यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणांपिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्य-मानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवंमेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानांतदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरेराश्यन्तरे चोपलभ्यमानत्वात्