Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Daksa's Hymn at the Ford
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
देवासुरनृणां
सर्गो
नागानां
मृगपक्षिणाम्
।
सामासिकस्त्वया
प्रोक्तो
यस्तु
स्वायम्भुवेऽन्तरे
2
▾
Meaning
Keep
तस्यैव
व्यासमिच्छामि
ज्ञातुं
ते
भगवन्
यथा
।
अनुसर्गं
यया
शक्त्या
ससर्ज
भगवान्
परः
3
▾
Meaning
Keep
इति
सम्प्रश्नमाकर्ण्य
राजर्षेर्बादरायणिः
।
प्रतिनन्द्य
महायोगी
जगाद
मुनिसत्तमाः
4
▾
Meaning
Keep
यदा
प्रचेतसः
पुत्रा
दश
प्राचीनबर्हिषः
।
अन्तःसमुद्रादुन्मग्ना
ददृशुर्गां
द्रुमैर्वृताम्
5
▾
Meaning
Keep
द्रुमेभ्यः
क्रुध्यमानास्ते
तपोदीपितमन्यवः
।
मुखतो
वायुमग्निं
च
ससृजुस्तद्दिधक्षया
6
▾
Meaning
Keep
ताभ्यां
निर्दह्यमानांस्तानुपलभ्य
कुरूद्वह
।
राजोवाच
महान्
सोमो
मन्युं
प्रशमयन्निव
7
▾
Meaning
Keep
न
द्रुमेभ्यो
महाभागा
दीनेभ्यो
द्रोग्धुमर्हथ
।
विवर्धयिषवो
यूयं
प्रजानां
पतयः
स्मृताः
8
▾
Meaning
Keep
अहो
प्रजापतिपतिर्भगवान्
हरिरव्ययः
।
वनस्पतीनोषधीश्च
ससर्जोर्जमिषं
विभुः
9
▾
Meaning
Keep
अन्नं
चराणामचरा
ह्यपदः
पादचारिणाम्
।
अहस्ता
हस्तयुक्तानां
द्विपदां
च
चतुष्पदः
10
▾
Meaning
Keep
यूयं
च
पित्रान्वादिष्टा
देवदेवेन
चानघाः
।
प्रजासर्गाय
हि
कथं
वृक्षान्
निर्दग्धुमर्हथ
11
▾
Meaning
Keep
आतिष्ठत
सतां
मार्गं
कोपं
यच्छत
दीपितम्
।
पित्रा
पितामहेनापि
जुष्टं
वः
प्रपितामहैः
12
▾
Meaning
Keep
तोकानां
पितरौ
बन्धू
दृशः
पक्ष्म
स्त्रियाः
पतिः
।
पतिः
प्रजानां
भिक्षूणां
गृह्यज्ञानां
बुधः
सुहृत्
13
▾
Meaning
Keep
अन्तर्देहेषु
भूतानामात्माऽऽस्ते
हरिरीश्वरः
।
सर्वं
तद्धिष्ण्यमीक्षध्वमेवं
वस्तोषितो
ह्यसौ
14
▾
Meaning
Keep
यः
समुत्पतितं
देह
आकाशान्मन्युमुल्बणम्
।
आत्मजिज्ञासया
यच्छेत्स
गुणानतिवर्तते
15
▾
Meaning
Keep
अलं
दग्धैर्द्रुमैर्दीनैः
खिलानां
शिवमस्तु
वः
।
वार्क्षी
ह्येषा
वरा
कन्या
पत्नीत्वे
प्रतिगृह्यताम्
16
▾
Meaning
Keep
इत्यामन्त्र्य
वरारोहां
कन्यामाप्सरसीं
नृप
।
सोमो
राजा
ययौ
दत्त्वा
ते
धर्मेणोपयेमिरे
17
▾
Meaning
Keep
तेभ्यस्तस्यां
समभवद्दक्षः
प्राचेतसः
किल
।
यस्य
प्रजाविसर्गेण
लोका
आपूरितास्त्रयः
18
▾
Meaning
Keep
यथा
ससर्ज
भूतानि
दक्षो
दुहितृवत्सलः
।
रेतसा
मनसा
चैव
तन्ममावहितः
शृणु
19
▾
Meaning
Keep
मनसैवासृजत्पूर्वं
प्रजापतिरिमाः
प्रजाः
।
