Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Song Siva Taught the Pracetases
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
विजिताश्वोऽधिराजाऽऽसीत्पृथुपुत्रः
पृथुश्रवाः
।
यवीयोभ्योऽददात्काष्ठा
भ्रातृभ्यो
भ्रातृवत्सलः
2
▾
Meaning
Keep
हर्यक्षायादिशत्प्राचीं
धूम्रकेशाय
दक्षिणाम्
।
प्रतीचीं
वृकसंज्ञाय
तुर्यां
द्रविणसे
विभुः
3
▾
Meaning
Keep
अन्तर्धानगतिं
शक्राल्लब्ध्वान्तर्धानसंज्ञितः
।
अपत्यत्रयमाधत्त
शिखण्डिन्यां
सुसम्मतम्
4
▾
Meaning
Keep
पावकः
पवमानश्च
शुचिरित्यग्नयः
पुरा
।
वसिष्ठशापादुत्पन्नाः
पुनर्योगगतिं
गताः
5
▾
Meaning
Keep
अन्तर्धानो
नभस्वत्यां
हविर्धानमविन्दत
।
य
इन्द्रमश्वहर्तारं
विद्वानपि
न
जघ्निवान्
6
▾
Meaning
Keep
राज्ञां
वृत्तिं
करादानदण्डशुल्कादिदारुणाम्
।
मन्यमानो
दीर्घसत्त्रव्याजेन
विससर्ज
ह
7
▾
Meaning
Keep
तत्रापि
हंसं
पुरुषं
परमात्मानमात्मदृक्
।
यजंस्तल्लोकतामाप
कुशलेन
समाधिना
8
▾
Meaning
Keep
हविर्धानाद्धविर्धानी
विदुरासूत
षट्
सुतान्
।
बर्हिषदं
गयं
शुक्लं
कृष्णं
सत्यं
जितव्रतम्
9
▾
Meaning
Keep
बर्हिषत्सुमहाभागो
हाविर्धानिः
प्रजापतिः
।
क्रियाकाण्डेषु
निष्णातो
योगेषु
च
कुरूद्वह
10
▾
Meaning
Keep
यस्येदं
देवयजनमनुयज्ञं
वितन्वतः
।
प्राचीनाग्रैः
कुशैरासीदास्तृतं
वसुधातलम्
11
▾
Meaning
Keep
सामुद्रीं
देवदेवोक्तामुपयेमे
शतद्रुतिम्
।
यां
वीक्ष्य
चारुसर्वाङ्गीं
किशोरीं
सुष्ठ्वलङ्कृताम्
।
परिक्रमन्तीमुद्वाहे
चकमेऽग्निः
शुकीमिव
12
▾
Meaning
Keep
विबुधासुरगन्धर्वमुनिसिद्धनरोरगाः
।
विजिताः
सूर्यया
दिक्षु
क्वणयन्त्यैव
नूपुरैः
13
▾
Meaning
Keep
प्राचीनबर्हिषः
पुत्राः
शतद्रुत्यां
दशाभवन्
।
तुल्यनामव्रताः
सर्वे
धर्मस्नाताः
प्रचेतसः
14
▾
Meaning
Keep
पित्राऽऽदिष्टाः
प्रजासर्गे
तपसेऽर्णवमाविशन्
।
दशवर्षसहस्राणि
तपसाऽऽर्चंस्तपस्पतिम्
15
▾
Meaning
Keep
यदुक्तं
पथि
दृष्टेन
गिरिशेन
प्रसीदता
।
तद्ध्यायन्तो
जपन्तश्च
पूजयन्तश्च
संयताः
16
▾
Meaning
Keep
प्रचेतसां
गिरित्रेण
यथाऽऽसीत्पथि
सङ्गमः
।
यदुताह
हरः
प्रीतस्तन्नो
ब्रह्मन्
वदार्थवत्
17
▾
Meaning
Keep
सङ्गमः
खलु
विप्रर्षे
शिवेनेह
शरीरिणाम्
।
दुर्लभो
मुनयो
दध्युरसङ्गाद्यमभीप्सितम्
18
▾
Meaning
Keep
आत्मारामोऽपि
यस्त्वस्य
लोककल्पस्य
राधसे
।
शक्त्या
युक्तो
विचरति
घोरया
भगवान्
भवः
19
▾
Meaning
Keep
प्रचेतसः
पितुर्वाक्यं
शिरसाऽऽदाय
साधवः
।
दिशं
प्रतीचीं
प्रययुस्तपस्यादृतचेतसः
20
▾
Meaning
Keep
समुद्रमुप
विस्तीर्णमपश्यन्
सुमहत्सरः
।
महन्मन
इव
स्वच्छं
प्रसन्नसलिलाशयम्
21
▾
Meaning
