Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Sun's Going Round
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एतावानेव
भूवलयस्य
सन्निवेशः
प्रमाणलक्षणतो
व्याख्यातः
2
▾
Meaning
Keep
एतेन
हि
दिवो
मण्डलमानं
तद्विद
उपदिशन्ति
यथा
द्विदलयोर्निष्पावादीनां
ते
अन्तरेणान्तरिक्षं
तदुभयसन्धितम्
3
▾
Meaning
Keep
यन्मध्यगतोभगवांस्तपताम्पतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष उदगयनदक्षिणा यनवैषुवतसंज्ञाभिर्मान्द्यशैघ्र्य समानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते
4
▾
Meaning
Keep
यदा
मेषतुलयोर्वर्तते
तदाहोरात्राणि
समानानि
भवन्ति
यदा
वृषभादिषु
पञ्चसु
च
राशिषु
चरति
तदाहान्येव
वर्धन्ते
ह्रसति
च
मासि
मास्येकैका
घटिका
रात्रिषु
5
▾
Meaning
Keep
यदा
वृश्चिकादिषु
पञ्चसु
वर्तते
तदाहोरात्राणि
विपर्ययाणि
भवन्ति
6
▾
Meaning
Keep
यावद्दक्षिणायनमहानि
वर्धन्ते
यावदुदगयनं
रात्रयः
7
▾
Meaning
Keep
एवं
नवकोटय
एकपञ्चाशल्लक्षाणि
योजनानां
मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं
पुरीं
पूर्वस्मान्मेरोर्देवधानीं
नाम
दक्षिणतो
याम्यां
संयमनीं
नाम
पश्चाद्वारुणीं
निम्लोचनीं
नाम
उत्तरतः
सौम्यां
विभावरीं
नाम
तासूदयमध्याह्नास्तमयनिशीथानीति
भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि
समयविशेषेण
मेरोश्चतुर्दिशम्
8
▾
Meaning
Keep
तत्रत्यानां
दिवसमध्यंगत
एव
सदाऽऽदित्यस्तपतिसव्येनाचलं
दक्षिणेन
करोति
9
▾
Meaning
Keep
यत्रोदेति
तस्य
ह
समानसूत्रनिपाते
निम्लोचति
यत्र
क्वचन
स्यन्देनाभितपति
तस्य
हैष
समानसूत्र-
निपाते
प्रस्वापयति
तत्र
गतं
न
पश्यन्ति
ये
तं
समनुपश्येरन्
10
▾
Meaning
Keep
यदा
चैन्द्र्याः
पुर्याः
प्रचलते
पञ्चदशघटिकाभिर्याम्यां
सपादकोटिद्वयं
योजनानां
सार्धद्वादशलक्षाणि
साधिकानि
चोपयाति
11
▾
Meaning
Keep
एवं
ततो
वारुणीं
सौम्यामैन्द्रीं
च
पुनस्तथान्ये
च
ग्रहाः
सोमादयो
नक्षत्रैः
सह
ज्योतिश्चक्रे
सम-
भ्युद्यन्ति
सह
वा
निम्लोचन्ति
12
▾
Meaning
Keep
एवं
मुहूर्तेन
चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि
सौरो
रथस्त्रयीमयोऽसौचतसृषु
परिवर्तते
पुरीषु
13
▾
Meaning
Keep
यस्यैकं
चक्रं
द्वादशारं
षण्नेमि
त्रिणाभि
संवत्सरात्मकं
समामनन्ति
तस्याक्षो
मेरोर्मूर्धनि
कृतो
मानसोत्तरे
कृतेतरभागो
यत्र
प्रोतं
रविरथचक्रं
तैलयन्त्रचक्रवद्भ्रमन्
मानसोत्तरगिरौ
परिभ्रमति
14
▾
Meaning
Keep
तस्मिन्नक्षे
कृतमूलो
द्वितीयोऽक्षस्तुर्यमानेन
सम्मितस्तैलयन्त्राक्षवद्ध्रुवे
कृतोपरिभागः
15
▾
Meaning
Keep
रथनीडस्तु
षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभाग-
विशालस्तावान्
रविरथयुगो
यत्र
हयाश्छन्दो
नामानः
सप्तारुणयोजिता
वहन्ति
देवमादित्यम्
16
▾
Meaning
Keep
पुरस्तात्सवितुररुणः
पश्चाच्च
नियुक्तः
सौत्ये
कर्मणि
किलास्ते
17
▾
Meaning
Keep
तथा
वालखिल्या
ऋषयोऽङ्गुष्ठपर्वमात्राः
षष्टिसहस्राणि
पुरतः
सूर्यं
सूक्तवाकाय
नियुक्ताः
संस्तुवन्ति
18
▾
Meaning
Keep
तथान्ये
च
ऋषयो
गन्धर्वाप्सरसो
नागा
ग्रामण्यो
यातुधाना
देवा
इत्येकैकशो
गणाः
सप्तचतुर्दश
मासि
मासि
भगवन्तं
सूर्यमात्मानं
नानानामानं
पृथङ्नानानामानः
पृथक्कर्मभिर्द्वन्द्वश
उपासते
19
▾
Meaning
Keep
लक्षोत्तरं
सार्धनवकोटियोजनपरिमण्डलं
भूवलयस्य
क्षणेन
सगव्यूत्युत्तरं
द्विसहस्रयोजनानि
स
भुङ्क्ते
Previous
←
The Islands Beyond Jambu
Next
How the Lights Move
→