Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Dead Boy Speaks, and Citraketu Sees Sesa
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
देवऋषी
राजन्
सम्परेतं
नृपात्मजम्
।
दर्शयित्वेति
होवाच
ज्ञातीनामनुशोचताम्
2
▾
Meaning
Keep
जीवात्मन्
पश्य
भद्रं
ते
मातरं
पितरं
च
ते
।
सुहृदो
बान्धवास्तप्ताः
शुचा
त्वत्कृतया
भृशम्
3
▾
Meaning
Keep
कलेवरं
स्वमाविश्य
शेषमायुः
सुहृद्वृतः
।
भुङ्क्ष्व
भोगान्
पितृप्रत्तानधितिष्ठ
नृपासनम्
4
▾
Meaning
Keep
कस्मिन्
जन्मन्यमी
मह्यं
पितरो
मातरोऽभवन्
।
कर्मभिर्भ्राम्यमाणस्य
देवतिर्यङ्नृयोनिषु
5
▾
Meaning
Keep
बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः
।
सर्व
एव
हि
सर्वेषां
भवन्ति
क्रमशो
मिथः
6
▾
Meaning
Keep
यथा
वस्तूनि
पण्यानि
हेमादीनि
ततस्ततः
।
पर्यटन्ति
नरेष्वेवं
जीवो
योनिषु
कर्तृषु
7
▾
Meaning
Keep
नित्यस्यार्थस्य
सम्बन्धो
ह्यनित्यो
दृश्यते
नृषु
।
यावद्यस्य
हि
सम्बन्धो
ममत्वं
तावदेव
हि
8
▾
Meaning
Keep
एवं
योनिगतो
जीवः
स
नित्यो
निरहङ्कृतः
।
यावद्यत्रोपलभ्येत
तावत्स्वत्वं
हि
तस्य
तत्
9
▾
Meaning
Keep
एष
नित्योऽव्ययः
सूक्ष्म
एष
सर्वाश्रयः
स्वदृक्
।
आत्ममायागुणैर्विश्वमात्मानं
सृजति
प्रभुः
10
▾
Meaning
Keep
न
ह्यस्यातिप्रियः
कश्चिन्
नाप्रियः
स्वः
परोऽपि
वा
।
एकः
सर्वधियां
द्रष्टा
कर्तॄणां
गुणदोषयोः
11
▾
Meaning
Keep
नादत्त
आत्मा
हि
गुणं
न
दोषं
न
क्रियाफलम्
।
उदासीनवदासीनः
परावरदृगीश्वरः
12
▾
Meaning
Keep
इत्युदीर्य
गतो
जीवो
ज्ञातयस्तस्य
ते
तदा
।
विस्मिता
मुमुचुः
शोकं
छित्त्वात्मस्नेहशृङ्खलाम्
13
▾
Meaning
Keep
निर्हृत्य
ज्ञातयो
ज्ञातेर्देहं
कृत्वोचिताः
क्रियाः
।
तत्यजुर्दुस्त्यजं
स्नेहं
शोकमोहभयार्तिदम्
14
▾
Meaning
Keep
बालघ्न्यो
व्रीडितास्तत्र
बालहत्याहतप्रभाः
।
बालहत्याव्रतं
चेरुर्ब्राह्मणैर्यन्निरूपितम्
।
यमुनायां
महाराज
स्मरन्त्यो
द्विजभाषितम्
15
▾
Meaning
Keep
स
इत्थं
प्रतिबुद्धात्मा
चित्रकेतुर्द्विजोक्तिभिः
।
गृहान्धकूपान्निष्क्रान्तः
सरःपङ्कादिव
द्विपः
16
▾
Meaning
Keep
कालिन्द्यां
विधिवत्स्नात्वा
कृतपुण्यजलक्रियः
।
मौनेन
संयतप्राणो
ब्रह्मपुत्राववन्दत
17
▾
Meaning
Keep
अथ
