Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · From the Womb Onward
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रीभगवानुवाच ।
कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।
स्त्रियाः प्रविष्ट उदरं पुंसो रेतः कणाश्रयः
2
▾
Meaning
Keep
कललं
त्वेकरात्रेण
पञ्चरात्रेण
बुद्बुदम्
।
दशाहेन
तु
कर्कन्धूः
पेश्यण्डं
वा
ततः
परम्
3
▾
Meaning
Keep
मासेन
तु
शिरो
द्वाभ्यां
बाह्वङ्घ्र्याद्यङ्गविग्रहः
।
नखलोमास्थिचर्माणि
लिङ्गच्छिद्रोद्भवस्त्रिभिः
4
▾
Meaning
Keep
चतुर्भिर्धातवः
सप्त
पञ्चभिः
क्षुत्तृडुद्भवः
।
षड्भिर्जरायुणा
वीतः
कुक्षौ
भ्राम्यति
दक्षिणे
5
▾
Meaning
Keep
मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते
।
शेते
विण्मूत्रयोर्गर्ते
स
जन्तुर्जन्तुसम्भवे
6
▾
Meaning
Keep
कृमिभिः
क्षतसर्वाङ्गः
सौकुमार्यात्प्रतिक्षणम्
।
मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः
क्षुधितैर्मुहुः
7
▾
Meaning
Keep
कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणैः
।
मातृभुक्तैरुपस्पृष्टः
सर्वाङ्गोत्थितवेदनः
8
▾
Meaning
Keep
उल्बेन
संवृतस्तस्मिन्नन्त्रैश्च
बहिरावृतः
।
आस्ते
कृत्वा
शिरः
कुक्षौ
भुग्नपृष्ठशिरोधरः
9
▾
Meaning
Keep
अकल्पः
स्वाङ्गचेष्टायां
शकुन्त
इव
पञ्जरे
।
तत्र
लब्धस्मृतिर्दैवात्कर्मजन्मशतोद्भवम्
।
स्मरन्
दीर्घमनुच्छ्वासं
शर्म
किं
नाम
विन्दते
10
▾
Meaning
Keep
आरभ्य
सप्तमान्मासाल्लब्धबोधोऽपि
वेपितः
।
नैकत्रास्ते
सूतिवातैर्विष्ठाभूरिव
सोदरः
11
▾
Meaning
Keep
नाथमान
ऋषिर्भीतः
सप्तवध्रिः
कृताञ्जलिः
।
स्तुवीत
तं
विक्लवया
वाचा
येनोदरेऽर्पितः
12
▾
Meaning
Keep
तस्योपसन्नमवितुं
जगदिच्छयाऽऽत्त-
नानातनोर्भुवि
चलच्चरणारविन्दम्
।
सोऽहं
व्रजामि
शरणं
ह्यकुतोभयं
मे
येनेदृशी
गतिरदर्श्यसतोऽनुरूपा
13
▾
Meaning
Keep
यस्त्वत्र
बद्ध
इव
कर्मभिरावृतात्मा
भूतेन्द्रियाशयमयीमवलम्ब्य
मायाम्
।
आस्ते
विशुद्धमविकारमखण्डबोध-
मातप्यमानहृदयेऽवसितं
नमामि
14
▾
Meaning
Keep
यः
पञ्चभूतरचिते
रहितः
शरीरे
च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम्
।
तेनाविकुण्ठमहिमानमृषिं
तमेनं
वन्दे
परं
प्रकृतिपूरुषयोः
पुमांसम्
15
▾
Meaning
Keep
यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
