Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Kimpurusa and Bharata
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
किम्पुरुषे
वर्षे
भगवन्तमादिपुरुषं
लक्ष्मणाग्रजं
सीताभिरामं
रामं
तच्चरणसन्निकर्षाभिरतः
परमभागवतो
हनुमान्
सह
किम्पुरुषैरविरत-
भक्तिरुपास्ते
2
▾
Meaning
Keep
आर्ष्टिषेणेन
सह
गन्धर्वैरनुगीयमानां
परमकल्याणीं
भर्तृभगवत्कथां
समुपशृणोति
स्वयं
चेदं
गायति
3
▾
Meaning
Keep
ॐ
नमो
भगवते
उत्तमश्लोकायनम
आर्यलक्षणशीलव्रताय
नम
उपशिक्षितात्मन
उपासितलोकाय
नमः
साधुवादनिकषणाय
नमो
ब्रह्मण्यदेवाय
महापुरुषाय
महाराजाय
नम
इति
4
▾
Meaning
Keep
यत्तद्विशुद्धानुभवमात्रमेकं
स्वतेजसा
ध्वस्तगुणव्यवस्थम्
।
प्रत्यक्प्रशान्तं
सुधियोपलम्भनं
ह्यनामरूपं
निरहं
प्रपद्ये
5
▾
Meaning
Keep
मर्त्यावतारस्त्विह
मर्त्यशिक्षणं
रक्षोवधायैव
न
केवलं
विभोः
।
कुतोऽन्यथा
स्याद्रमतः
स्व
आत्मनः
सीताकृतानि
व्यसनानीश्वरस्य
6
▾
Meaning
Keep
न
वै
स
आत्माऽऽत्मवतां
सुहृत्तमः
सक्तस्त्रिलोक्यां
भगवान्वासुदेवः
।
न
स्त्रीकृतं
कश्मलमश्नुवीत
न
लक्ष्मणं
चापि
विहातुमर्हति
7
▾
Meaning
Keep
न
जन्म
नूनं
महतो
न
सौभगं
न
वाङ्
न
बुद्धिर्नाकृतिस्तोषहेतुः
।
तैर्यद्विसृष्टानपि
नो
वनौकस-
श्चकार
सख्ये
बत
लक्ष्मणाग्रजः
8
▾
Meaning
Keep
सुरोऽसुरो
वाप्यथ
वानरो
नरः
सर्वात्मना
यः
सुकृतज्ञमुत्तमम्
।
भजेत
रामं
मनुजाकृतिं
हरिं
य
उत्तराननयत्कोसलान्
दिवमिति
9
▾
Meaning
Keep
भारतेऽपि
वर्षे
भगवान्
नरनारायणाख्य
आकल्पान्त-
मुपचितधर्म
ज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भन-
मनुग्रहायात्मवतामनुकम्पया
तपोऽव्यक्तगतिश्चरति
10
▾
Meaning
Keep
तं
भगवान्
नारदो
वर्णाश्रमवतीभिर्भारतीभिः
प्रजाभिर्भगवत्प्रोक्ताभ्यां
सांख्ययोगाभ्यां
भगवदनुभावोपवर्णनं
सावर्णेरुपदेक्ष्यमाणः
परमभक्तिभावेनोपसरति
इदं
चाभिगृणाति
11
▾
Meaning
Keep
ॐ
नमो
भगवते
उपशमशीलायोपरतानात्म्यायनमोऽकिञ्चनवित्ताय
ऋषिऋषभाय
नरनारायणाय
परमहंसपरमगुरवे
आत्मारामाधिपतये
नमो
नम
इति
12
▾
Meaning
Keep
गायति
चेदम्
।
कर्तास्य
सर्गादिषु
यो
न
बध्यते
न
हन्यते
देहगतोऽपि
दैहिकैः
।
द्रष्टुर्न
दृग्यस्य
गुणैर्विदूष्यते
तस्मै
नमोऽसक्तविविक्तसाक्षिणे
13
▾
Meaning
Keep
इदं
हि
योगेश्वर
योगनैपुणं
हिरण्यगर्भो
भगवान्
जगाद
यत्
।
यदन्तकाले
त्वयि
निर्गुणे
मनो
भक्त्या
दधीतोज्झितदुष्कलेवरः
14
▾
Meaning
Keep
यथैहिकामुष्मिककामलम्पटः
सुतेषु
दारेषु
धनेषु
चिन्तयन्
।
शङ्केत
विद्वान्
कुकलेवरात्यया-
द्यस्तस्य
यत्नः
श्रम
एव
केवलम्
15
▾
Meaning
Keep
तन्नः
प्रभो
त्वं
कुकलेवरार्पितां
त्वन्माययाहंममतामधोक्षज
।
भिन्द्याम
येनाशु
वयं
सुदुर्भिदां
विधेहि
योगं
त्वयि
नः
स्वभावमिति
16
▾
Meaning
Keep
भारतेऽप्यस्मिन्
वर्षे
सरिच्छैलाः
सन्ति
बहवो
मलयो
मङ्गलप्रस्थो
मैनाकस्त्रिकूट
ऋषभः
कूटकः
कोल्लकः
सह्यो
देवगिरिर्ऋष्यमूकः
श्रीशैलो
वेङ्कटो
महेन्द्रो
वारिधारो
विन्ध्यः
शुक्तिमानृक्षगिरिः
पारियात्रो
द्रोणश्चित्रकूटो
