Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Indra Slights His Teacher
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कस्य
हेतोः
परित्यक्ता
आचार्येणात्मनः
सुराः
।
एतदाचक्ष्व
भगवञ्छिष्याणामक्रमं
गुरौ
2
▾
Meaning
Keep
इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः
।
मरुद्भिर्वसुभी
रुद्रैरादित्यैरृभुभिर्नृप
3
▾
Meaning
Keep
विश्वेदेवैश्च
साध्यैश्च
नासत्याभ्यां
परिश्रितः
।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः
4
▾
Meaning
Keep
विद्याधराप्सरोभिश्च
किन्नरैः
पतगोरगैः
।
निषेव्यमाणो
मघवान्
स्तूयमानश्च
भारत
5
▾
Meaning
Keep
उपगीयमानो
ललितमास्थानाध्यासनाश्रितः
।
पाण्डुरेणातपत्रेण
चन्द्रमण्डलचारुणा
6
▾
Meaning
Keep
युक्तश्चान्यैः
पारमेष्ठ्यैश्चामरव्यजनादिभिः
।
विराजमानः
पौलोम्या
सहार्धासनया
भृशम्
7
▾
Meaning
Keep
स
यदा
परमाचार्यं
देवानामात्मनश्च
ह
।
नाभ्यनन्दत
सम्प्राप्तं
प्रत्युत्थानासनादिभिः
8
▾
Meaning
Keep
वाचस्पतिं
मुनिवरं
सुरासुरनमस्कृतम्
।
नोच्चचालासनादिन्द्रः
पश्यन्नपि
सभागतम्
9
▾
Meaning
Keep
ततो
निर्गत्य
सहसा
कविराङ्गिरसः
प्रभुः
।
आययौ
स्वगृहं
तूष्णीं
विद्वान्
श्रीमदविक्रियाम्
10
▾
Meaning
Keep
तर्ह्येव
प्रतिबुद्ध्येन्द्रो
गुरुहेलनमात्मनः
।
गर्हयामास
सदसि
स्वयमात्मानमात्मना
11
▾
Meaning
Keep
अहो
बत
मयासाधु
कृतं
वै
दभ्रबुद्धिना
।
यन्मयैश्वर्यमत्तेन
गुरुः
सदसि
कात्कृतः
12
▾
Meaning
Keep
को
गृध्येत्पण्डितो
लक्ष्मीं
त्रिपिष्टपपतेरपि
।
ययाहमासुरं
भावं
नीतोऽद्य
विबुधेश्वरः
13
▾
Meaning
Keep
यः
पारमेष्ठ्यं
धिषणमधितिष्ठन्न
कञ्चन
।
प्रत्युत्तिष्ठेदिति
ब्रूयुर्धर्मं
ते
न
परं
विदुः
14
▾
Meaning
Keep
तेषां
कुपथदेष्टॄणां
पततां
तमसि
ह्यधः
।
ये
श्रद्दध्युर्वचस्ते
वै
मज्जन्त्यश्मप्लवा
इव
15
▾
Meaning
Keep
अथाहममराचार्यमगाधधिषणं
द्विजम्
।
प्रसादयिष्ये
निशठः
शीर्ष्णा
तच्चरणं
स्पृशन्
16
▾
Meaning
Keep
एवं
चिन्तयतस्तस्य
मघोनो
भगवान्
गृहात्
।
बृहस्पतिर्गतोऽदृष्टां
गतिमध्यात्ममायया
17
▾
Meaning
Keep
गुरोर्नाधिगतः
संज्ञां
परीक्षन्
भगवान्
स्वराट्
।
ध्यायन्
धिया
सुरैर्युक्तः
शर्म
नालभतात्मनः
18
▾
Meaning
Keep
तच्छ्रुत्वैवासुराः
सर्व
आश्रित्यौशनसं
मतम्
।
देवान्
प्रत्युद्यमं
चक्रुर्दुर्मदा
आततायिनः
19
▾
Meaning
Keep
तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः
।
ब्रह्माणं
शरणं
जग्मुः
सहेन्द्रा
नतकन्धराः
20
▾
Meaning
Keep
तांस्तथाभ्यर्दितान्
वीक्ष्य
भगवानात्मभूरजः
।
कृपया
परया
देव
उवाच
परिसान्त्वयन्
21
▾
Meaning
Keep
अहो
बत
सुरश्रेष्ठा
ह्यभद्रं
वः
कृतं
महत्
।
ब्रह्मिष्ठं
ब्राह्मणं
