Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Boar Lifts the Earth
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निशम्य
वाचं
वदतो
मुनेः
पुण्यतमां
नृप
।
भूयः
पप्रच्छ
कौरव्यो
वासुदेवकथादृतः
2
▾
Meaning
Keep
स
वै
स्वायम्भुवः
सम्राट्
प्रियः
पुत्रः
स्वयम्भुवः
।
प्रतिलभ्य
प्रियां
पत्नीं
किं
चकार
ततो
मुने
3
▾
Meaning
Keep
चरितं
तस्य
राजर्षेरादिराजस्य
सत्तम
।
ब्रूहि
मे
श्रद्दधानाय
विष्वक्सेनाश्रयो
ह्यसौ
4
▾
Meaning
Keep
श्रुतस्य
पुंसां
सुचिरश्रमस्य
।
नन्वञ्जसा
सूरिभिरीडितोऽर्थः
।
तत्तद्गुणानुश्रवणं
मुकुन्द
।
पादारविन्दं
हृदयेषु
येषाम्
5
▾
Meaning
Keep
इति
ब्रुवाणं
विदुरं
विनीतं
सहस्रशीर्ष्णश्चरणोपधानम्
।
प्रहृष्टरोमा
भगवत्कथायां
प्रणीयमानो
मुनिरभ्यचष्ट
6
▾
Meaning
Keep
यदा
स्वभार्यया
साकं
जातः
स्वायम्भुवो
मनुः
।
प्राञ्जलिः
प्रणतश्चेदं
वेदगर्भमभाषत
7
▾
Meaning
Keep
त्वमेकः
सर्वभूतानां
जन्मकृद्
वृत्तिदः
पिता
।
अथापि
नः
प्रजानां
ते
शुश्रूषा
केन
वा
भवेत्
8
▾
Meaning
Keep
तद्विधेहि
नमस्तुभ्यं
कर्मस्वीड्यात्मशक्तिषु
।
यत्कृत्वेह
यशो
विष्वगमुत्र
च
भवेद्गतिः
9
▾
Meaning
Keep
प्रीतस्तुभ्यमहं
तात
स्वस्ति
स्ताद्वां
क्षितीश्वर
।
यन्निर्व्यलीकेन
हृदा
शाधि
मेऽत्यात्मनार्पितम्
10
▾
Meaning
Keep
एतावत्यात्मजैर्वीर
कार्या
ह्यपचितिर्गुरौ
।
शक्त्याप्रमत्तैर्गृह्येत
सादरं
गतमत्सरैः
11
▾
Meaning
Keep
स
त्वमस्यामपत्यानि
सदृशान्यात्मनो
गुणैः
।
उत्पाद्य
शास
धर्मेण
गां
यज्ञैः
पुरुषं
यज
12
▾
Meaning
Keep
परं
शुश्रूषणं
मह्यं
स्यात्प्रजारक्षया
नृप
।
भगवांस्ते
प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति
13
▾
Meaning
Keep
येषां
न
तुष्टो
भगवान्
यज्ञलिङ्गो
जनार्दनः
।
तेषां
श्रमो
ह्यपार्थाय
यदात्मा
नादृतः
स्वयम्
14
▾
Meaning
Keep
आदेशेऽहं
भगवतो
वर्तेयामीवसूदन
।
स्थानं
त्विहानुजानीहि
प्रजानां
मम
च
प्रभो
15
▾
Meaning
Keep
यदोकः
सर्वसत्त्वानां
मही
मग्ना
महाम्भसि
।
अस्या
उद्धरणे
यत्नो
देव
देव्या
विधीयताम्
16
▾
Meaning
Keep
परमेष्ठी
त्वपां
मध्ये
तथा
सन्नामवेक्ष्य
गाम्
।
कथमेनां
समुन्नेष्य
इति
दध्यौ
धिया
चिरम्
17
▾
Meaning
Keep
सृजतो
मे
क्षितिर्वार्भिः
प्लाव्यमाना
रसां
गता
।
अथात्र
किमनुष्ठेयमस्माभिः
सर्गयोजितैः
।
यस्याहं
हृदयादासं
स
ईशो
विदधातु
मे
18
▾
Meaning
Keep
इत्यभिध्यायतो
नासाविवरात्सहसानघ
।
वराहतोको
निरगादङ्गुष्ठपरिमाणकः
19
▾
Meaning
