Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Manu Stops the Killing
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निशम्य
गदतामेवमृषीणां
धनुषि
ध्रुवः
।
संदधेऽस्त्रमुपस्पृश्य
यन्नारायणनिर्मितम्
2
▾
Meaning
Keep
संधीयमान
एतस्मिन्
माया
गुह्यकनिर्मिताः
।
क्षिप्रं
विनेशुर्विदुर
क्लेशा
ज्ञानोदये
यथा
3
▾
Meaning
Keep
तस्यार्षास्त्रं
धनुषि
प्रयुञ्जतः
सुवर्णपुङ्खाः
कलहंसवाससः
।
विनिःसृता
आविविशुर्द्विषद्बलं
यथा
वनं
भीमरवाः
शिखण्डिनः
4
▾
Meaning
Keep
तैस्तिग्मधारैः
प्रधने
शिलीमुखै-
रितस्ततः
पुण्यजना
उपद्रुताः
।
तमभ्यधावन्
कुपिता
उदायुधाः
सुपर्णमुन्नद्धफणा
इवाहयः
5
▾
Meaning
Keep
स
तान्
पृषत्कैरभिधावतो
मृधे
निकृत्तबाहूरुशिरोधरोदरान्
।
निनाय
लोकं
परमर्कमण्डलं
व्रजन्ति
निर्भिद्य
यमूर्ध्वरेतसः
6
▾
Meaning
Keep
तान्
हन्यमानानभिवीक्ष्य
गुह्यका-
ननागसश्चित्ररथेन
भूरिशः
।
औत्तानपादिं
कृपया
पितामहो
मनुर्जगादोपगतः
सहर्षिभिः
7
▾
Meaning
Keep
अलं
वत्सातिरोषेण
तमोद्वारेण
पाप्मना
।
येन
पुण्यजनानेतानवधीस्त्वमनागसः
8
▾
Meaning
Keep
नास्मत्कुलोचितं
तात
कर्मैतत्सद्विगर्हितम्
।
वधो
यदुपदेवानामारब्धस्तेऽकृतैनसाम्
9
▾
Meaning
Keep
नन्वेकस्यापराधेन
प्रसङ्गाद्बहवो
हताः
।
भ्रातुर्वधाभितप्तेन
त्वयाङ्ग
भ्रातृवत्सल
10
▾
Meaning
Keep
नायं
मार्गो
हि
साधूनां
हृषीकेशानुवर्तिनाम्
।
यदात्मानं
पराग्गृह्य
पशुवद्भूतवैशसम्
11
▾
Meaning
Keep
सर्वभूतात्मभावेन
भूतावासं
हरिं
भवान्
।
आराध्याप
दुराराध्यं
विष्णोस्तत्परमं
पदम्
12
▾
Meaning
Keep
स
त्वं
हरेरनुध्यातस्तत्पुंसामपि
सम्मतः
।
कथं
त्ववद्यं
कृतवाननुशिक्षन्
सतां
व्रतम्
13
▾
Meaning
Keep
तितिक्षया
करुणया
मैत्र्या
चाखिलजन्तुषु
।
समत्वेन
च
सर्वात्मा
भगवान्
सम्प्रसीदति
14
▾
Meaning
Keep
सम्प्रसन्ने
भगवति
पुरुषः
प्राकृतैर्गुणैः
।
विमुक्तो
जीवनिर्मुक्तो
ब्रह्मनिर्वाणमृच्छति
15
▾
Meaning
Keep
भूतैः
पञ्चभिरारब्धैर्योषित्पुरुष
एव
हि
।
तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह
16
▾
Meaning
Keep
एवं
प्रवर्तते
सर्गः
स्थितिः
संयम
एव
च
।
गुणव्यतिकराद्राजन्
मायया
परमात्मनः
17
▾
Meaning
Keep
निमित्तमात्रं
तत्रासीन्निर्गुणः
पुरुषर्षभः
।
व्यक्ताव्यक्तमिदं
विश्वं
यत्र
भ्रमति
लोहवत्
18
▾
Meaning
Keep
स
खल्विदं
भगवान्
कालशक्त्या
गुणप्रवाहेण
विभक्तवीर्यः