सांसारिके
पथि
चरंस्तदभिश्रमेण
।
नष्टस्मृतिः
पुनरयं
प्रवृणीत
लोकं
युक्त्या
कया
महदनुग्रहमन्तरेण
16
▾
Meaning
Keep
ज्ञानं
यदेतददधात्कतमः
स
देवस्त्रैकालिकं
स्थिरचरेष्वनुवर्तितांशः
।
तं
जीवकर्मपदवीमनुवर्तमानास्तापत्रयोपशमनाय
वयं
भजेम
17
▾
Meaning
Keep
देह्यन्यदेहविवरे
जठराग्निनासृग्-
विण्मूत्रकूपपतितो
भृशतप्तदेहः
।
इच्छन्नितो
विवसितुं
गणयन्
स्वमासान्
निर्वास्यते
कृपणधीर्भगवन्
कदा
नु
18
▾
Meaning
Keep
येनेदृशीं
गतिमसौ
दशमास्य
ईश
संग्राहितः
पुरुदयेन
भवादृशेन
।
स्वेनैव
तुष्यतु
कृतेन
स
दीननाथः
को
नाम
तत्प्रति
विनाञ्जलिमस्य
कुर्यात्
19
▾
Meaning
Keep
पश्यत्ययं
धिषणया
ननु
सप्तवध्रिः
शारीरके
दमशरीर्यपरः
स्वदेहे
।
यत्सृष्टयाऽऽसं
तमहं
पुरुषं
पुराणं
पश्ये
बहिर्हृदि
च
चैत्यमिव
प्रतीतम्
20
▾
Meaning
Keep
सोऽहं
वसन्नपि
विभो
बहुदुःखवासं
गर्भान्न
निर्जिगमिषे
बहिरन्धकूपे
।
यत्रोपयातमुपसर्पति
देवमाया
मिथ्यामतिर्यदनु
संसृतिचक्रमेतत्
21
▾
Meaning
Keep
तस्मादहं
विगतविक्लव
उद्धरिष्य
आत्मानमाशु
तमसः
सुहृदाऽऽत्मनैव
।
भूयो
यथा
व्यसनमेतदनेकरन्ध्रं
मा
मे
भविष्यदुपसादितविष्णुपादः
22
▾
Meaning
Keep
एवं
कृतमतिर्गर्भे
दशमास्यः
स्तुवन्नृषिः
।
सद्यः
क्षिपत्यवाचीनं
प्रसूत्यै
सूतिमारुतः
23
▾
Meaning
Keep
तेनावसृष्टः
सहसा
कृत्वावाक्शिर
आतुरः
।
विनिष्क्रामति
कृच्छ्रेण
निरुच्छ्वासो
हतस्मृतिः
24
▾
Meaning
Keep
पतितो
भुव्यसृङ्मूत्रे
विष्ठाभूरिव
चेष्टते
।
रोरूयति
गते
ज्ञाने
विपरीतां
गतिं
गतः
25
▾
Meaning
Keep
परच्छन्दं
न
विदुषा
पुष्यमाणो
जनेन
सः
।
अनभिप्रेतमापन्नः
प्रत्याख्यातुमनीश्वरः
26
▾
Meaning
Keep
शायितोऽशुचिपर्यङ्के
जन्तुः
स्वेदजदूषिते
।
नेशः
कण्डूयनेऽङ्गानामासनोत्थानचेष्टने
27
▾
Meaning
Keep
तुदन्त्यामत्वचं
दंशा
मशका
मत्कुणादयः
।
रुदन्तं
विगतज्ञानं
कृमयः
कृमिकं
यथा
28
▾
Meaning
Keep
इत्येवं
शैशवं
भुक्त्वा
दुःखं
पौगण्डमेव
च
।
अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः
शुचार्पितः
29
▾
Meaning
Keep
सह
देहेन
मानेन
वर्धमानेन
मन्युना
।
करोति
विग्रहं
कामी
कामिष्वन्ताय
चात्मनः
30
▾
Meaning
Keep
भूतैः
पञ्चभिरारब्धे
देहे
देह्यबुधोऽसकृत्
।
अहं
ममेत्यसद्ग्राहः
करोति
कुमतिर्मतिम्
31
▾
Meaning
Keep
तदर्थं
कुरुते
कर्म
यद्बद्धो
याति
संसृतिम्
