Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Indra and the Killing of a Brahmin
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
वृत्रे
हते
त्रयो
लोका
विना
शक्रेण
भूरिद
।
सपाला
ह्यभवन्
सद्यो
विज्वरा
निर्वृतेन्द्रियाः
2
▾
Meaning
Keep
देवर्षिपितृभूतानि
दैत्या
देवानुगाः
स्वयम्
।
प्रतिजग्मुः
स्वधिष्ण्यानि
ब्रह्मेशेन्द्रादयस्ततः
3
▾
Meaning
Keep
इन्द्रस्यानिर्वृतेर्हेतुं
श्रोतुमिच्छामि
भो
मुने
।
येनासन्
सुखिनो
देवा
हरेर्दुःखं
कुतोऽभवत्
4
▾
Meaning
Keep
वृत्रविक्रमसंविग्नाः
सर्वे
देवाः
सहर्षिभिः
।
तद्वधायार्थयन्निन्द्रं
नैच्छद्भीतो
बृहद्वधात्
5
▾
Meaning
Keep
स्त्रीभूजलद्रुरेमैनो
विश्वरूपवधोद्भवम्
।
विभक्तमनुगृह्णद्भिर्वृत्रहत्यां
क्व
मार्ज्म्यहम्
6
▾
Meaning
Keep
ऋषयस्तदुपाकर्ण्य
महेन्द्रमिदमब्रुवन्
।
याजयिष्याम
भद्रं
ते
हयमेधेन
मा
स्म
भैः
7
▾
Meaning
Keep
हयमेधेन
पुरुषं
परमात्मानमीश्वरम्
।
इष्ट्वा
नारायणं
देवं
मोक्ष्यसेऽपि
जगद्वधात्
8
▾
Meaning
Keep
ब्रह्महा
पितृहा
गोघ्नो
मातृहाचार्यहाघवान्
।
श्वादः
पुल्कसको
वापि
शुद्ध्येरन्यस्य
कीर्तनात्
9
▾
Meaning
Keep
तमश्वमेधेन
महामखेन
श्रद्धान्वितोऽस्माभिरनुष्ठितेन
।
हत्वापि
सब्रह्मचराचरं
त्वं
न
लिप्यसे
किं
खलनिग्रहेण
10
▾
Meaning
Keep
एवं
सञ्चोदितो
विप्रैर्मरुत्वानहनद्रिपुम्
।
ब्रह्महत्या
हते
तस्मिन्नाससाद
वृषाकपिम्
11
▾
Meaning
Keep
तयेन्द्रः
स्मासहत्तापं
निर्वृतिर्नामुमाविशत्
।
ह्रीमन्तं
वाच्यतां
प्राप्तं
सुखयन्त्यपि
नो
गुणाः
12
▾
Meaning
Keep
तां
ददर्शानुधावन्तीं
चाण्डालीमिव
रूपिणीम्
।
जरया
वेपमानाङ्गीं
यक्ष्मग्रस्तामसृक्पटाम्
13
▾
Meaning
Keep
विकीर्य
पलितान्
केशांस्तिष्ठ
तिष्ठेति
भाषिणीम्
।
मीनगन्ध्यसुगन्धेन
कुर्वतीं
मार्गदूषणम्
14
▾
Meaning
Keep
नभो
गतो
दिशः
सर्वाः
सहस्राक्षो
विशाम्पते
।
प्रागुदीचीं
दिशं
तूर्णं
प्रविष्टो
नृप
मानसम्
15
▾
Meaning
Keep
स
आवसत्पुष्करनालतन्तू-
नलब्धभोगो
यदिहाग्निदूतः
।
वर्षाणि
साहस्रमलक्षितोऽन्तः
सञ्चिन्तयन्
ब्रह्मवधाद्विमोक्षम्
16
▾
Meaning
Keep
तावत्त्रिणाकं
नहुषः
शशास
विद्यातपोयोगबलानुभावः
।
स
सम्पदैश्वर्यमदान्धबुद्धि-
र्नीतस्तिरश्चां
गतिमिन्द्रपत्न्या
17
▾
Meaning
Keep
ततो
गतो
ब्रह्मगिरोपहूत
ऋतम्भरध्याननिवारिताघः
।
पापस्तु
दिग्देवतया
हतौजा-
स्तं
नाभ्यभूदवितं
विष्णुपत्न्या
18
▾
Meaning
Keep
तं
च
ब्रह्मर्षयोऽभ्येत्य
हयमेधेन
भारत
।
यथावद्
दीक्षयां
चक्रुः
पुरुषाराधनेन
ह
19
▾
Meaning
Keep
अथेज्यमाने
पुरुषे
सर्वदेवमयात्मनि
।
अश्वमेधे
महेन्द्रेण
वितते
ब्रह्मवादिभिः
20
▾
Meaning
Keep
स
वै
त्वाष्ट्रवधो
भूयानपि
पापचयो
नृप
।
नीतस्तेनैव
शून्याय
नीहार
इव
भानुना
21
▾
Meaning
Keep
स
वाजिमेधेन
यथोदितेन
वितायमानेन
मरीचिमिश्रैः
।
इष्ट्वाधियज्ञं
पुरुषं
पुराण-
मिन्द्रो
महानास
विधूतपापः
22
▾
Meaning
Keep
इदं
महाख्यानमशेषपाप्मनां
प्रक्षालनं
तीर्थपदानुकीर्तनम्
।
भक्त्युच्छ्रयं
भक्तजनानुवर्णनं
महेन्द्रमोक्षं
विजयं
मरुत्वतः
23
▾
Meaning
Keep
पठेयुराख्यानमिदं
सदा
बुधाः
शृण्वन्त्यथो
पर्वणि
पर्वणीन्द्रियम्
।
धन्यं
यशस्यं
निखिलाघमोचनं
रिपुञ्जयं
स्वस्त्ययनं
तथाऽऽयुषम्
Previous
←
The Death of Vrtra
Next
The Son Given to Citraketu
→