Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What Yama Told His Men
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निशम्य
देवः
स्वभटोपवर्णितं
प्रत्याह
किं
तान्प्रति
धर्मराजः
।
एवं
हताज्ञो
विहतान्मुरारेर्नैदेशिकैर्यस्य
वशे
जनोऽयम्
2
▾
Meaning
Keep
यमस्य
देवस्य
न
दण्डभङ्गः
कुतश्चनर्षे
श्रुतपूर्व
आसीत्
।
एतन्मुने
वृश्चति
लोकसंशयं
न
हि
त्वदन्य
इति
मे
विनिश्चितम्
3
▾
Meaning
Keep
भगवत्पुरुषै
राजन्
याम्याः
प्रतिहतोद्यमाः
।
पतिं
विज्ञापयामासुर्यमं
संयमनीपतिम्
4
▾
Meaning
Keep
कति
सन्तीह
शास्तारो
जीवलोकस्य
वै
प्रभो
।
त्रैविध्यं
कुर्वतः
कर्म
फलाभिव्यक्तिहेतवः
5
▾
Meaning
Keep
यदि
स्युर्बहवो
लोके
शास्तारो
दण्डधारिणः
।
कस्य
स्यातां
न
वा
कस्य
मृत्युश्चामृतमेव
वा
6
▾
Meaning
Keep
किन्तु
शास्तृबहुत्वे
स्याद्बहूनामिह
कर्मिणाम्
।
शास्तृत्वमुपचारो
हि
यथा
मण्डलवर्तिनाम्
7
▾
Meaning
Keep
अतस्त्वमेको
भूतानां
सेश्वराणामधीश्वरः
।
शास्ता
दण्डधरो
नॄणां
शुभाशुभविवेचनः
8
▾
Meaning
Keep
तस्य
ते
विहितो
दण्डो
न
लोके
वर्ततेऽधुना
।
चतुर्भिरद्भुतैः
सिद्धैराज्ञा
ते
विप्रलम्भिता
9
▾
Meaning
Keep
नीयमानं
तवादेशादस्माभिर्यातनागृहान्
।
व्यामोचयन्
पातकिनं
छित्त्वा
पाशान्
प्रसह्य
ते
10
▾
Meaning
Keep
तांस्ते
वेदितुमिच्छामो
यदि
नो
मन्यसे
क्षमम्
।
नारायणेत्यभिहिते
मा
भैरित्याययुर्द्रुतम्
11
▾
Meaning
Keep
इति
देवः
स
आपृष्टः
प्रजासंयमनो
यमः
।
प्रीतः
स्वदूतान्
प्रत्याह
स्मरन्
पादाम्बुजं
हरेः
12
▾
Meaning
Keep
परो
मदन्यो
जगतस्तस्थुषश्च
ओतं
प्रोतं
पटवद्यत्र
विश्वम्
।
यदंशतोऽस्य
स्थितिजन्मनाशा
नस्योतवद्यस्य
वशे
च
लोकः
13
▾
Meaning
Keep
यो
नामभिर्वाचि
जनं
निजायां
बध्नाति
तन्त्र्यामिव
दामभिर्गाः
।
यस्मै
बलिं
त
इमे
नामकर्म-
निबन्धबद्धाश्चकिता
वहन्ति
14
▾
Meaning
Keep
अहं
महेन्द्रो
निर्ऋतिः
प्रचेताः
सोमोऽग्निरीशः
पवनोऽर्को
विरिञ्चिः
।
आदित्यविश्वे
वसवोऽथ
साध्या
मरुद्गणा
रुद्रगणाः
ससिद्धाः
15
▾
Meaning
Keep
अन्ये
च
ये
विश्वसृजोऽमरेशा
भृग्वादयोऽस्पृष्टरजस्तमस्काः
।
यस्येहितं
न
विदुः
स्पृष्टमायाः
सत्त्वप्रधाना
अपि
किं
ततोऽन्ये
16
▾
Meaning
Keep
यं
वै
न
गोभिर्मनसासुभिर्वा
हृदा
गिरा
वासुभृतो
विचक्षते
।
आत्मानमन्तर्हृदि
सन्तमात्मनां
चक्षुर्यथैवाकृतयस्ततः
परम्
17
▾
Meaning
Keep
तस्यात्मतन्त्रस्य
हरेरधीशितुः
परस्य
मायाधिपतेर्महात्मनः
।
प्रायेण
दूता
इह
वै
मनोहरा-
श्चरन्ति
तद्रूपगुणस्वभावाः
18
▾
Meaning
Keep
भूतानि
विष्णोः
सुरपूजितानि
दुर्दर्शलिङ्गानि
महाद्भुतानि
।
रक्षन्ति
तद्भक्तिमतः
परेभ्यो
मत्तश्च
मर्त्यानथ
सर्वतश्च
19
▾
Meaning
Keep
धर्मं
