भवान्
वै
भगवत्प्रधानो
महत्तमैकान्तपरायणस्य
।
हरेरुदारं
चरितं
विशुद्धं
शुश्रूषतां
नो
वितनोतु
विद्वन्
16
▾
Meaning
Keep
स
वै
महाभागवतः
परीक्षि-
द्येनापवर्गाख्यमदभ्रबुद्धिः
।
ज्ञानेन
वैयासकिशब्दितेन
भेजे
खगेन्द्रध्वजपादमूलम्
17
▾
Meaning
Keep
तन्नः
परं
पुण्यमसंवृतार्थ-
माख्यानमत्यद्भुतयोगनिष्ठम्
।
आख्याह्यनन्ताचरितोपपन्नं
पारीक्षितं
भागवताभिरामम्
18
▾
Meaning
Keep
अहो
वयं
जन्मभृतोऽद्य
हास्म
वृद्धानुवृत्त्यापि
विलोमजाताः
।
दौष्कुल्यमाधिं
विधुनोति
शीघ्रं
महत्तमानामभिधानयोगः
19
▾
Meaning
Keep
कुतः
पुनर्गृणतो
नाम
तस्य
महत्तमैकान्तपरायणस्य
।
योऽनन्तशक्तिर्भगवाननन्तो
महद्गुणत्वाद्यमनन्तमाहुः
20
▾
Meaning
Keep
एतावतालं
ननु
सूचितेन
गुणैरसाम्यानतिशायनस्य
।
हित्वेतरान्
प्रार्थयतो
विभूति-
र्यस्याङ्घ्रिरेणुं
जुषतेऽनभीप्सोः
21
▾
Meaning
Keep
अथापि
यत्पादनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भः
।
सेशं
पुनात्यन्यतमो
मुकुन्दा-
त्को
नाम
लोके
भगवत्पदार्थः
22
▾
Meaning
Keep
यत्रानुरक्ताः
सहसैव
धीरा
व्यपोह्य
देहादिषु
सङ्गमूढम्
।
व्रजन्ति
तत्पारमहंस्यमन्त्यं
यस्मिन्नहिंसोपशमः
स्वधर्मः
23
▾
Meaning
Keep
अहं
हि
पृष्टोऽर्यमणो
भवद्भि-
राचक्ष
आत्मावगमोऽत्र
यावान्
।
नभः
पतन्त्यात्मसमं
पतत्त्रिण-
स्तथा
समं
विष्णुगतिं
विपश्चितः
24
▾
Meaning
Keep
एकदा
धनुरुद्यम्य
विचरन्
मृगयां
वने
।
मृगाननुगतः
श्रान्तः
क्षुधितस्तृषितो
भृशम्
25
▾
Meaning
Keep
जलाशयमचक्षाणः
प्रविवेश
तमाश्रमम्
।
ददर्श
मुनिमासीनं
शान्तं
मीलितलोचनम्
26
▾
Meaning
Keep
प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम्
।
स्थानत्रयात्परं
प्राप्तं
ब्रह्मभूतमविक्रियम्
27
▾
Meaning
Keep
विप्रकीर्णजटाच्छन्नं
रौरवेणाजिनेन
च
।
विशुष्यत्तालुरुदकं
तथाभूतमयाचत
28
▾
Meaning
Keep
अलब्धतृणभूम्यादिरसंप्राप्तार्घ्यसूनृतः
।
अवज्ञातमिवात्मानं
मन्यमानश्चुकोप
ह
29
▾
Meaning
Keep
अभूतपूर्वः
सहसा
क्षुत्तृड्भ्यामर्दितात्मनः
।
ब्राह्मणं
प्रत्यभूद्ब्रह्मन्
मत्सरो
मन्युरेव
च
30
▾
Meaning
Keep
स
तु
ब्रह्मऋषेरंसे
गतासुमुरगं
रुषा
।
विनिर्गच्छन्
धनुष्कोट्या
निधाय
पुरमागमत्
31
▾
Meaning
Keep
एष
किं
निभृताशेषकरणो
मीलितेक्षणः
।
मृषासमाधिराहोस्वित्किं
नु
स्यात्क्षत्रबन्धुभिः
32
▾
Meaning
Keep
तस्य
पुत्रोऽतितेजस्वी
विहरन्
बालकोऽर्भकैः
।
राज्ञाघं
प्रापितं
तातं
श्रुत्वा
तत्रेदमब्रवीत्
33
▾
Meaning
Keep
अहो
अधर्मः
पालानां
पीव्नां
बलिभुजामिव