गोवर्धनो
रैवतकः
ककुभो
नीलो
गोकामुख
इन्द्रकीलः
कामगिरिरिति
चान्ये
च
शतसहस्रशः
शैलास्तेषां
नितम्बप्रभवा
नदा
नद्यश्च
सन्त्यसंख्याताः
17
▾
Meaning
Keep
एतासामपो
भारत्यः
प्रजा
नामभिरेव
पुनन्तीना-
मात्मना
चोपस्पृशन्ति
18
▾
Meaning
Keep
चन्द्रवसा
ताम्रपर्णी
अवटोदाकृतमाला
वैहायसी
कावेरी
वेणी
पयस्विनी
शर्करावर्ता
तुङ्गभद्रा
कृष्णा
वेण्या
भीमरथी
गोदावरी
निर्विन्ध्या
पयोष्णी
तापी
रेवा
सुरसा
नर्मदा
चर्मण्वती
सिन्धुरन्धः
शोणश्च
नदौ
महानदी
वेदस्मृति
ऋषिकुल्या
त्रिसामा
कौशिकी
मन्दाकिनी
यमुना
सरस्वती
दृषद्वती
गोमती
सरयू
रोधस्वती
सप्तवती
सुषोमा
शतद्रूश्चन्द्रभागा
मरुद्वृधा
वितस्ता
असिक्नी
विश्वेति
महानद्यः
19
▾
Meaning
Keep
अस्मिन्नेव
वर्षे
पुरुषैर्लब्धजन्मभिः
शुक्ललोहित-
कृष्णवर्णेन
स्वारब्धेन
कर्मणा
दिव्यमानुषनारक-
गतयो
बह्व्य
आत्मन
आनुपूर्व्येण
सर्वा
ह्येव
सर्वेषां
विधीयन्ते
यथा
वर्णविधानमपवर्गश्चापि
भवति
20
▾
Meaning
Keep
योऽसौ
भगवति
सर्वभूतात्मन्यनात्म्येऽनिरुक्ते-
ऽनिलयने
परमात्मनि
वासुदेवेऽनन्यनिमित्त-
भक्तियोगलक्षणो
नानागतिनिमित्ताविद्याग्रन्थि-
रन्धनद्वारेण
यदा
हि
महापुरुषपुरुषप्रसङ्गः
21
▾
Meaning
Keep
एतदेव हि देवा गायन्ति -
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः
22
▾
Meaning
Keep
किं
दुष्करैर्नः
क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा
द्युजयेन
फल्गुना
।
न
यत्र
नारायणपादपङ्कज-
स्मृतिः
प्रमुष्टातिशयेन्द्रियोत्सवात्
23
▾
Meaning
Keep
कल्पायुषां
स्थानजयात्पुनर्भवात्
क्षणायुषां
भारतभूजयो
वरम्
।
क्षणेन
मर्त्येन
कृतं
मनस्विनः
संन्यस्य
संयान्त्यभयं
पदं
हरेः
24
▾
Meaning
Keep
न
यत्र
वैकुण्ठकथासुधापगा
न
साधवो
भागवतास्तदाश्रयाः
।
न
यत्र
यज्ञेशमखा
महोत्सवाः
सुरेशलोकोऽपि
न
वै
स
सेव्यताम्
25
▾
Meaning
Keep
प्राप्ता
नृजातिं
त्विह
ये
च
जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम्
।
न
वै
यतेरन्नपुनर्भवाय
ते
भूयो
वनौका
इव
यान्ति
बन्धनम्
26
▾
Meaning
Keep
यैः
श्रद्धया
बर्हिषि
भागशो
हवि
र्निरुप्तमिष्टं
विधिमन्त्रवस्तुतः
।
एकः
पृथङ्
नामभिराहुतो
मुदा
गृह्णाति
पूर्णः
स्वयमाशिषां
प्रभुः
27
▾
Meaning
Keep
सत्यं
दिशत्यर्थितमर्थितो
नृणां
नैवार्थदो
यत्पुनरर्थिता
यतः
।
स्वयं
विधत्ते
भजतामनिच्छता-
मिच्छापिधानं
निजपादपल्लवम्
28
▾
Meaning
Keep
यद्यत्र
नः
स्वर्गसुखावशेषितं
स्विष्टस्य
सूक्तस्य
कृतस्य
शोभनम्
।
तेनाजनाभे
स्मृतिमज्जन्म
नः
स्या-
द्वर्षे
हरिर्यद्भजतां
शं
तनोति
29
▾
Meaning
Keep
जम्बूद्वीपस्य
च
राजन्नुपद्वीपानष्टौ
हैक
उपदिशन्ति
सगरात्मजैरश्वान्वेषण
इमां
महीं
परितो
निखनद्भि-
रुपकल्पितान्
30
▾
Meaning
Keep
तद्यथा
स्वर्णप्रस्थश्चन्द्रशुक्ल
आवर्तनो
रमणको
मन्दरहरिणः
पाञ्चजन्यः
सिंहलो
लङ्केति
31
▾
Meaning
Keep
एवं
तव
भारतोत्तम
जम्बूद्वीपवर्षविभागो
यथोपदेशमुपवर्णित
इति
Previous
←
The Hymns of the Regions
Next
The Islands Beyond Jambu
→