तस्मै
प्रपन्नाय
भक्ताय
प्रयतात्मने
।
भगवान्नारदः
प्रीतो
विद्यामेतामुवाच
ह
18
▾
Meaning
Keep
ॐ
नमस्तुभ्यं
भगवते
वासुदेवाय
धीमहि
।
प्रद्युम्नायानिरुद्धाय
नमः
सङ्कर्षणाय
च
19
▾
Meaning
Keep
नमो
विज्ञानमात्राय
परमानन्दमूर्तये
।
आत्मारामाय
शान्ताय
निवृत्तद्वैतदृष्टये
20
▾
Meaning
Keep
आत्मानन्दानुभूत्यैव
न्यस्तशक्त्यूर्मये
नमः
।
हृषीकेशाय
महते
नमस्ते
विश्वमूर्तये
21
▾
Meaning
Keep
वचस्युपरतेऽप्राप्य
य
एको
मनसा
सह
।
अनामरूपश्चिन्मात्रः
सोऽव्यान्नः
सदसत्परः
22
▾
Meaning
Keep
यस्मिन्निदं
यतश्चेदं
तिष्ठत्यप्येति
जायते
।
मृण्मयेष्विव
मृज्जातिस्तस्मै
ते
ब्रह्मणे
नमः
23
▾
Meaning
Keep
यन्न
स्पृशन्ति
न
विदुर्मनोबुद्धीन्द्रियासवः
।
अन्तर्बहिश्च
विततं
व्योमवत्तन्नतोऽस्म्यहम्
24
▾
Meaning
Keep
देहेन्द्रियप्राणमनोधियोऽमी
यदंशविद्धाः
प्रचरन्ति
कर्मसु
।
नैवान्यदा
लौहमिवाप्रतप्तं
स्थानेषु
तद्
द्रष्ट्रपदेशमेति
25
▾
Meaning
Keep
ओं
नमो
भगवते
महापुरुषाय
महानुभावाय
महाविभूतिपतये
सकलसात्वतपरिवृढ-
निकरकरकमलकुड्मलोपलालितचरणा-
रविन्दयुगल
परम
परमेष्ठिन्
नमस्ते
26
▾
Meaning
Keep
भक्तायैतां
प्रपन्नाय
विद्यामादिश्य
नारदः
।
ययावङ्गिरसा
साकं
धाम
स्वायम्भुवं
प्रभो
27
▾
Meaning
Keep
चित्रकेतुस्तु
तां
विद्यां
यथा
नारदभाषिताम्
।
धारयामास
सप्ताहमब्भक्षः
सुसमाहितः
28
▾
Meaning
Keep
ततः
स
सप्तरात्रान्ते
विद्यया
धार्यमाणया
।
विद्याधराधिपत्यं
च
लेभेऽप्रतिहतं
नृप
29
▾
Meaning
Keep
ततः
कतिपयाहोभिर्विद्ययेद्धमनोगतिः
।
जगाम
देवदेवस्य
शेषस्य
चरणान्तिकम्
30
▾
Meaning
Keep
मृणालगौरं
शितिवाससं
स्फुर-
त्किरीटकेयूरकटित्रकङ्कणम्
।
प्रसन्नवक्त्रारुणलोचनं
वृतं
ददर्श
सिद्धेश्वरमण्डलैः
प्रभुम्
31
▾
Meaning
Keep
तद्दर्शनध्वस्तसमस्तकिल्बिषः
स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः
।
प्रवृद्धभक्त्या
प्रणयाश्रुलोचनः
प्रहृष्टरोमानमदादिपूरुषम्
32
▾
Meaning
Keep
स
उत्तमश्लोकपदाब्जविष्टरं
प्रेमाश्रुलेशैरुपमेहयन्
मुहुः
।
प्रेमोपरुद्धाखिलवर्णनिर्गमो
नैवाशकत्तं
प्रसमीडितुं
चिरम्
33
▾
Meaning
Keep
ततः
समाधाय
मनो
मनीषया
बभाष
एतत्प्रतिलब्धवागसौ
।
नियम्य
सर्वेन्द्रियबाह्यवर्तनं
जगद्गुरुं
