Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The King Sits Down on the Ganga
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
महीपतिस्त्वथ
तत्कर्म
गर्ह्यं
विचिन्तयन्नात्मकृतं
सुदुर्मनाः
।
अहो
मया
नीचमनार्यवत्कृतं
निरागसि
ब्रह्मणि
गूढतेजसि
2
▾
Meaning
Keep
ध्रुवं
ततो
मे
कृतदेवहेलना-
द्दुरत्ययं
व्यसनं
नातिदीर्घात्
।
तदस्तु
कामं
त्वघनिष्कृताय
मे
यथा
न
कुर्यां
पुनरेवमद्धा
3
▾
Meaning
Keep
अद्यैव
राज्यं
बलमृद्धकोशं
प्रकोपितब्रह्मकुलानलो
मे
।
दहत्वभद्रस्य
पुनर्न
मेऽभू-
त्पापीयसी
धीर्द्विजदेवगोभ्यः
4
▾
Meaning
Keep
स
चिन्तयन्नित्थमथाशृणोद्यथा
मुनेः
सुतोक्तो
निरृतिस्तक्षकाख्यः
।
स
साधु
मेने
न
चिरेण
तक्षका-
नलं
प्रसक्तस्य
विरक्तिकारणम्
5
▾
Meaning
Keep
अथो
विहायेमममुं
च
लोकं
विमर्शितौ
हेयतया
पुरस्तात्
।
कृष्णाङ्घ्रिसेवामधिमन्यमान
उपाविशत्प्रायममर्त्यनद्याम्
6
▾
Meaning
Keep
या
वै
लसच्छ्रीतुलसीविमिश्र-
कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री
।
पुनाति
लोकानुभयत्र
सेशान्
कस्तां
न
सेवेत
मरिष्यमाणः
7
▾
Meaning
Keep
इति
व्यवच्छिद्य
स
पाण्डवेयः
प्रायोपवेशं
प्रति
विष्णुपद्याम्
।
दध्यौ
मुकुन्दाङ्घ्रिमनन्यभावो
मुनिव्रतो
मुक्तसमस्तसङ्गः
8
▾
Meaning
Keep
तत्रोपजग्मुर्भुवनं
पुनाना
महानुभावा
मुनयः
सशिष्याः
।
प्रायेण
तीर्थाभिगमापदेशैः
स्वयं
हि
तीर्थानि
पुनन्ति
सन्तः
9
▾
Meaning
Keep
अत्रिर्वसिष्ठश्च्यवनः
शरद्वा-
नरिष्टनेमिर्भृगुरङ्गिराश्च
।
पराशरो
गाधिसुतोऽथ
राम
उतथ्य
इन्द्रप्रमदेध्मवाहौ
10
▾
Meaning
Keep
मेधातिथिर्देवल
आर्ष्टिषेणो
भारद्वाजो
गौतमः
पिप्पलादः
।
मैत्रेय
और्वः
कवषः
कुम्भयोनि-
र्द्वैपायनो
भगवान्नारदश्च
11
▾
Meaning
Keep
अन्ये
च
देवर्षिमहर्षिवर्या
राजर्षिवर्या
अरुणादयश्च
।
नानार्षेयप्रवरान्
समेतानभ्यर्च्य
राजा
शिरसा
ववन्दे
12
▾
Meaning
Keep
सुखोपविष्टेष्वथ
तेषु
भूयः
कृतप्रणामः
स्वचिकीर्षितं
यत्
।
विज्ञापयामास
विविक्तचेता
उपस्थितोऽग्रेऽभिगृहीतपाणिः
13
▾
Meaning
Keep
अहो
वयं
धन्यतमा
नृपाणां
महत्तमानुग्रहणीयशीलाः
।
राज्ञां
कुलं
ब्राह्मणपादशौचा-
द्दूराद्विसृष्टं
बत
गर्ह्यकर्म
14
▾
Meaning
Keep
तस्यैव
मेऽघस्य
परावरेशो
व्यासक्तचित्तस्य
गृहेष्वभीक्ष्णम्
।
निर्वेदमूलो
द्विजशापरूपो
यत्र
प्रसक्तो
भयमाशु
धत्ते
15
▾
Meaning
Keep
तं
मोपयातं
प्रतियन्तु
विप्रा
गङ्गा
च
देवी
धृतचित्तमीशे
।
द्विजोपसृष्टः
कुहकस्तक्षको
वा
दशत्वलं
गायत
विष्णुगाथाः
16
▾
Meaning
Keep
पुनश्च
भूयाद्भगवत्यनन्ते
रतिः
प्रसङ्गश्च
तदाश्रयेषु
।
महत्सु
यां
यामुपयामि
सृष्टिं
मैत्र्यस्तु
सर्वत्र
नमो
द्विजेभ्यः
17
▾
Meaning
Keep
इति
स्म
राजाध्यवसाययुक्तः
प्राचीनमूलेषु
कुशेषु
धीरः
।
उदङ्मुखो
दक्षिणकूल
आस्ते
समुद्रपत्न्याः
स्वसुतन्यस्तभारः
18
▾
Meaning
Keep
एवं
च
तस्मिन्
नरदेवदेवे
प्रायोपविष्टे
दिवि
देवसङ्घाः
।
प्रशस्य
भूमौ
व्यकिरन्
प्रसूनै-
र्मुदा
मुहुर्दुन्दुभयश्च
नेदुः
19
▾
Meaning
Keep
महर्षयो
वै
समुपागता
ये
प्रशस्य
साध्वित्यनुमोदमानाः
।
ऊचुः
प्रजानुग्रहशीलसारा
यदुत्तमश्लोकगुणाभिरूपम्
20
▾
Meaning
Keep
न
वा
इदं
राजर्षिवर्य