Keep
नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम्
।
हंससारसचक्राह्वकारण्डवनिकूजितम्
22
▾
Meaning
Keep
मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम्
।
पद्मकोशरजो
दिक्षु
विक्षिपत्पवनोत्सवम्
23
▾
Meaning
Keep
तत्र
गान्धर्वमाकर्ण्य
दिव्यमार्गमनोहरम्
।
विसिस्म्यू
राजपुत्रास्ते
मृदङ्गपणवाद्यनु
24
▾
Meaning
Keep
तर्ह्येव
सरसस्तस्मान्निष्क्रामन्तं
सहानुगम्
।
उपगीयमानममरप्रवरं
विबुधानुगैः
25
▾
Meaning
Keep
तप्तहेमनिकायाभं
शितिकण्ठं
त्रिलोचनम्
।
प्रसादसुमुखं
वीक्ष्य
प्रणेमुर्जातकौतुकाः
26
▾
Meaning
Keep
स
तान्
प्रपन्नार्तिहरो
भगवान्
धर्मवत्सलः
।
धर्मज्ञान्
शीलसम्पन्नान्
प्रीतः
प्रीतानुवाच
ह
27
▾
Meaning
Keep
यूयं
वेदिषदः
पुत्रा
विदितं
वश्चिकीर्षितम्
।
अनुग्रहाय
भद्रं
व
एवं
मे
दर्शनं
कृतम्
28
▾
Meaning
Keep
यः
परं
रंहसः
साक्षात्त्रिगुणाज्जीवसंज्ञितात्
।
भगवन्तं
वासुदेवं
प्रपन्नः
स
प्रियो
हि
मे
29
▾
Meaning
Keep
स्वधर्मनिष्ठः
शतजन्मभिः
पुमान्
विरिञ्चतामेति
ततः
परं
हि
माम्
।
अव्याकृतं
भागवतोऽथ
वैष्णवं
पदं
यथाहं
विबुधाः
कलात्यये
30
▾
Meaning
Keep
अथ
भागवता
यूयं
प्रियाः
स्थ
भगवान्
यथा
।
न
मद्भागवतानां
च
प्रेयानन्योऽस्ति
कर्हिचित्
31
▾
Meaning
Keep
इदं
विविक्तं
जप्तव्यं
पवित्रं
मङ्गलं
परम्
।
निःश्रेयसकरं
चापि
श्रूयतां
तद्वदामि
वः
32
▾
Meaning
Keep
इत्यनुक्रोशहृदयो
भगवानाह
तान्
शिवः
।
बद्धाञ्जलीन्
राजपुत्रान्नारायणपरो
वचः
Hymn
33
▾
Meaning
Keep
जितं
त
आत्मविद्धुर्यस्वस्तये
स्वस्तिरस्तु
मे
।
भवता
राधसा
राद्धं
सर्वस्मा
आत्मने
नमः
34
▾
Meaning
Keep
नमः
पङ्कजनाभाय
भूतसूक्ष्मेन्द्रियात्मने
।
वासुदेवाय
शान्ताय
कूटस्थाय
स्वरोचिषे
35
▾
Meaning
Keep
सङ्कर्षणाय
सूक्ष्माय
दुरन्तायान्तकाय
च
।
नमो
विश्वप्रबोधाय
प्रद्युम्नायान्तरात्मने
36
▾
Meaning
Keep
नमो
नमोऽनिरुद्धाय
हृषीकेशेन्द्रियात्मने
।
नमः
परमहंसाय
पूर्णाय
निभृतात्मने
37
▾
Meaning
Keep
स्वर्गापवर्गद्वाराय
नित्यं
शुचिषदे
नमः
।
नमो
हिरण्यवीर्याय
चातुर्होत्राय
तन्तवे
38
▾
Meaning
Keep
नम
ऊर्ज
इषे
त्रय्याः
पतये
यज्ञरेतसे
।
तृप्तिदाय
च
जीवानां
नमः
सर्वरसात्मने
39
▾
Meaning
Keep
सर्वसत्त्वात्मदेहाय
विशेषाय
स्थवीयसे
।
नमस्त्रैलोक्यपालाय
सह
ओजो
बलाय
च
40
▾
Meaning
Keep
अर्थलिङ्गाय
नभसे
नमोऽन्तर्बहिरात्मने
।
नमः
पुण्याय
लोकाय
अमुष्मै
भूरिवर्चसे
41
▾
Meaning
Keep
प्रवृत्ताय
निवृत्ताय
पितृदेवाय
कर्मणे
।
नमोऽधर्मविपाकाय
मृत्यवे
दुःखदाय
च
42
▾
Meaning
Keep
नमस्त
आशिषामीश
मनवे
कारणात्मने
।
नमो