।
करोत्यकर्तैव
निहन्त्यहन्ता
चेष्टा
विभूम्नः
खलु
दुर्विभाव्या
19
▾
Meaning
Keep
सोऽनन्तोऽन्तकरः
कालोऽनादिरादिकृदव्ययः
।
जनं
जनेन
जनयन्
मारयन्
मृत्युनान्तकम्
20
▾
Meaning
Keep
न
वै
स्वपक्षोऽस्य
विपक्ष
एव
वा
परस्य
मृत्योर्विशतः
समं
प्रजाः
।
तं
धावमानमनुधावन्त्यनीशा
यथा
रजांस्यनिलं
भूतसङ्घाः
21
▾
Meaning
Keep
आयुषोऽपचयं
जन्तोस्तथैवोपचयं
विभुः
।
उभाभ्यां
रहितः
स्वस्थो
दुःस्थस्य
विदधात्यसौ
22
▾
Meaning
Keep
केचित्कर्म
वदन्त्येनं
स्वभावमपरे
नृप
।
एके
कालं
परे
दैवं
पुंसः
काममुतापरे
23
▾
Meaning
Keep
अव्यक्तस्याप्रमेयस्य
नानाशक्त्युदयस्य
च
।
न
वै
चिकीर्षितं
तात
को
वेदाथ
स्वसम्भवम्
24
▾
Meaning
Keep
न
चैते
पुत्रक
भ्रातुर्हन्तारो
धनदानुगाः
।
विसर्गादानयोस्तात
पुंसो
दैवं
हि
कारणम्
25
▾
Meaning
Keep
स
एव
विश्वं
सृजति
स
एवावति
हन्ति
च
।
अथापि
ह्यनहङ्कारान्नाज्यते
गुणकर्मभिः
26
▾
Meaning
Keep
एष
भूतानि
भूतात्मा
भूतेशो
भूतभावनः
।
स्वशक्त्या
मायया
युक्तः
सृजत्यत्ति
च
पाति
च
27
▾
Meaning
Keep
तमेव
मृत्युममृतं
तात
दैवं
सर्वात्मनोपेहि
जगत्परायणम्
।
यस्मै
बलिं
विश्वसृजो
हरन्ति
गावो
यथा
वै
नसि
दामयन्त्रिताः
28
▾
Meaning
Keep
यः
पञ्चवर्षो
जननीं
त्वं
विहाय
मातुः
सपत्न्या
वचसा
भिन्नमर्मा
।
वनं
गतस्तपसा
प्रत्यगक्ष-
माराध्य
लेभे
मूर्ध्नि
पदं
त्रिलोक्याः
29
▾
Meaning
Keep
तमेनमङ्गात्मनि
मुक्तविग्रहे
व्यपाश्रितं
निर्गुणमेकमक्षरम्
।
आत्मानमन्विच्छ
विमुक्तमात्मदृ-
ग्यस्मिन्निदं
भेदमसत्प्रतीयते
30
▾
Meaning
Keep
त्वं
प्रत्यगात्मनि
तदा
भगवत्यनन्त
आनन्दमात्र
उपपन्नसमस्तशक्तौ
।
भक्तिं
विधाय
परमां
शनकैरविद्या-
ग्रन्थिं
विभेत्स्यसि
ममाहमिति
प्ररूढम्
31
▾
Meaning
Keep
संयच्छ
रोषं
भद्रं
ते
प्रतीपं
श्रेयसां
परम्
।
श्रुतेन
भूयसा
राजन्नगदेन
यथाऽऽमयम्
32
▾
Meaning
Keep
येनोपसृष्टात्पुरुषाल्लोक
उद्विजते
भृशम्
।
न
बुधस्तद्वशं
गच्छेदिच्छन्नभयमात्मनः
33
▾
Meaning
Keep
हेलनं
गिरिशभ्रातुर्धनदस्य
त्वया
कृतम्
।
यज्जघ्निवान्
पुण्यजनान्
भ्रातृघ्नानित्यमर्षितः
34
▾
Meaning
Keep
तं
प्रसादय
वत्साशु
सन्नत्या
प्रश्रयोक्तिभिः
।
न
यावन्महतां
तेजः
कुलं
नोऽभिभविष्यति
35
▾
Meaning
Keep
एवं
स्वायम्भुवः
पौत्रमनुशास्य
मनुर्ध्रुवम्
।
तेनाभिवन्दितः
साकमृषिभिः
स्वपुरं
ययौ
Previous
←
Dhruva Fights the Yaksas
Next
Dhruva Goes Up
→