सात्वतशास्त्रविग्रहम्
34
▾
Meaning
Keep
अजित
जितः
सममतिभिः
साधुभि-
र्भवान्
जितात्मभिर्भवता
।
विजितास्तेऽपि
च
भजतामकामात्मनां
य
आत्मदोऽतिकरुणः
35
▾
Meaning
Keep
तव
विभवः
खलु
भगवन्
।
जगदुदयस्थितिलयादीनि
।
विश्वसृजस्तेंऽशांशास्तत्र
।
मृषा
स्पर्धन्ति
पृथगभिमत्या
36
▾
Meaning
Keep
परमाणुपरममहतोस्त्व-
माद्यन्तान्तरवर्ती
त्रयविधुरः
।
आदावन्तेऽपि
च
सत्त्वानां
यद्ध्रुवं
तदेवान्तरालेऽपि
37
▾
Meaning
Keep
क्षित्यादिभिरेष
किलावृतः
सप्तभिर्दशगुणोत्तरैरण्डकोशः
।
यत्र
पतत्यणुकल्पः
सहाण्डकोटिकोटिभिस्तदनन्तः
38
▾
Meaning
Keep
विषयतृषो
नरपशवो
य
उपासते
विभूतीर्न
परं
त्वाम्
।
तेषामाशिष
ईश
तदनु
विनश्यन्ति
यथा
राजकुलम्
39
▾
Meaning
Keep
कामधियस्त्वयि
रचिता
न
परम
रोहन्ति
यथा
करम्भबीजानि
।
ज्ञानात्मन्यगुणमये
गुणगणतोऽस्य
द्वन्द्वजालानि
40
▾
Meaning
Keep
जितमजित
तदा
भवता
यदाऽऽह
भागवतं
धर्ममनवद्यम्
।
निष्किञ्चना
ये
मुनय
आत्मारामा
यमुपासतेऽपवर्गाय
41
▾
Meaning
Keep
विषममतिर्न
यत्र
नृणां
त्वमहमिति
मम
तवेति
च
यदन्यत्र
।
विषमधिया
रचितो
यः
स
ह्यविशुद्धः
क्षयिष्णुरधर्मबहुलः
42
▾
Meaning
Keep
कः
क्षेमो
निजपरयोः
कियान्वार्थः
स्वपरद्रुहा
धर्मेण
।
स्वद्रोहात्तव
कोपः
परसम्पीडया
च
तथाधर्मः
43
▾
Meaning
Keep
न
व्यभिचरति
तवेक्षा
यया
ह्यभिहितो
भागवतो
धर्मः
।
स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो
यमुपासते
त्वार्याः
44
▾
Meaning
Keep
न
हि
भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षयः
।
यन्नाम
सकृच्छ्रवणात्पुल्कसकोऽपि
विमुच्यते
संसारात्
45
▾
Meaning
Keep
अथ
भगवन्
वयमधुना
त्वदवलोकपरिमृष्टाशयमलाः
।
सुरऋषिणा
यत्कथितं
तावकेन
कथमन्यथा
भवति
46
▾
Meaning
Keep
विदितमनन्त
समस्तं
तव
जगदात्मनो
जनैरिहाचरितम्
।
विज्ञाप्यं
परमगुरोः
कियदिव
सवितुरिव
खद्योतैः
Hymn
47
▾
Meaning
Keep
नमस्तुभ्यं
भगवते
सकलजग-
त्स्थितिलयोदयेशाय
।
दुरवसितात्मगतये
कुयोगिनां
भिदा
परमहंसाय
48
▾
Meaning
Keep
यं
वै
श्वसन्तमनु
विश्वसृजः
श्वसन्ति
यं
चेकितानमनु
चित्तय
उच्चकन्ति
।
भूमण्डलं
सर्षपायति
यस्य
मूर्ध्नि
तस्मै
नमो
भगवतेऽस्तु
सहस्रमूर्ध्ने
49
▾
Meaning
Keep
संस्तुतो
भगवानेवमनन्तस्तमभाषत