।
स्वामिन्यघं
यद्दासानां
द्वारपानां
शुनामिव
34
▾
Meaning
Keep
ब्राह्मणैः
क्षत्रबन्धुर्हि
द्वारपालो
निरूपितः
।
स
कथं
तद्गृहे
द्वाःस्थः
सभाण्डं
भोक्तुमर्हति
35
▾
Meaning
Keep
कृष्णे
गते
भगवति
शास्तर्युत्पथगामिनाम्
।
तद्भिन्नसेतूनद्याहं
शास्मि
पश्यत
मे
बलम्
36
▾
Meaning
Keep
इत्युक्त्वा
रोषताम्राक्षो
वयस्यान्
ऋषिबालकः
।
कौशिक्याप
उपस्पृश्य
वाग्वज्रं
विससर्ज
ह
37
▾
Meaning
Keep
इति
लङ्घितमर्यादं
तक्षकः
सप्तमेऽहनि
।
दङ्क्ष्यति
स्म
कुलाङ्गारं
चोदितो
मे
ततद्रुहम्
38
▾
Meaning
Keep
ततोऽभ्येत्याश्रमं
बालो
गले
सर्पकलेवरम्
।
पितरं
वीक्ष्य
दुःखार्तो
मुक्तकण्ठो
रुरोद
ह
39
▾
Meaning
Keep
स
वा
आङ्गिरसो
ब्रह्मन्
श्रुत्वा
सुतविलापनम्
।
उन्मील्य
शनकैर्नेत्रे
दृष्ट्वा
स्वांसे
मृतोरगम्
40
▾
Meaning
Keep
विसृज्य
पुत्रं
पप्रच्छ
वत्स
कस्माद्धि
रोदिषि
।
केन
वा
ते
अपकृतमित्युक्तः
स
न्यवेदयत्
41
▾
Meaning
Keep
निशम्य
शप्तमतदर्हं
नरेन्द्रं
स
ब्राह्मणो
नात्मजमभ्यनन्दत्
।
अहो
बतांहो
महदज्ञ
ते
कृतमल्पीयसि
द्रोह
उरुर्दमो
धृतः
42
▾
Meaning
Keep
न
वै
नृभिर्नरदेवं
पराख्यं
सम्मातुमर्हस्यविपक्वबुद्धे
।
यत्तेजसा
दुर्विषहेण
गुप्ता
विन्दन्ति
भद्राण्यकुतोभयाः
प्रजाः
43
▾
Meaning
Keep
अलक्ष्यमाणे
नरदेवनाम्नि
रथाङ्गपाणावयमङ्ग
लोकः
।
तदा
हि
चौरप्रचुरो
विनङ्क्ष्य-
त्यरक्ष्यमाणोऽविवरूथवत्क्षणात्
44
▾
Meaning
Keep
तदद्य
नः
पापमुपैत्यनन्वयं
यन्नष्टनाथस्य
वसोर्विलुम्पकात्
।
परस्परं
घ्नन्ति
शपन्ति
वृञ्जते
पशून्
स्त्रियोऽर्थान्
पुरुदस्यवो
जनाः
45
▾
Meaning
Keep
तदाऽऽर्यधर्मश्च
विलीयते
नृणां
वर्णाश्रमाचारयुतस्त्रयीमयः
।
ततोऽर्थकामाभिनिवेशितात्मनां
शुनां
कपीनामिव
वर्णसङ्करः
46
▾
Meaning
Keep
धर्मपालो
नरपतिः
स
तु
सम्राड्बृहच्छ्रवाः
।
साक्षान्महाभागवतो
राजर्षिर्हयमेधयाट्
।
क्षुत्तृट्
श्रमयुतो
दीनो
नैवास्मच्छापमर्हति
47
▾
Meaning
Keep
अपापेषु
स्वभृत्येषु
बालेनापक्वबुद्धिना
।
पापं
कृतं
तद्भगवान्
सर्वात्मा
क्षन्तुमर्हति
48
▾
Meaning
Keep
तिरस्कृता
विप्रलब्धाः
शप्ताः
क्षिप्ता
हता
अपि
।
नास्य
तत्प्रतिकुर्वन्ति
तद्भक्ताः
प्रभवोऽपि
हि
49
▾
Meaning
Keep
इति
पुत्रकृताघेन
सोऽनुतप्तो
महामुनिः
।
स्वयं
विप्रकृतो
राज्ञा
नैवाघं
तदचिन्तयत्
50
▾
Meaning
Keep
प्रायशः
साधवो
लोके
परैर्द्वन्द्वेषु
योजिताः
।
न
व्यथन्ति
न
हृष्यन्ति
यत
आत्माऽगुणाश्रयः
Previous
←
The King Confronts Kali
Next
The King Sits Down on the Ganga
→