तु
साक्षाद्भगवत्प्रणीतं
न
वै
विदुर्ऋषयो
नापि
देवाः
।
न
सिद्धमुख्या
असुरा
मनुष्याः
कुतश्च
विद्याधरचारणादयः
20
▾
Meaning
Keep
स्वयम्भूर्नारदः
शम्भुः
कुमारः
कपिलो
मनुः
।
प्रह्लादो
जनको
भीष्मो
बलिर्वैयासकिर्वयम्
21
▾
Meaning
Keep
द्वादशैते
विजानीमो
धर्मं
भागवतं
भटाः
।
गुह्यं
विशुद्धं
दुर्बोधं
यं
ज्ञात्वामृतमश्नुते
22
▾
Meaning
Keep
एतावानेव
लोकेऽस्मिन्
पुंसां
धर्मः
परः
स्मृतः
।
भक्तियोगो
भगवति
तन्नामग्रहणादिभिः
23
▾
Meaning
Keep
नामोच्चारणमाहात्म्यं
हरेः
पश्यत
पुत्रकाः
।
अजामिलोऽपि
येनैव
मृत्युपाशादमुच्यत
24
▾
Meaning
Keep
एतावतालमघनिर्हरणाय
पुंसां
सङ्कीर्तनं
भगवतो
गुणकर्मनाम्नाम्
।
विक्रुश्य
पुत्रमघवान्
यदजामिलोऽपि
नारायणेति
म्रियमाण
इयाय
मुक्तिम्
25
▾
Meaning
Keep
प्रायेण
वेद
तदिदं
न
महाजनोऽयं
देव्या
विमोहितमतिर्बत
माययालम्
।
त्रय्यां
जडीकृतमतिर्मधुपुष्पितायां
वैतानिके
महति
कर्मणि
युज्यमानः
26
▾
Meaning
Keep
एवं
विमृश्य
सुधियो
भगवत्यनन्ते
सर्वात्मना
विदधते
खलु
भावयोगम्
।
ते
मे
न
दण्डमर्हन्त्यथ
यद्यमीषां
स्यात्पातकं
तदपि
हन्त्युरुगायवादः
27
▾
Meaning
Keep
ते
देवसिद्धपरिगीतपवित्रगाथा
ये
साधवः
समदृशो
भगवत्प्रपन्नाः
।
तान्नोपसीदत
हरेर्गदयाभिगुप्तान्
नैषां
वयं
न
च
वयः
प्रभवाम
दण्डे
28
▾
Meaning
Keep
तानानयध्वमसतो
विमुखान्
मुकुन्दपादारविन्दमकरन्दरसादजस्रम्
।
निष्किञ्चनैः
परमहंसकुलै
रसज्ञैर्जुष्टाद्
गृहे
निरयवर्त्मनि
बद्धतृष्णान्
29
▾
Meaning
Keep
जिह्वा
न
वक्ति
भगवद्गुणनामधेयं
चेतश्च
न
स्मरति
तच्चरणारविन्दम्
।
कृष्णाय
नो
नमति
यच्छिर
एकदापि
तानानयध्वमसतोऽकृतविष्णुकृत्यान्
30
▾
Meaning
Keep
तत्क्षम्यतां
स
भगवान्
पुरुषः
पुराणो
नारायणः
स्वपुरुषैर्यदसत्कृतं
नः
।
स्वानामहो
न
विदुषां
रचिताञ्जलीनां
क्षान्तिर्गरीयसि
नमः
पुरुषाय
भूम्ने
31
▾
Meaning
Keep
तस्मात्
सङ्कीर्तनं
विष्णोर्जगन्मङ्गलमंहसाम्
।
महतामपि
कौरव्य
विद्ध्यैकान्तिकनिष्कृतम्
32
▾
Meaning
Keep
शृण्वतां
गृणतां
वीर्याण्युद्दामानि
हरेर्मुहुः
।
यथा
सुजातया
भक्त्या
शुद्ध्येन्नात्मा
व्रतादिभिः
33
▾
Meaning
Keep
कृष्णाङ्घ्रिपद्ममधुलिण्
न
पुनर्विसृष्ट-
मायागुणेषु
रमते
वृजिनावहेषु
।
अन्यस्तु
कामहत
आत्मरजः
प्रमार्ष्टु-
मीहेत
कर्म
यत
एव
रजः
पुनः
स्यात्
34
▾
Meaning
Keep
इत्थं
स्वभर्तृगदितं
भगवन्महित्वं
संस्मृत्य
विस्मितधियो
यमकिङ्करास्ते
।
नैवाच्युताश्रयजनं
प्रतिशङ्कमाना
द्रष्टुं
च
बिभ्यति
ततः
प्रभृति
स्म
राजन्
35
▾
Meaning
Keep
इतिहासमिमं
गुह्यं
भगवान्
कुम्भसम्भवः
।
कथयामास
मलय
आसीनो
हरिमर्चयन्
Previous
←
The Name That Freed Ajamila
Next
Daksa's Hymn at the Ford
→