।
विद्याधरपतिं
प्रीतश्चित्रकेतुं
कुरूद्वह
50
▾
Meaning
Keep
श्रीभगवानुवाच ।
यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।
संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे
51
▾
Meaning
Keep
अहं
वै
सर्वभूतानि
भूतात्मा
भूतभावनः
।
शब्दब्रह्म
परं
ब्रह्म
ममोभे
शाश्वती
तनू
52
▾
Meaning
Keep
लोके
विततमात्मानं
लोकं
चात्मनि
सन्ततम्
।
उभयं
च
मया
व्याप्तं
मयि
चैवोभयं
कृतम्
53
▾
Meaning
Keep
यथा
सुषुप्तः
पुरुषो
विश्वं
पश्यति
चात्मनि
।
आत्मानमेकदेशस्थं
मन्यते
स्वप्न
उत्थितः
54
▾
Meaning
Keep
एवं
जागरणादीनि
जीवस्थानानि
चात्मनः
।
मायामात्राणि
विज्ञाय
तद्द्रष्टारं
परं
स्मरेत्
55
▾
Meaning
Keep
येन
प्रसुप्तः
पुरुषः
स्वापं
वेदात्मनस्तदा
।
सुखं
च
निर्गुणं
ब्रह्म
तमात्मानमवेहि
माम्
56
▾
Meaning
Keep
उभयं
स्मरतः
पुंसः
प्रस्वापप्रतिबोधयोः
।
अन्वेति
व्यतिरिच्येत
तज्ज्ञानं
ब्रह्म
तत्परम्
57
▾
Meaning
Keep
यदेतद्विस्मृतं
पुंसो
मद्भावं
भिन्नमात्मनः
।
ततः
संसार
एतस्य
देहाद्देहो
मृतेर्मृतिः
58
▾
Meaning
Keep
लब्ध्वेह
मानुषीं
योनिं
ज्ञानविज्ञानसम्भवाम्
।
आत्मानं
यो
न
बुद्ध्येत
न
क्वचित्क्षेममाप्नुयात्
59
▾
Meaning
Keep
स्मृत्वेहायां
परिक्लेशं
ततः
फलविपर्ययम्
।
अभयं
चाप्यनीहायां
सङ्कल्पाद्विरमेत्कविः
60
▾
Meaning
Keep
सुखाय
दुःखमोक्षाय
कुर्वाते
दम्पती
क्रियाः
।
ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य
च
सुखस्य
च
61
▾
Meaning
Keep
एवं
विपर्ययं
बुद्ध्वा
नृणां
विज्ञाभिमानिनाम्
।
आत्मनश्च
गतिं
सूक्ष्मां
स्थानत्रयविलक्षणाम्
62
▾
Meaning
Keep
दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः
स्वेन
तेजसा
।
ज्ञानविज्ञानसन्तुष्टो
मद्भक्तः
पुरुषो
भवेत्
63
▾
Meaning
Keep
एतावानेव
मनुजैर्योगनैपुण्यबुद्धिभिः
।
स्वार्थः
सर्वात्मना
ज्ञेयो
यत्परात्मैकदर्शनम्
64
▾
Meaning
Keep
त्वमेतच्छ्रद्धया
राजन्नप्रमत्तो
वचो
मम
।
ज्ञानविज्ञानसम्पन्नो
धारयन्नाशु
सिध्यसि
65
▾
Meaning
Keep
आश्वास्य
भगवानित्थं
चित्रकेतुं
जगद्गुरुः
।
पश्यतस्तस्य
विश्वात्मा
ततश्चान्तर्दधे
हरिः
Previous
←
What Angiras and Narada Told the King
Next
Parvati's Curse
→