Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Dhruva Goes Up
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ध्रुवं
निवृत्तं
प्रतिबुद्ध्य
वैशसादपेतमन्युं
भगवान्
धनेश्वरः
।
तत्रागतश्चारणयक्षकिन्नरैः
संस्तूयमानोऽभ्यवदत्
कृताञ्जलिम्
2
▾
Meaning
Keep
भो
भोः
क्षत्रियदायाद
परितुष्टोऽस्मि
तेऽनघ
।
यत्त्वं
पितामहादेशाद्वैरं
दुस्त्यजमत्यजः
3
▾
Meaning
Keep
न
भवानवधीद्यक्षान्
न
यक्षा
भ्रातरं
तव
।
काल
एव
हि
भूतानां
प्रभुरप्ययभावयोः
4
▾
Meaning
Keep
अहं
त्वमित्यपार्था
धीरज्ञानात्पुरुषस्य
हि
।
स्वाप्नीवाभात्यतद्ध्यानाद्यया
बन्धविपर्ययौ
5
▾
Meaning
Keep
तद्गच्छ
ध्रुव
भद्रं
ते
भगवन्तमधोक्षजम्
।
सर्वभूतात्मभावेन
सर्वभूतात्मविग्रहम्
6
▾
Meaning
Keep
भजस्व
भजनीयाङ्घ्रिमभवाय
भवच्छिदम्
।
युक्तं
विरहितं
शक्त्या
गुणमय्याऽऽत्ममायया
7
▾
Meaning
Keep
वृणीहि
कामं
नृप
यन्मनोगतं
मत्तस्त्वमौत्तानपदेऽविशङ्कितः
।
वरं
वरार्होऽम्बुजनाभपादयो-
रनन्तरं
त्वां
वयमङ्ग
शुश्रुम
8
▾
Meaning
Keep
स
राजराजेन
वराय
चोदितो
ध्रुवो
महाभागवतो
महामतिः
।
हरौ
स
वव्रेऽचलितां
स्मृतिं
यया
तरत्ययत्नेन
दुरत्ययं
तमः
9
▾
Meaning
Keep
तस्य
प्रीतेन
मनसा
तां
दत्त्वैडविडस्ततः
।
पश्यतोऽन्तर्दधे
सोऽपि
स्वपुरं
प्रत्यपद्यत
10
▾
Meaning
Keep
अथायजत
यज्ञेशं
क्रतुभिर्भूरिदक्षिणैः
।
द्रव्यक्रियादेवतानां
कर्म
कर्मफलप्रदम्
11
▾
Meaning
Keep
सर्वात्मन्यच्युतेऽसर्वे
तीव्रौघां
भक्तिमुद्वहन्
।
ददर्शात्मनि
भूतेषु
तमेवावस्थितं
विभुम्
12
▾
Meaning
Keep
तमेवं
शीलसम्पन्नं
ब्रह्मण्यं
दीनवत्सलम्
।
गोप्तारं
धर्मसेतूनां
मेनिरे
पितरं
प्रजाः
13
▾
Meaning
Keep
षट्त्रिंशद्वर्षसाहस्रं
शशास
क्षितिमण्डलम्
।
भोगैः
पुण्यक्षयं
कुर्वन्नभोगैरशुभक्षयम्
14
▾
Meaning
Keep
एवं
बहुसवं
कालं
महात्माविचलेन्द्रियः
।
त्रिवर्गौपयिकं
नीत्वा
पुत्रायादान्नृपासनम्
15
▾
Meaning
Keep
मन्यमान
इदं
विश्वं
मायारचितमात्मनि
।
अविद्यारचितस्वप्नगन्धर्वनगरोपमम्
16
▾
Meaning
Keep
आत्मस्त्र्यपत्यसुहृदो
बलमृद्धकोश-
मन्तःपुरं
परिविहारभुवश्च
रम्याः
।
भूमण्डलं
जलधिमेखलमाकलय्य
कालोपसृष्टमिति
स
प्रययौ
विशालाम्
17
▾
Meaning
Keep
तस्यां
विशुद्धकरणः
शिववार्विगाह्य-
बद्ध्वाऽऽसनं
जितमरुन्मनसाऽऽहृताक्षः
।
स्थूले
दधार
भगवत्प्रतिरूप
एत-
द्ध्यायंस्तदव्यवहितो
व्यसृजत्समाधौ
18
▾
Meaning
Keep
भक्तिं
हरौ
भगवति
प्रवहन्नजस्र-