चित्रं
भवत्सु
कृष्णं
समनुव्रतेषु
।
येऽध्यासनं
राजकिरीटजुष्टं
सद्यो
जहुर्भगवत्पार्श्वकामाः
21
▾
Meaning
Keep
सर्वे
वयं
तावदिहास्महेऽद्य
कलेवरं
यावदसौ
विहाय
।
लोकं
परं
विरजस्कं
विशोकं
यास्यत्ययं
भागवतप्रधानः
22
▾
Meaning
Keep
आश्रुत्य
तदृषिगणवचः
परीक्षि-
त्समं
मधुच्युद्गुरु
चाव्यलीकम्
।
आभाषतैनानभिनन्द्य
युक्तान्
शुश्रूषमाणश्चरितानि
विष्णोः
23
▾
Meaning
Keep
समागताः
सर्वत
एव
सर्वे
वेदा
यथा
मूर्तिधरास्त्रिपृष्ठे
।
नेहाथ
नामुत्र
च
कश्चनार्थ
ऋते
परानुग्रहमात्मशीलम्
24
▾
Meaning
Keep
ततश्च
वः
पृच्छ्यमिमं
विपृच्छे
विश्रभ्य
विप्रा
इति
कृत्यतायाम्
।
सर्वात्मना
म्रियमाणैश्च
कृत्यं
शुद्धं
च
तत्रामृशताभियुक्ताः
25
▾
Meaning
Keep
तत्राभवद्भगवान्
व्यासपुत्रो
यदृच्छया
गामटमानोऽनपेक्षः
।
अलक्ष्यलिङ्गो
निजलाभतुष्टो
वृतश्च
बालैरवधूतवेषः
26
▾
Meaning
Keep
तं
द्व्यष्टवर्षं
सुकुमारपाद-
करोरुबाह्वंसकपोलगात्रम्
।
चार्वायताक्षोन्नसतुल्यकर्ण-
सुभ्र्वाननं
कम्बुसुजातकण्ठम्
27
▾
Meaning
Keep
निगूढजत्रुं
पृथुतुङ्गवक्षस-
मावर्तनाभिं
वलिवल्गूदरं
च
।
दिगम्बरं
वक्त्रविकीर्णकेशं
प्रलम्बबाहुं
स्वमरोत्तमाभम्
28
▾
Meaning
Keep
श्यामं
सदापीच्यवयोऽङ्गलक्ष्म्या
स्त्रीणां
मनोज्ञं
रुचिरस्मितेन
।
प्रत्युत्थितास्ते
मुनयः
स्वासनेभ्यस्तल्लक्षणज्ञा
अपि
गूढवर्चसम्
29
▾
Meaning
Keep
स
विष्णुरातोऽतिथय
आगताय
तस्मै
सपर्यां
शिरसाऽऽजहार
।
ततो
निवृत्ता
ह्यबुधाः
स्त्रियोऽर्भका
महासने
सोपविवेश
पूजितः
30
▾
Meaning
Keep
स
संवृतस्तत्र
महान्
महीयसां
ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः
।
व्यरोचतालं
भगवान्
यथेन्दु-
र्ग्रहर्क्षतारानिकरैः
परीतः
31
▾
Meaning
Keep
प्रशान्तमासीनमकुण्ठमेधसं
मुनिं
नृपो
भागवतोऽभ्युपेत्य
।
प्रणम्य
मूर्ध्नावहितः
कृताञ्जलि-
र्नत्वा
गिरा
सूनृतयान्वपृच्छत्
32
▾
Meaning
Keep
परीक्षिदुवाच ।
अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः ।
कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः
33
▾
Meaning
Keep
येषां
संस्मरणात्पुंसां
सद्यः
शुद्ध्यन्ति
वै
गृहाः
।
किं
पुनर्दर्शनस्पर्शपादशौचासनादिभिः
34
▾
Meaning
Keep
सान्निध्यात्ते
महायोगिन्
पातकानि
महान्त्यपि
।
सद्यो
नश्यन्ति
वै
पुंसां
विष्णोरिव
सुरेतराः
35
▾
Meaning
Keep
अपि
मे
भगवान्
प्रीतः
कृष्णः
पाण्डुसुतप्रियः
।
पैतृष्वसेयप्रीत्यर्थं
तद्गोत्रस्यात्तबान्धवः
36
▾
Meaning
Keep
अन्यथा
तेऽव्यक्तगतेर्दर्शनं
नः
कथं
नृणाम्
।
नितरां
म्रियमाणानां
संसिद्धस्य
वनीयसः
37
▾
Meaning
Keep
अतः
पृच्छामि
संसिद्धिं
योगिनां
परमं
गुरुम्
।
पुरुषस्येह
यत्कार्यं
म्रियमाणस्य
सर्वथा
38
▾
Meaning
Keep
यच्छ्रोतव्यमथो
जप्यं
यत्कर्तव्यं
नृभिः
प्रभो
।
स्मर्तव्यं
भजनीयं
वा
ब्रूहि
यद्वा
विपर्ययम्
39
▾
Meaning
Keep
नूनं
भगवतो
ब्रह्मन्
गृहेषु
गृहमेधिनाम्
।
न
लक्ष्यते
ह्यवस्थानमपि
गोदोहनं
क्वचित्
40
▾
Meaning
Keep
एवमाभाषितः
पृष्टः
स
राज्ञा
श्लक्ष्णया
गिरा
।
प्रत्यभाषत
धर्मज्ञो
भगवान्
बादरायणिः
Previous
←
The Brahmin Boy's Curse
Next
What Is Worth Hearing, and the Body of the World
→