देवासुरमनुष्यादीन्
नभःस्थलजलौकसः
20
▾
Meaning
Keep
तमबृंहितमालोक्य
प्रजासर्गं
प्रजापतिः
।
विन्ध्यपादानुपव्रज्य
सोऽचरद्दुष्करं
तपः
21
▾
Meaning
Keep
तत्राघमर्षणं
नाम
तीर्थं
पापहरं
परम्
।
उपस्पृश्यानुसवनं
तपसातोषयद्धरिम्
22
▾
Meaning
Keep
अस्तौषीद्धंसगुह्येन
भगवन्तमधोक्षजम्
।
तुभ्यं
तदभिधास्यामि
कस्यातुष्यद्यथा
हरिः
23
▾
Meaning
Keep
नमः
परायावितथानुभूतये
गुणत्रयाभासनिमित्तबन्धवे
।
अदृष्टधाम्ने
गुणतत्त्वबुद्धिभि-
र्निवृत्तमानाय
दधे
स्वयम्भुवे
24
▾
Meaning
Keep
न
यस्य
सख्यं
पुरुषोऽवैति
सख्युः
सखा
वसन्
संवसतः
पुरेऽस्मिन्
।
गुणो
यथा
गुणिनो
व्यक्तदृष्टे-
स्तस्मै
महेशाय
नमस्करोमि
25
▾
Meaning
Keep
देहोऽसवोऽक्षा
मनवो
भूतमात्रा-
मात्मानमन्यं
च
विदुः
परं
यत्
।
सर्वं
पुमान्
वेद
गुणांश्च
तज्ज्ञो
न
वेद
सर्वज्ञमनन्तमीडे
26
▾
Meaning
Keep
यदोपरामो
मनसो
नामरूप-
रूपस्य
दृष्टस्मृतिसम्प्रमोषात्
।
य
ईयते
केवलया
स्वसंस्थया
हंसाय
तस्मै
शुचिसद्मने
नमः
27
▾
Meaning
Keep
मनीषिणोऽन्तर्हृदि
सन्निवेशितं
स्वशक्तिभिर्नवभिश्च
त्रिवृद्भिः
।
वह्निं
यथा
दारुणि
पाञ्चदश्यं
मनीषया
निष्कर्षन्ति
गूढम्
28
▾
Meaning
Keep
स
वै
ममाशेषविशेषमाया-
निषेधनिर्वाणसुखानुभूतिः
।
स
सर्वनामा
स
च
विश्वरूपः
प्रसीदतामनिरुक्तात्मशक्तिः
29
▾
Meaning
Keep
यद्य
न्निरुक्तं
वचसा
निरूपितं
धियाक्षभिर्वा
मनसावोत
यस्य
।
मा
भूत्
स्वरूपं
गुणरूपं
हि
तत्तत्
स
वै
गुणापायविसर्गलक्षणः
30
▾
Meaning
Keep
यस्मिन्
यतो
येन
च
यस्य
यस्मै
यद्यो
यथा
कुरुते
कार्यते
च
।
परावरेषां
परमं
प्राक्प्रसिद्धं
तद्ब्रह्म
तद्धेतुरनन्यदेकम्
31
▾
Meaning
Keep
यच्छक्तयो
वदतां
वादिनां
वै
विवादसंवादभुवो
भवन्ति
।
कुर्वन्ति
चैषां
मुहुरात्ममोहं
तस्मै
नमोऽनन्तगुणाय
भूम्ने
32
▾
Meaning
Keep
अस्तीति
नास्तीति
च
वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मयोः
।
अवेक्षितं
किञ्चन
योगसांख्ययोः
समं
परं
ह्यनुकूलं
बृहत्
तत्
33
▾
Meaning
Keep
योऽनुग्रहार्थं
भजतां
पादमूल-
मनामरूपो
भगवाननन्तः
।
नामानि
रूपाणि
च
जन्मकर्मभि-
र्भेजे
स
मह्यं
परमः
प्रसीदतु
34
▾
Meaning
Keep
यः
प्राकृतैर्ज्ञानपथैर्जनानां
यथाशयं
देहगतो
विभाति
।
यथानिलः
पार्थिवमाश्रितो
गुणं
स
ईश्वरो
मे
कुरुतान्मनोरथम्
35
▾
Meaning
Keep
इति
स्तुतः
संस्तुवतः
स
तस्मिन्नघमर्षणे
।
आविरासीत्कुरुश्रेष्ठ
भगवान्
भक्तवत्सलः
36
▾
Meaning
