Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Name That Freed Ajamila
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
ते
भगवद्दूता
यमदूताभिभाषितम्
।
उपधार्याथ
तान्
राजन्
प्रत्याहुर्नयकोविदाः
2
▾
Meaning
Keep
अहो
कष्टं
धर्मदृशामधर्मः
स्पृशते
सभाम्
।
यत्रादण्ड्येष्वपापेषु
दण्डो
यैर्ध्रियते
वृथा
3
▾
Meaning
Keep
प्रजानां
पितरो
ये
च
शास्तारः
साधवः
समाः
।
यदि
स्यात्तेषु
वैषम्यं
कं
यान्ति
शरणं
प्रजाः
4
▾
Meaning
Keep
यद्यदाचरति
श्रेयानितरस्तत्तदीहते
।
स
यत्प्रमाणं
कुरुते
लोकस्तदनुवर्तते
5
▾
Meaning
Keep
यस्याङ्के
शिर
आधाय
लोकः
स्वपिति
निर्वृतः
।
स्वयं
धर्ममधर्मं
वा
न
हि
वेद
यथा
पशुः
6
▾
Meaning
Keep
स
कथं
न्यर्पितात्मानं
कृतमैत्रमचेतनम्
।
विस्रम्भणीयो
भूतानां
सघृणो
द्रोग्धुमर्हति
7
▾
Meaning
Keep
अयं
हि
कृतनिर्वेशो
जन्मकोट्यंहसामपि
।
यद्व्याजहार
विवशो
नाम
स्वस्त्ययनं
हरेः
8
▾
Meaning
Keep
एतेनैव
ह्यघोनोऽस्य
कृतं
स्यादघनिष्कृतम्
।
यदा
नारायणायेति
जगाद
चतुरक्षरम्
9
▾
Meaning
Keep
स्तेनः
सुरापो
मित्रध्रुग्
ब्रह्महा
गुरुतल्पगः
।
स्त्रीराजपितृगोहन्ता
ये
च
पातकिनोऽपरे
10
▾
Meaning
Keep
सर्वेषामप्यघवतामिदमेव
सुनिष्कृतम्
।
नामव्याहरणं
विष्णोर्यतस्तद्विषया
मतिः
11
▾
Meaning
Keep
न
निष्कृतैरुदितैर्ब्रह्मवादिभि-
स्तथा
विशुद्ध्यत्यघवान्
व्रतादिभिः
।
यथा
हरेर्नामपदैरुदाहृतै-
स्तदुत्तमश्लोकगुणोपलम्भकम्
12
▾
Meaning
Keep
नैकान्तिकं
तद्धि
कृतेऽपि
निष्कृते
मनः
पुनर्धावति
चेदसत्पथे
।
तत्कर्मनिर्हारमभीप्सतां
हरे-
र्गुणानुवादः
खलु
सत्त्वभावनः
13
▾
Meaning
Keep
अथैनं
मापनयत
कृताशेषाघनिष्कृतम्
।
यदसौ
भगवन्नाम
म्रियमाणः
समग्रहीत्
14
▾
Meaning
Keep
साङ्केत्यं
पारिहास्यं
वा
स्तोभं
हेलनमेव
वा
।
वैकुण्ठनामग्रहणमशेषाघहरं
विदुः
15
▾
Meaning
Keep
पतितः
स्खलितो
भग्नः
सन्दष्टस्तप्त
आहतः
।
हरिरित्यवशेनाह
पुमान्
नार्हति
यातनाम्
16
▾
Meaning
Keep
गुरूणां
च
लघूनां
च
गुरूणि
च
लघूनि
च
।
प्रायश्चित्तानि
पापानां
ज्ञात्वोक्तानि
महर्षिभिः
17
▾
Meaning
Keep
तैस्तान्यघानि
पूयन्ते
तपोदानजपादिभिः
।
नाधर्मजं
तद्धृदयं
तदपीशाङ्घ्रिसेवया
18
▾
Meaning
Keep
अज्ञानादथवा
ज्ञानादुत्तमश्लोकनाम
यत्
।
सङ्कीर्तितमघं
पुंसो
दहेदेधो
यथानलः
19
▾
Meaning
Keep
यथागदं
वीर्यतममुपयुक्तं
यदृच्छया
।
अजानतोऽप्यात्मगुणं
कुर्यान्मन्त्रोऽप्युदाहृतः
20
▾
Meaning
Keep
त
एवं
सुविनिर्णीय
धर्मं
भागवतं
नृप
।
तं
याम्यपाशान्निर्मुच्य
विप्रं
मृत्योरमूमुचन्
21
▾
Meaning
Keep
इति
प्रत्युदिता
याम्या
दूता
यात्वा
यमान्तिके
।
यमराज्ञे
यथा
सर्वमाचचक्षुररिन्दम
22
▾
Meaning
Keep
द्विजः
पाशाद्विनिर्मुक्तो
गतभीः
प्रकृतिं
गतः
।
ववन्दे
शिरसा
विष्णोः
किङ्करान्
दर्शनोत्सवः
23
▾
Meaning
Keep
तं
विवक्षुमभिप्रेत्य
महापुरुषकिङ्कराः
।
सहसा
पश्यतस्तस्य
तत्रान्तर्दधिरेऽनघ
24
▾
Meaning
Keep
अजामिलोऽप्यथाकर्ण्य
दूतानां
यमकृष्णयोः
।
धर्मं
भागवतं
शुद्धं
त्रैविद्यं
च
गुणाश्रयम्
25
▾
Meaning
Keep
भक्तिमान्
भगवत्याशु
माहात्म्यश्रवणाद्धरेः