Keep
तस्याभिपश्यतः
खस्थः
क्षणेन
किल
भारत
।
गजमात्रः
प्रववृधे
तदद्भुतमभून्महत्
20
▾
Meaning
Keep
मरीचिप्रमुखैर्विप्रैः
कुमारैर्मनुना
सह
।
दृष्ट्वा
तत्सौकरं
रूपं
तर्कयामास
चित्रधा
21
▾
Meaning
Keep
किमेतत्सौकरव्याजं
सत्त्वं
दिव्यमवस्थितम्
।
अहो
बताश्चर्यमिदं
नासाया
मे
विनिःसृतम्
22
▾
Meaning
Keep
दृष्टोऽङ्गुष्ठशिरोमात्रः
क्षणाद्गण्डशिलासमः
।
अपि
स्विद्भगवानेष
यज्ञो
मे
खेदयन्मनः
23
▾
Meaning
Keep
इति
मीमांसतस्तस्य
ब्रह्मणः
सह
सूनुभिः
।
भगवान्
यज्ञपुरुषो
जगर्जागेन्द्रसन्निभः
24
▾
Meaning
Keep
ब्रह्माणं
हर्षयामास
हरिस्तांश्च
द्विजोत्तमान्
।
स्वगर्जितेन
ककुभः
प्रतिस्वनयता
विभुः
25
▾
Meaning
Keep
निशम्य
ते
घर्घरितं
स्वखेद-
क्षयिष्णु
मायामयसूकरस्य
।
जनस्तपःसत्यनिवासिनस्ते
त्रिभिः
पवित्रैर्मुनयोऽगृणन्
स्म
26
▾
Meaning
Keep
तेषां
सतां
वेदवितानमूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम्
।
विनद्य
भूयो
विबुधोदयाय
गजेन्द्रलीलो
जलमाविवेश
27
▾
Meaning
Keep
उत्क्षिप्तवालः
खचरः
कठोरः
सटा
विधुन्वन्
खररोमशत्वक्
।
खुराहताभ्रः
सितदंष्ट्र
ईक्षा-
ज्योतिर्बभासे
भगवान्
महीध्रः
28
▾
Meaning
Keep
घ्राणेन
पृथ्व्याः
पदवीं
विजिघ्रन्
क्रोडापदेशः
स्वयमध्वराङ्गः
।
करालदंष्ट्रोऽप्यकरालदृग्भ्या-
मुद्वीक्ष्य
विप्रान्
गृणतोऽविशत्कम्
29
▾
Meaning
Keep
स
वज्रकूटाङ्गनिपातवेग-
विशीर्णकुक्षिः
स्तनयन्नुदन्वान्
।
उत्सृष्टदीर्घोर्मिभुजैरिवार्त-
श्चुक्रोश
यज्ञेश्वर
पाहि
मेति
30
▾
Meaning
Keep
खुरैः
क्षुरप्रैर्दरयंस्तदाप
उत्पारपारं
त्रिपरू
रसायाम्
।
ददर्श
गां
तत्र
सुषुप्सुरग्रे
यां
जीवधानीं
स्वयमभ्यधत्त
31
▾
Meaning
Keep
स्वदंष्ट्रयोद्धृत्य
महीं
निमग्नां
स
उत्थितः
संरुरुचे
रसायाः
।
तत्रापि
दैत्यं
गदयाऽऽपतन्तं
सुनाभसंदीपिततीव्रमन्युः
32
▾
Meaning
Keep
जघान
रुन्धानमसह्यविक्रमं
स
लीलयेभं
मृगराडिवाम्भसि
।
तद्रक्तपङ्काङ्कितगण्डतुण्डो
यथा
गजेन्द्रो
जगतीं
विभिन्दन्
33
▾
Meaning
Keep
तमालनीलं
सितदन्तकोट्या
क्ष्मामुत्क्षिपन्तं
गजलीलयाङ्ग
।
प्रज्ञाय
बद्धाञ्जलयोऽनुवाकै-
र्विरिञ्चिमुख्या
उपतस्थुरीशम्
34
▾
Meaning
Keep
जितं
जितं
तेऽजित
यज्ञभावन
त्रयीं
तनुं
स्वां
परिधुन्वते
नमः
।
यद्रोमगर्तेषु
निलिल्युरद्धयस्तस्मै
नमः
कारणसूकराय
ते
35
▾
Meaning
Keep
रूपं
तवैतन्ननु
दुष्कृतात्मनां
दुर्दर्शनं
देव
यदध्वरात्मकम्
।
छन्दांसि
यस्य
त्वचि
बर्हिरोम-
स्वाज्यं
दृशि
त्वङ्घ्रिषु