।
योऽनुयाति
ददत्क्लेशमविद्याकर्मबन्धनः
32
▾
Meaning
Keep
यद्यसद्भिः
पथि
पुनः
शिश्नोदरकृतोद्यमैः
।
आस्थितो
रमते
जन्तुस्तमो
विशति
पूर्ववत्
33
▾
Meaning
Keep
सत्यं
शौचं
दया
मौनं
बुद्धिः
श्रीर्ह्रीर्यशः
क्षमा
।
शमो
दमो
भगश्चेति
यत्सङ्गाद्याति
संक्षयम्
34
▾
Meaning
Keep
तेष्वशान्तेषु
मूढेषु
खण्डितात्मस्वसाधुषु
।
सङ्गं
न
कुर्याच्छोच्येषु
योषित्क्रीडामृगेषु
च
35
▾
Meaning
Keep
न
तथास्य
भवेन्मोहो
बन्धश्चान्यप्रसङ्गतः
।
योषित्सङ्गाद्यथा
पुंसो
यथा
तत्सङ्गिसङ्गतः
36
▾
Meaning
Keep
प्रजापतिः
स्वां
दुहितरं
दृष्ट्वा
तद्रूपधर्षितः
।
रोहिद्भूतां
सोऽन्वधावदृक्षरूपी
हतत्रपः
37
▾
Meaning
Keep
तत्सृष्टसृष्टसृष्टेषु
को
न्वखण्डितधीः
पुमान्
।
ऋषिं
नारायणमृते
योषिन्मय्येह
मायया
38
▾
Meaning
Keep
बलं
मे
पश्य
मायायाः
स्त्रीमय्या
जयिनो
दिशाम्
।
या
करोति
पदाक्रान्तान्
भ्रूविजृम्भेण
केवलम्
39
▾
Meaning
Keep
सङ्गं
न
कुर्यात्प्रमदासु
जातु
योगस्य
पारं
परमारुरुक्षुः
।
मत्सेवया
प्रतिलब्धात्मलाभो
वदन्ति
या
निरयद्वारमस्य
40
▾
Meaning
Keep
योपयाति
शनैर्माया
योषिद्देवविनिर्मिता
।
तामीक्षेतात्मनो
मृत्युं
तृणैः
कूपमिवावृतम्
41
▾
Meaning
Keep
यां
मन्यते
पतिं
मोहान्मन्मायामृषभायतीम्
।
स्त्रीत्वं
स्त्रीसङ्गतः
प्राप्तो
वित्तापत्यगृहप्रदम्
42
▾
Meaning
Keep
तामात्मनो
विजानीयात्पत्यपत्यगृहात्मकम्
।
दैवोपसादितं
मृत्युं
मृगयोर्गायनं
यथा
43
▾
Meaning
Keep
देहेन
जीवभूतेन
लोकाल्लोकमनुव्रजन्
।
भुञ्जान
एव
कर्माणि
करोत्यविरतं
पुमान्
44
▾
Meaning
Keep
जीवो
ह्यस्यानुगो
देहो
भूतेन्द्रियमनोमयः
।
तन्निरोधोऽस्य
मरणमाविर्भावस्तु
सम्भवः
45
▾
Meaning
Keep
द्रव्योपलब्धिस्थानस्य
द्रव्येक्षायोग्यता
यदा
।
तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम्
46
▾
Meaning
Keep
यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता
यदा
।
तदैव
चक्षुषो
द्रष्टुर्द्रष्टृत्वायोग्यतानयोः
47
▾
Meaning
Keep
तस्मान्न
कार्यः
संत्रासो
न
कार्पण्यं
न
सम्भ्रमः
।
बुद्ध्वा
जीवगतिं
धीरो
मुक्तसङ्गश्चरेदिह
48
▾
Meaning
Keep
सम्यग्दर्शनया
बुद्ध्या
योगवैराग्ययुक्तया
।
मायाविरचिते
लोके
चरेन्न्यस्य
कलेवरम्
Previous
←
The Man Bound to His House
Next
Who Comes Back and Who Does Not
→