दान्तमैश्वर्यान्नाभ्यनन्दत
22
▾
Meaning
Keep
तस्यायमनयस्यासीत्परेभ्यो
वः
पराभवः
।
प्रक्षीणेभ्यः
स्ववैरिभ्यः
समृद्धानां
च
यत्सुराः
23
▾
Meaning
Keep
मघवन्
द्विषतः
पश्य
प्रक्षीणान्
गुर्वतिक्रमात्
।
सम्प्रत्युपचितान्
भूयः
काव्यमाराध्य
भक्तितः
।
आददीरन्
निलयनं
ममापि
भृगुदेवताः
24
▾
Meaning
Keep
त्रिविष्टपं
किं
गणयन्त्यभेद्य
मन्त्रा
भृगूणामनुशिक्षितार्थाः
।
न
विप्रगोविन्दगवीश्वराणां
भवन्त्यभद्राणि
नरेश्वराणाम्
25
▾
Meaning
Keep
तद्विश्वरूपं
भजताशु
विप्रं
तपस्विनं
त्वाष्ट्रमथात्मवन्तम्
।
सभाजितोऽर्थान्
स
विधास्यते
वो
यदि
क्षमिष्यध्वमुतास्य
कर्म
26
▾
Meaning
Keep
त
एवमुदिता
राजन्
ब्रह्मणा
विगतज्वराः
।
ऋषिं
त्वाष्ट्रमुपव्रज्य
परिष्वज्येदमब्रुवन्
27
▾
Meaning
Keep
वयं
तेऽतिथयः
प्राप्ता
आश्रमं
भद्रमस्तु
ते
।
कामः
सम्पाद्यतां
तात
पितॄणां
समयोचितः
28
▾
Meaning
Keep
पुत्राणां
हि
परो
धर्मः
पितृशुश्रूषणं
सताम्
।
अपि
पुत्रवतां
ब्रह्मन्
किमुत
ब्रह्मचारिणाम्
29
▾
Meaning
Keep
आचार्यो
ब्रह्मणो
मूर्तिः
पिता
मूर्तिः
प्रजापतेः
।
भ्राता
मरुत्पतेर्मूर्तिर्माता
साक्षात्क्षितेस्तनुः
30
▾
Meaning
Keep
दयाया
भगिनी
मूर्तिर्धर्मस्यात्मातिथिः
स्वयम्
।
अग्नेरभ्यागतो
मूर्तिः
सर्वभूतानि
चात्मनः
31
▾
Meaning
Keep
तस्मात्पितॄणामार्तानामार्तिं
परपराभवम्
।
तपसापनयंस्तात
सन्देशं
कर्तुमर्हसि
32
▾
Meaning
Keep
वृणीमहे
त्वोपाध्यायं
ब्रह्मिष्ठं
ब्राह्मणं
गुरुम्
।
यथाञ्जसा
विजेष्यामः
सपत्नांस्तव
तेजसा
33
▾
Meaning
Keep
न
गर्हयन्ति
ह्यर्थेषु
यविष्ठाङ्घ्र्यभिवादनम्
।
छन्दोभ्योऽन्यत्र
न
ब्रह्मन्
वयो
ज्यैष्ठ्यस्य
कारणम्
34
▾
Meaning
Keep
अभ्यर्थितः
सुरगणैः
पौरहित्ये
महातपाः
।
स
विश्वरूपस्तानाह
प्रसन्नः
श्लक्ष्णया
गिरा
35
▾
Meaning
Keep
विगर्हितं
धर्मशीलैर्ब्रह्मवर्च
उपव्ययम्
।
कथं
नु
मद्विधो
नाथा
लोकेशैरभियाचितम्
।
प्रत्याख्यास्यति
तच्छिष्यः
स
एव
स्वार्थ
उच्यते
36
▾
Meaning
Keep
अकिञ्चनानां
हि
धनं
शिलोञ्छनं
तेनेह
निर्वर्तितसाधुसत्क्रियः
।
कथं
विगर्ह्यं
नु
करोम्यधीश्वराः
पौरोधसं
हृष्यति
येन
दुर्मतिः
37
▾
Meaning
Keep
तथापि
न
प्रतिब्रूयां
गुरुभिः
प्रार्थितं
कियत्
।
भवतां
प्रार्थितं
सर्वं
प्राणैरर्थैश्च
साधये
38
▾
Meaning
Keep
तेभ्य
एवं
प्रतिश्रुत्य
विश्वरूपो
महातपाः
।
पौरोहित्यं
वृतश्चक्रे
परमेण
समाधिना
39
▾
Meaning
Keep
सुरद्विषां
श्रियं
गुप्तामौशनस्यापि
विद्यया
।
आच्छिद्यादान्महेन्द्राय
वैष्णव्या
विद्यया
विभुः
40
▾
Meaning
Keep
यया
गुप्तः
सहस्राक्षो
जिग्येऽसुरचमूर्विभुः
।
तां
प्राह
स
महेन्द्राय
विश्वरूप
उदारधीः
Previous
←
The Daughters of Daksa
Next
The Armour of Narayana
→