चातुर्होत्रम्
36
▾
Meaning
Keep
स्रक्तुण्ड
आसीत्स्रुव
ईश
नासयोरिडोदरे
चमसाः
कर्णरन्ध्रे
।
प्राशित्रमास्ये
ग्रसने
ग्रहास्तु
ते
यच्चर्वणं
ते
भगवन्नग्निहोत्रम्
37
▾
Meaning
Keep
दीक्षानुजन्मोपसदः
शिरोधरं
त्वं
प्रायणीयोदयनीयदंष्ट्रः
।
जिह्वा
प्रवर्ग्यस्तव
शीर्षकं
क्रतोः
सभ्यावसथ्यं
चितयोऽसवो
हि
ते
38
▾
Meaning
Keep
सोमस्तु
रेतः
सवनान्यवस्थितिः
संस्था
विभेदास्तव
देव
धातवः
।
सत्राणि
सर्वाणि
शरीरसन्धि-
स्त्वं
सर्वयज्ञक्रतुरिष्टिबन्धनः
39
▾
Meaning
Keep
नमो
नमस्तेऽखिलमन्त्रदेवता-
द्रव्याय
सर्वक्रतवे
क्रियात्मने
।
वैराग्यभक्त्यात्मजयानुभावित-
ज्ञानाय
विद्यागुरवे
नमो
नमः
40
▾
Meaning
Keep
दंष्ट्राग्रकोट्या
भगवंस्त्वया
धृता
विराजते
भूधर
भूः
सभूधरा
।
यथा
वनान्निःसरतो
दता
धृता
मतङ्गजेन्द्रस्य
सपत्रपद्मिनी
41
▾
Meaning
Keep
त्रयीमयं
रूपमिदं
च
सौकरं
भूमण्डलेनाथ
दता
धृतेन
ते
।
चकास्ति
शृङ्गोढघनेन
भूयसा
कुलाचलेन्द्रस्य
यथैव
विभ्रमः
42
▾
Meaning
Keep
संस्थापयैनां
जगतां
सतस्थुषां
लोकाय
पत्नीमसि
मातरं
पिता
।
विधेम
चास्यै
नमसा
सह
त्वया
यस्यां
स्वतेजोऽग्निमिवारणावधाः
43
▾
Meaning
Keep
कः
श्रद्दधीतान्यतमस्तव
प्रभो
रसां
गताया
भुव
उद्विबर्हणम्
।
न
विस्मयोऽसौ
त्वयि
विश्वविस्मये
यो
माययेदं
ससृजेऽतिविस्मयम्
44
▾
Meaning
Keep
विधुन्वता
वेदमयं
निजं
वपुर्जनस्तपःसत्यनिवासिनो
वयम्
।
सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना
भृशमीश
पाविताः
45
▾
Meaning
Keep
स
वै
बत
भ्रष्टमतिस्तवैष
ते
यः
कर्मणां
पारमपारकर्मणः
।
यद्योगमायागुणयोगमोहितं
विश्वं
समस्तं
भगवन्
विधेहि
शम्
46
▾
Meaning
Keep
इत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्मवादिभिः
।
सलिले
स्वखुराक्रान्त
उपाधत्तावितावनिम्
47
▾
Meaning
Keep
स
इत्थं
भगवानुर्वीं
विष्वक्सेनः
प्रजापतिः
।
रसाया
लीलयोन्नीतामप्सु
न्यस्य
ययौ
हरिः
48
▾
Meaning
Keep
य
एवमेतां
हरिमेधसो
हरेः
कथां
सुभद्रां
कथनीयमायिनः
।
शृण्वीत
भक्त्या
श्रवयेत
वोशतीं
जनार्दनोऽस्याशु
हृदि
प्रसीदति
49
▾
Meaning
Keep
तस्मिन्
प्रसन्ने
सकलाशिषां
प्रभौ
किं
दुर्लभं
ताभिरलं
लवात्मभिः
।
अनन्यदृष्ट्या
भजतां
गुहाशयः
स्वयं
विधत्ते
स्वगतिं
परः
पराम्
50
▾
Meaning
Keep
को
नाम
लोके
पुरुषार्थसारवित्
पुरा
कथानां
भगवत्कथासुधाम्
।
आपीय
कर्णाञ्जलिभिर्भवापहा-
महो
विरज्येत
विना
नरेतरम्
Previous
←
What Brahma Brought Forth
Next
Diti at Twilight
→