Keep
कृतपादः
सुपर्णांसे
प्रलम्बाष्टमहाभुजः
।
चक्रशङ्खासिचर्मेषु
धनुःपाशगदाधरः
37
▾
Meaning
Keep
पीतवासा
घनश्यामः
प्रसन्नवदनेक्षणः
।
वनमालानिवीताङ्गो
लसच्छ्रीवत्सकौस्तुभः
38
▾
Meaning
Keep
महाकिरीटकटकः
स्फुरन्मकरकुण्डलः
।
काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषितः
39
▾
Meaning
Keep
त्रैलोक्यमोहनं
रूपं
बिभ्रत्त्रिभुवनेश्वरः
।
वृतो
नारदनन्दाद्यैः
पार्षदैः
सुरयूथपैः
40
▾
Meaning
Keep
स्तूयमानोऽनुगायद्भिः
सिद्धगन्धर्वचारणैः
।
रूपं
तन्महदाश्चर्यं
विचक्ष्यागतसाध्वसः
41
▾
Meaning
Keep
ननाम
दण्डवद्भूमौ
प्रहृष्टात्मा
प्रजापतिः
।
न
किञ्चनोदीरयितुमशकत्तीव्रया
मुदा
।
आपूरितमनोद्वारैर्ह्रदिन्य
इव
निर्झरैः
42
▾
Meaning
Keep
तं
तथावनतं
भक्तं
प्रजाकामं
प्रजापतिम्
।
चित्तज्ञः
सर्वभूतानामिदमाह
जनार्दनः
43
▾
Meaning
Keep
श्रीभगवानुवाच ।
प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।
यच्छ्रद्धया मत्परया मयि भावं परं गतः
44
▾
Meaning
Keep
प्रीतोऽहं
ते
प्रजानाथ
यत्तेऽस्योद्बृंहणं
तपः
।
ममैष
कामो
भूतानां
यद्भूयासुर्विभूतयः
45
▾
Meaning
Keep
ब्रह्मा
भवो
भवन्तश्च
मनवो
विबुधेश्वराः
।
विभूतयो
मम
ह्येता
भूतानां
भूतिहेतवः
46
▾
Meaning
Keep
तपो
मे
हृदयं
ब्रह्मंस्तनुर्विद्या
क्रियाऽऽकृतिः
।
अङ्गानि
क्रतवो
जाता
धर्म
आत्मासवः
सुराः
47
▾
Meaning
Keep
अहमेवासमेवाग्रे
नान्यत्किञ्चान्तरं
बहिः
।
संज्ञानमात्रमव्यक्तं
प्रसुप्तमिव
विश्वतः
48
▾
Meaning
Keep
मय्यनन्तगुणेऽनन्ते
गुणतो
गुणविग्रहः
।
यदाऽऽसीत्तत
एवाद्यः
स्वयम्भूः
समभूदजः
49
▾
Meaning
Keep
स
वै
यदा
महादेवो
मम
वीर्योपबृंहितः
।
मेने
खिलमिवात्मानमुद्यतः
स्वर्गकर्मणि
50
▾
Meaning
Keep
अथ
मेऽभिहितो
देवस्तपोऽतप्यत
दारुणम्
।
नव
विश्वसृजो
युष्मान्
येनादावसृजद्विभुः
51
▾
Meaning
Keep
एषा
पञ्चजनस्याङ्ग
दुहिता
वै
प्रजापतेः
।
असिक्नी
नाम
पत्नीत्वे
प्रजेश
प्रतिगृह्यताम्
52
▾
Meaning
Keep
मिथुनव्यवायधर्मस्त्वं
प्रजासर्गमिमं
पुनः
।
मिथुनव्यवायधर्मिण्यां
भूरिशो
भावयिष्यसि
53
▾
Meaning
Keep
त्वत्तोऽधस्तात्प्रजाः
सर्वा
मिथुनीभूय
मायया
।
मदीयया
भविष्यन्ति
हरिष्यन्ति
च
मे
बलिम्
54
▾
Meaning
Keep
इत्युक्त्वा
मिषतस्तस्य
भगवान्
विश्वभावनः
।
स्वप्नोपलब्धार्थ
इव
तत्रैवान्तर्दधे
हरिः
Previous
←
What Yama Told His Men
Next
Narada and Daksa's Sons
→