Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Man Bound to His House
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तस्यैतस्य
जनो
नूनं
नायं
वेदोरुविक्रमम्
।
काल्यमानोऽपि
बलिनो
वायोरिव
घनावलिः
2
▾
Meaning
Keep
यं
यमर्थमुपादत्ते
दुःखेन
सुखहेतवे
।
तं
तं
धुनोति
भगवान्
पुमाञ्छोचति
यत्कृते
3
▾
Meaning
Keep
यदध्रुवस्य
देहस्य
सानुबन्धस्य
दुर्मतिः
।
ध्रुवाणि
मन्यते
मोहाद्गृहक्षेत्रवसूनि
च
4
▾
Meaning
Keep
जन्तुर्वै
भव
एतस्मिन्
यां
यां
योनिमनुव्रजेत्
।
तस्यां
तस्यां
स
लभते
निर्वृतिं
न
विरज्यते
5
▾
Meaning
Keep
नरकस्थोऽपि
देहं
वै
न
पुमांस्त्यक्तुमिच्छति
।
नारक्यां
निर्वृतौ
सत्यां
देवमायाविमोहितः
6
▾
Meaning
Keep
आत्मजायासुतागारपशुद्रविणबन्धुषु
।
निरूढमूलहृदय
आत्मानं
बहु
मन्यते
7
▾
Meaning
Keep
सन्दह्यमानसर्वाङ्ग
एषामुद्वहनाधिना
।
करोत्यविरतं
मूढो
दुरितानि
दुराशयः
8
▾
Meaning
Keep
आक्षिप्तात्मेन्द्रियः
स्त्रीणामसतीनां
च
मायया
।
रहो
रचितयाऽऽलापैः
शिशूनां
कलभाषिणाम्
9
▾
Meaning
Keep
गृहेषु
कूटधर्मेषु
दुःखतन्त्रेष्वतन्द्रितः
।
कुर्वन्
दुःखप्रतीकारं
सुखवन्मन्यते
गृही
10
▾
Meaning
Keep
अर्थैरापादितैर्गुर्व्या
हिंसयेतस्ततश्च
तान्
।
पुष्णाति
येषां
पोषेण
शेषभुग्यात्यधः
स्वयम्
11
▾
Meaning
Keep
वार्तायां
लुप्यमानायामारब्धायां
पुनः
पुनः
।
लोभाभिभूतो
निःसत्त्वः
परार्थे
कुरुते
स्पृहाम्
12
▾
Meaning
Keep
कुटुम्बभरणाकल्पो
मन्दभाग्यो
वृथोद्यमः
।
श्रिया
विहीनः
कृपणो
ध्यायञ्छ्वसिति
मूढधीः
13
▾
Meaning
Keep
एवं
स्वभरणाकल्पं
तत्कलत्रादयस्तथा
।
नाद्रियन्ते
यथापूर्वं
कीनाशा
इव
गोजरम्
14
▾
Meaning
Keep
तत्राप्यजातनिर्वेदो
भ्रियमाणः
स्वयम्भृतैः
।
जरयोपात्तवैरूप्यो
मरणाभिमुखो
गृहे
15
▾
Meaning
Keep
आस्तेऽवमत्योपन्यस्तं
गृहपाल
इवाहरन्
।
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः
16
▾
Meaning
Keep
वायुनोत्क्रमतोत्तारः
कफसंरुद्धनाडिकः
।
कासश्वासकृतायासः
कण्ठे
घुरघुरायते
17
▾
Meaning
Keep
शयानः
परिशोचद्भिः
परिवीतः
स्वबन्धुभिः
।
वाच्यमानोऽपि
न
ब्रूते
कालपाशवशं
गतः
18
▾
Meaning
Keep
एवं
कुटुम्बभरणे
व्यापृतात्माजितेन्द्रियः
।
म्रियते
रुदतां
स्वानामुरुवेदनयास्तधीः
19
▾
Meaning
Keep
यमदूतौ
तदा
प्राप्तौ
भीमौ
सरभसेक्षणौ
।
स
दृष्ट्वा
त्रस्तहृदयः
शकृन्मूत्रं
विमुञ्चति
20
▾
Meaning
Keep
यातनादेह
आवृत्य
पाशैर्बद्ध्वा
गले
बलात्
।
नयतो
दीर्घमध्वानं
दण्ड्यं
राजभटा
यथा
21
▾
Meaning
Keep
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः
।
पथि
श्वभिर्भक्ष्यमाण
आर्तोऽघं
स्वमनुस्मरन्
22
▾
Meaning
Keep
क्षुत्तृट्परीतोऽर्कदवानलानिलैः
सन्तप्यमानः
पथि
तप्तवालुके
।
कृच्छ्रेण
पृष्ठे
कशया
च
ताडितश्
चलत्यशक्तोऽपि
निराश्रमोदके
23
▾
Meaning
Keep
तत्र
तत्र
पतन्छ्रान्तो
मूर्च्छितः
पुनरुत्थितः
।
पथा
पापीयसा
नीतस्तरसा
यमसादनम्
24
▾
Meaning
Keep
योजनानां
सहस्राणि
नवतिं
नव
चाध्वनः
।
त्रिभिर्मुहूर्तैर्द्वाभ्यां
वा
नीतः
प्राप्नोति
यातनाः
25
▾
Meaning
Keep
आदीपनं
स्वगात्राणां
वेष्टयित्वोल्मुकादिभिः
।
आत्ममांसादनं
क्वापि
स्वकृत्तं
परतोऽपि
वा
26
▾
Meaning
Keep
जीवतश्चान्त्राभ्युद्धारः
श्वगृध्रैर्यमसादने
।
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्
27
▾
Meaning
Keep
कृन्तनं
चावयवशो
गजादिभ्यो
भिदापनम्
।
पातनं
गिरिशृङ्गेभ्यो
रोधनं
चाम्बुगर्तयोः
28
▾
Meaning
Keep
यास्तामिस्रान्धतामिस्रा
रौरवाद्याश्च
यातनाः
।
भुङ्क्ते
नरो
वा
नारी
वा
मिथः
सङ्गेन
निर्मिताः
29
▾
Meaning
Keep
अत्रैव
नरकः
स्वर्ग
इति
मातः
प्रचक्षते
।
या
यातना
वै
नारक्यस्ता
इहाप्युपलक्षिताः
30
▾
Meaning
Keep
एवं
कुटुम्बं
बिभ्राण
उदरम्भर
एव
वा
।
विसृज्येहोभयं
प्रेत्य
भुङ्क्ते
तत्फलमीदृशम्
31
▾
Meaning
Keep
एकः
प्रपद्यते
ध्वान्तं
हित्वेदं
स्वकलेवरम्
।
कुशलेतरपाथेयो
भूतद्रोहेण
यद्भृतम्
32
▾
Meaning
Keep
दैवेनासादितं
तस्य
शमलं
निरये
पुमान्
।
भुङ्क्ते
कुटुम्बपोषस्य
हृतवित्त
इवातुरः
33
▾
Meaning
Keep
केवलेन
ह्यधर्मेण
कुटुम्बभरणोत्सुकः
।
याति
जीवोऽन्धतामिस्रं
चरमं
तमसः
पदम्
34
▾
Meaning
Keep
अधस्तान्नरलोकस्य
यावतीर्यातनादयः
।
क्रमशः
समनुक्रम्य
पुनरत्राव्रजेच्छुचिः
Previous
←
The Roads of Devotion
Next
From the Womb Onward
→