धर्माय
बृहते
कृष्णायाकुण्ठमेधसे
।
पुरुषाय
पुराणाय
सांख्ययोगेश्वराय
च
43
▾
Meaning
Keep
शक्तित्रयसमेताय
मीढुषेऽहङ्कृतात्मने
।
चेत
आकूतिरूपाय
नमो
वाचो
विभूतये
44
▾
Meaning
Keep
दर्शनं
नो
दिदृक्षूणां
देहि
भागवतार्चितम्
।
रूपं
प्रियतमं
स्वानां
सर्वेन्द्रियगुणाञ्जनम्
Hymn
45
▾
Meaning
Keep
स्निग्धप्रावृड्घनश्यामं
सर्वसौन्दर्यसंग्रहम्
।
चार्वायतचतुर्बाहुं
सुजातरुचिराननम्
46
▾
Meaning
Keep
पद्मकोशपलाशाक्षं
सुन्दरभ्रु
सुनासिकम्
।
सुद्विजं
सुकपोलास्यं
समकर्णविभूषणम्
47
▾
Meaning
Keep
प्रीतिप्रहसितापाङ्गमलकैरूपशोभितम्
।
लसत्पङ्कजकिञ्जल्कदुकूलं
मृष्टकुण्डलम्
48
▾
Meaning
Keep
स्फुरत्किरीटवलयहारनूपुरमेखलम्
।
शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत्
49
▾
Meaning
Keep
सिंहस्कन्धत्विषो
बिभ्रत्सौभगग्रीवकौस्तुभम्
।
श्रियानपायिन्या
क्षिप्तनिकषाश्मोरसोल्लसत्
50
▾
Meaning
Keep
पूररेचकसंविग्नवलिवल्गुदलोदरम्
।
प्रतिसंक्रामयद्विश्वं
नाभ्यावर्तगभीरया
51
▾
Meaning
Keep
श्यामश्रोण्यधिरोचिष्णु
दुकूलस्वर्णमेखलम्
।
समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम्
52
▾
Meaning
Keep
पदा
शरत्पद्मपलाशरोचिषा
नखद्युभिर्नोऽन्तरघं
विधुन्वता
।
प्रदर्शय
स्वीयमपास्तसाध्वसं
पदं
गुरो
मार्गगुरुस्तमोजुषाम्
53
▾
Meaning
Keep
एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम्
।
यद्भक्तियोगोऽभयदः
स्वधर्ममनुतिष्ठताम्
54
▾
Meaning
Keep
भवान्
भक्तिमता
लभ्यो
दुर्लभः
सर्वदेहिनाम्
।
स्वाराज्यस्याप्यभिमत
एकान्तेनात्मविद्गतिः
55
▾
Meaning
Keep
तं
दुराराध्यमाराध्य
सतामपि
दुरापया
।
एकान्तभक्त्या
को
वाञ्छेत्पादमूलं
विना
बहिः
56
▾
Meaning
Keep
यत्र
निर्विष्टमरणं
कृतान्तो
नाभिमन्यते
।
विश्वं
विध्वंसयन्
वीर्यशौर्यविस्फूर्जितभ्रुवा
57
▾
Meaning
Keep
क्षणार्धेनापि
तुलये
न
स्वर्गं
नापुनर्भवम्
।
भगवत्सङ्गिसङ्गस्य
मर्त्यानां
किमुताशिषः
58
▾
Meaning
Keep
अथानघाङ्घ्रेस्तव
कीर्तितीर्थयो-
रन्तर्बहिः
स्नानविधूतपाप्मनाम्
।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां
स्यात्सङ्गमोऽनुग्रह
एष
नस्तव
59
▾
Meaning
Keep
न
यस्य
चित्तं
बहिरर्थविभ्रमं
तमोगुहायां
च
विशुद्धमाविशत्
।
यद्भक्तियोगानुगृहीतमञ्जसा
मुनिर्विचष्टे
ननु
तत्र
ते
गतिम्
60
▾
Meaning
Keep
यत्रेदं
व्यज्यते
विश्वं
विश्वस्मिन्नवभाति
यत्
।
तत्
त्वं
ब्रह्म
परं
ज्योतिराकाशमिव
विस्तृतम्
61
▾
Meaning
Keep
यो
माययेदं
पुरुरूपयासृजद्
बिभर्ति
भूयः
क्षपयत्यविक्रियः
।
यद्भेदबुद्धिः
सदिवात्मदुःस्थया
त्वमात्मतन्त्रं
भगवन्