मानन्दबाष्पकलया
मुहुरर्द्यमानः
।
विक्लिद्यमानहृदयः
पुलकाचिताङ्गो
नात्मानमस्मरदसाविति
मुक्तलिङ्गः
19
▾
Meaning
Keep
स
ददर्श
विमानाग्र्यं
नभसोऽवतरद्ध्रुवः
।
विभ्राजयद्दश
दिशो
राकापतिमिवोदितम्
20
▾
Meaning
Keep
तत्रानु
देवप्रवरौ
चतुर्भुजौ
श्यामौ
किशोरावरुणाम्बुजेक्षणौ
।
स्थिताववष्टभ्य
गदां
सुवाससौ
किरीटहाराङ्गदचारुकुण्डलौ
21
▾
Meaning
Keep
विज्ञाय
तावुत्तमगायकिङ्करा-
वभ्युत्थितः
साध्वसविस्मृतक्रमः
।
ननाम
नामानि
गृणन्मधुद्विषः
पार्षत्प्रधानाविति
संहताञ्जलिः
22
▾
Meaning
Keep
तं
कृष्णपादाभिनिविष्टचेतसं
बद्धाञ्जलिं
प्रश्रयनम्रकन्धरम्
।
सुनन्दनन्दावुपसृत्य
सस्मितं
प्रत्यूचतुः
पुष्करनाभसम्मतौ
23
▾
Meaning
Keep
सुनन्दनन्दावूचतुः
भो
भो
राजन्
सुभद्रं
ते
वाचं
नोऽवहितः
शृणु
।
यः
पञ्चवर्षस्तपसा
भवान्
देवमतीतृपत्
24
▾
Meaning
Keep
तस्याखिलजगद्धातुरावां
देवस्य
शार्ङ्गिणः
।
पार्षदाविह
सम्प्राप्तौ
नेतुं
त्वां
भगवत्पदम्
25
▾
Meaning
Keep
सुदुर्जयं
विष्णुपदं
जितं
त्वया
यत्सूरयोऽप्राप्य
विचक्षते
परम्
।
आतिष्ठ
तच्चन्द्रदिवाकरादयो
ग्रहर्क्षताराः
परियन्ति
दक्षिणम्
26
▾
Meaning
Keep
अनास्थितं
ते
पितृभिरन्यैरप्यङ्ग
कर्हिचित्
।
आतिष्ठ
जगतां
वन्द्यं
तद्विष्णोः
परमं
पदम्
27
▾
Meaning
Keep
एतद्विमानप्रवरमुत्तमश्लोकमौलिना
।
उपस्थापितमायुष्मन्नधिरोढुं
त्वमर्हसि
28
▾
Meaning
Keep
निशम्य
वैकुण्ठनियोज्यमुख्ययो-
र्मधुच्युतं
वाचमुरुक्रमप्रियः
।
कृताभिषेकः
कृतनित्यमङ्गलो
मुनीन्
प्रणम्याशिषमभ्यवादयत्
29
▾
Meaning
Keep
परीत्याभ्यर्च्य
धिष्ण्याग्र्यं
पार्षदावभिवन्द्य
च
।
इयेष
तदधिष्ठातुं
बिभ्रद्रूपं
हिरण्मयम्
30
▾
Meaning
Keep
तदोत्तानपदः
पुत्रो
ददर्शान्तकमागतम्
।
मृत्योर्मूर्ध्नि
पदं
दत्त्वा
आरुरोहाद्भुतं
गृहम्
31
▾
Meaning
Keep
तदा
दुन्दुभयो
नेदुर्मृदङ्गपणवादयः
।
गन्धर्वमुख्याः
प्रजगुः
पेतुः
कुसुमवृष्टयः
32
▾
Meaning
Keep
स
च
स्वर्लोकमारोक्ष्यन्
सुनीतिं
जननीं
ध्रुवः
।
अन्वस्मरदगं
हित्वा
दीनां
यास्ये
त्रिविष्टपम्
33
▾
Meaning
Keep
इति
व्यवसितं
तस्य
व्यवसाय
सुरोत्तमौ
।
दर्शयामासतुर्देवीं
पुरो
यानेन
गच्छतीम्
34
▾
Meaning
Keep
तत्र
तत्र
प्रशंसद्भिः
पथि
वैमानिकैः
सुरैः
।
अवकीर्यमाणो
ददृशे
कुसुमैः
क्रमशो
ग्रहान्
35
▾
Meaning
Keep
त्रिलोकीं
देवयानेन
सोऽतिव्रज्य
मुनीनपि
।
परस्ताद्यद्ध्रुवगतिर्विष्णोः
पदमथाभ्यगात्
36
▾
Meaning
Keep