।
अनुतापो
महानासीत्स्मरतोऽशुभमात्मनः
26
▾
Meaning
Keep
अहो
मे
परमं
कष्टमभूदविजितात्मनः
।
येन
विप्लावितं
ब्रह्म
वृषल्यां
जायताऽऽत्मना
27
▾
Meaning
Keep
धिङ्
मां
विगर्हितं
सद्भिर्दुष्कृतं
कुलकज्जलम्
।
हित्वा
बालां
सतीं
योऽहं
सुरापामसतीमगाम्
28
▾
Meaning
Keep
वृद्धावनाथौ
पितरौ
नान्यबन्धू
तपस्विनौ
।
अहो
मयाधुना
त्यक्तावकृतज्ञेन
नीचवत्
29
▾
Meaning
Keep
सोऽहं
व्यक्तं
पतिष्यामि
नरके
भृशदारुणे
।
धर्मघ्नाः
कामिनो
यत्र
विन्दन्ति
यमयातनाः
30
▾
Meaning
Keep
किमिदं
स्वप्न
आहोस्वित्साक्षाद्दृष्टमिहाद्भुतम्
।
क्व
याता
अद्य
ते
ये
मां
व्यकर्षन्
पाशपाणयः
31
▾
Meaning
Keep
अथ
ते
क्व
गताः
सिद्धाश्चत्वारश्चारुदर्शनाः
।
व्यामोचयन्नीयमानं
बद्ध्वा
पाशैरधो
भुवः
32
▾
Meaning
Keep
अथापि
मे
दुर्भगस्य
विबुधोत्तमदर्शने
।
भवितव्यं
मङ्गलेन
येनात्मा
मे
प्रसीदति
33
▾
Meaning
Keep
अन्यथा
म्रियमाणस्य
नाशुचेर्वृषलीपतेः
।
वैकुण्ठनामग्रहणं
जिह्वा
वक्तुमिहार्हति
34
▾
Meaning
Keep
क्व
चाहं
कितवः
पापो
ब्रह्मघ्नो
निरपत्रपः
।
क्व
च
नारायणेत्येतद्भगवन्नाम
मङ्गलम्
35
▾
Meaning
Keep
सोऽहं
तथा
यतिष्यामि
यतचित्तेन्द्रियानिलः
।
यथा
न
भूय
आत्मानमन्धे
तमसि
मज्जये
36
▾
Meaning
Keep
विमुच्य
तमिमं
बन्धमविद्याकामकर्मजम्
।
सर्वभूतसुहृच्छान्तो
मैत्रः
करुण
आत्मवान्
37
▾
Meaning
Keep
मोचये
ग्रस्तमात्मानं
योषिन्मय्याऽऽत्ममायया
।
विक्रीडितो
ययैवाहं
क्रीडामृग
इवाधमः
38
▾
Meaning
Keep
ममाहमिति
देहादौ
हित्वा
मिथ्यार्थधीर्मतिम्
।
धास्ये
मनो
भगवति
शुद्धं
तत्कीर्तनादिभिः
39
▾
Meaning
Keep
इति
जातसुनिर्वेदः
क्षणसङ्गेन
साधुषु
।
गङ्गाद्वारमुपेयाय
मुक्तसर्वानुबन्धनः
40
▾
Meaning
Keep
स
तस्मिन्देवसदन
आसीनो
योगमाश्रितः
।
प्रत्याहृतेन्द्रियग्रामो
युयोज
मन
आत्मनि
41
▾
Meaning
Keep
ततो
गुणेभ्य
आत्मानं
वियुज्यात्मसमाधिना
।
युयुजे
भगवद्धाम्नि
ब्रह्मण्यनुभवात्मनि
42
▾
Meaning
Keep
यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान्
पुरः
।
उपलभ्योपलब्धान्
प्राग्ववन्दे
शिरसा
द्विजः
43
▾
Meaning
Keep
हित्वा
कलेवरं
तीर्थे
गङ्गायां
दर्शनादनु
।
सद्यः
स्वरूपं
जगृहे
भगवत्पार्श्ववर्तिनाम्
44
▾
Meaning
Keep
साकं
विहायसा
विप्रो
महापुरुषकिङ्करैः
।
हैमं
विमानमारुह्य
ययौ
यत्र
श्रियः
पतिः
45
▾
Meaning
Keep
एवं
स
विप्लावितसर्वधर्मा
दास्याः
पतिः
पतितो
गर्ह्यकर्मणा
।
निपात्यमानो
निरये
हतव्रतः
सद्यो
विमुक्तो
भगवन्नाम
गृह्णन्
46
▾
Meaning
Keep
नातः
परं
कर्मनिबन्धकृन्तनं
मुमुक्षतां
तीर्थपदानुकीर्तनात्
।
न
यत्पुनः
कर्मसु
सज्जते
मनो
रजस्तमोभ्यां
कलिलं
ततोऽन्यथा
47
▾
Meaning
Keep
य
एवं
परमं
गुह्यमितिहासमघापहम्
।
शृणुयाच्छ्रद्धया
युक्तो
यश्च
भक्त्यानुकीर्तयेत्
48
▾
Meaning
Keep
न
वै
स
नरकं
याति
नेक्षितो
यमकिङ्करैः
।
यद्यप्यमङ्गलो
मर्त्यो
विष्णुलोके
महीयते
49
▾
Meaning
Keep
म्रियमाणो
हरेर्नाम
गृणन्
पुत्रोपचारितम्
।
अजामिलोऽप्यगाद्धाम
किं
पुनः
श्रद्धया
गृणन्
Previous
←
What Atonement Is Worth
Next
What Yama Told His Men
→