प्रतीमहि
62
▾
Meaning
Keep
क्रियाकलापैरिदमेव
योगिनः
श्रद्धान्विताः
साधु
यजन्ति
सिद्धये
।
भूतेन्द्रियान्तःकरणोपलक्षितं
वेदे
च
तन्त्रे
च
त
एव
कोविदाः
63
▾
Meaning
Keep
त्वमेक
आद्यः
पुरुषः
सुप्तशक्ति-
स्तया
रजःसत्त्वतमो
विभिद्यते
।
महानहं
खं
मरुदग्निवार्धराः
सुरर्षयो
भूतगणा
इदं
यतः
64
▾
Meaning
Keep
सृष्टं
स्वशक्त्येदमनुप्रविष्ट-
श्चतुर्विधं
पुरमात्मांशकेन
।
अथो
विदुस्तं
पुरुषं
सन्तमन्त-
र्भुङ्क्ते
हृषीकैर्मधु
सारघं
यः
65
▾
Meaning
Keep
स
एष
लोकानतिचण्डवेगो
विकर्षसि
त्वं
खलु
कालयानः
।
भूतानि
भूतैरनुमेयतत्त्वो
घनावलीर्वायुरिवाविषह्यः
66
▾
Meaning
Keep
प्रमत्तमुच्चैरितिकृत्यचिन्तया
प्रवृद्धलोभं
विषयेषु
लालसम्
।
त्वमप्रमत्तः
सहसाभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखुमन्तकः
67
▾
Meaning
Keep
कस्त्वत्पदाब्जं
विजहाति
पण्डितो
यस्तेऽवमानव्ययमानकेतनः
।
विशङ्कयास्मद्गुरुरर्चति
स्म
यद्-
विनोपपत्तिं
मनवश्चतुर्दश
68
▾
Meaning
Keep
अथ
त्वमसि
नो
ब्रह्मन्
परमात्मन्
विपश्चिताम्
।
विश्वं
रुद्रभयध्वस्तमकुतश्चिद्भया
गतिः
69
▾
Meaning
Keep
इदं
जपत
भद्रं
वो
विशुद्धा
नृपनन्दनाः
।
स्वधर्ममनुतिष्ठन्तो
भगवत्यर्पिताशयाः
70
▾
Meaning
Keep
तमेवात्मानमात्मस्थं
सर्वभूतेष्ववस्थितम्
।
पूजयध्वं
गृणन्तश्च
ध्यायन्तश्चासकृद्धरिम्
71
▾
Meaning
Keep
योगादेशमुपासाद्य
धारयन्तो
मुनिव्रताः
।
समाहितधियः
सर्व
एतदभ्यसतादृताः
72
▾
Meaning
Keep
इदमाह
पुरास्माकं
भगवान्
विश्वसृक्पतिः
।
भृग्वादीनामात्मजानां
सिसृक्षुः
संसिसृक्षताम्
73
▾
Meaning
Keep
ते
वयं
नोदिताः
सर्वे
प्रजासर्गे
प्रजेश्वराः
।
अनेन
ध्वस्ततमसः
सिसृक्ष्मो
विविधाः
प्रजाः
74
▾
Meaning
Keep
अथेदं
नित्यदा
युक्तो
जपन्नवहितः
पुमान्
।
अचिराच्छ्रेय
आप्नोति
वासुदेवपरायणः
75
▾
Meaning
Keep
श्रेयसामिह
सर्वेषां
ज्ञानं
निःश्रेयसं
परम्
।
सुखं
तरति
दुष्पारं
ज्ञाननौर्व्यसनार्णवम्
76
▾
Meaning
Keep
य
इमं
श्रद्धया
युक्तो
मद्गीतं
भगवत्स्तवम्
।
अधीयानो
दुराराध्यं
हरिमाराधयत्यसौ
77
▾
Meaning
Keep
विन्दते
पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम्
।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात्
78
▾
Meaning
Keep
इदं
यः
कल्य
उत्थाय
प्राञ्जलिः
श्रद्धयान्वितः
।
शृणुयाच्छ्रावयेन्मर्त्यो
मुच्यते
कर्मबन्धनैः
79
▾
Meaning
Keep
गीतं
मयेदं
नरदेवनन्दनाः
परस्य
पुंसः
परमात्मनः
स्तवम्
।
जपन्त
एकाग्रधियस्तपो
महच्चरध्वमन्ते
तत
आप्स्यथेप्सितम्
Previous
←
Prthu Goes to the Forest
Next
Narada Begins the Story of Puranjana
→