यद्
भ्राजमानं
स्वरुचैव
सर्वतो
लोकास्त्रयो
ह्यनु
विभ्राजन्त
एते
।
यन्नाव्रजञ्जन्तुषु
येऽननुग्रहा
व्रजन्ति
भद्राणि
चरन्ति
येऽनिशम्
37
▾
Meaning
Keep
शान्ताः
समदृशः
शुद्धाः
सर्वभूतानुरञ्जनाः
।
यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः
38
▾
Meaning
Keep
इत्युत्तानपदः
पुत्रो
ध्रुवः
कृष्णपरायणः
।
अभूत्त्रयाणां
लोकानां
चूडामणिरिवामलः
39
▾
Meaning
Keep
गम्भीरवेगोऽनिमिषं
ज्योतिषां
चक्रमाहितम्
।
यस्मिन्
भ्रमति
कौरव्य
मेढ्यामिव
गवां
गणः
40
▾
Meaning
Keep
महिमानं
विलोक्यास्य
नारदो
भगवान्
ऋषिः
।
आतोद्यं
वितुदञ्श्लोकान्
सत्रेऽगायत्प्रचेतसाम्
41
▾
Meaning
Keep
नूनं
सुनीतेः
पतिदेवताया-
स्तपःप्रभावस्य
सुतस्य
तां
गतिम्
।
दृष्ट्वाभ्युपायानपि
वेदवादिनो
नैवाधिगन्तुं
प्रभवन्ति
किं
नृपाः
42
▾
Meaning
Keep
यः
पञ्चवर्षो
गुरुदारवाक्शरै-
र्भिन्नेन
यातो
हृदयेन
दूयता
।
वनं
मदादेशकरोऽजितं
प्रभुं
जिगाय
तद्भक्तगुणैः
पराजितम्
43
▾
Meaning
Keep
यः
क्षत्रबन्धुर्भुवि
तस्याधिरूढ-
मन्वारुरुक्षेदपि
वर्षपूगैः
।
षट्पञ्चवर्षो
यदहोभिरल्पैः
प्रसाद्य
वैकुण्ठमवाप
तत्पदम्
44
▾
Meaning
Keep
एतत्तेऽभिहितं
सर्वं
यत्पृष्टोऽहमिह
त्वया
।
ध्रुवस्योद्दामयशसश्चरितं
सम्मतं
सताम्
45
▾
Meaning
Keep
धन्यं
यशस्यमायुष्यं
पुण्यं
स्वस्त्ययनं
महत्
।
स्वर्ग्यं
ध्रौव्यं
सौमनस्यं
प्रशस्यमघमर्षणम्
46
▾
Meaning
Keep
श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम्
।
भवेद्भक्तिर्भगवति
यया
स्यात्क्लेशसंक्षयः
47
▾
Meaning
Keep
महत्त्वमिच्छतां
तीर्थं
श्रोतुः
शीलादयो
गुणाः
।
यत्र
तेजस्तदिच्छूनां
मानो
यत्र
मनस्विनाम्
48
▾
Meaning
Keep
प्रयतः
कीर्तयेत्प्रातः
समवाये
द्विजन्मनाम्
।
सायं
च
पुण्यश्लोकस्य
ध्रुवस्य
चरितं
महत्
49
▾
Meaning
Keep
पौर्णमास्यां
सिनीवाल्यां
द्वादश्यां
श्रवणेऽथवा
।
दिनक्षये
व्यतीपाते
संक्रमेऽर्कदिनेऽपि
वा
50
▾
Meaning
Keep
श्रावयेच्छ्रद्दधानानां
तीर्थपादपदाश्रयः
।
नेच्छंस्तत्रात्मनाऽऽत्मानं
संतुष्ट
इति
सिध्यति
51
▾
Meaning
Keep
ज्ञानमज्ञाततत्त्वाय
यो
दद्यात्सत्पथेऽमृतम्
।
कृपालोर्दीननाथस्य
देवास्तस्यानुगृह्णते
52
▾
Meaning
Keep
इदं
मया
तेऽभिहितं
कुरूद्वह
ध्रुवस्य
विख्यातविशुद्धकर्मणः
।
हित्वार्भकः
क्रीडनकानि
मातु-
र्गृहं
च
विष्णुं
शरणं
यो
जगाम
Previous
←
Manu Stops the Killing
Next
The King Who Walked Out at Midnight
→