Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Boon Hiranyakasipu Asked For
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
हिरण्यकशिपू
राजन्नजेयमजरामरम्
।
आत्मानमप्रतिद्वन्द्वमेकराजं
व्यधित्सत
2
▾
Meaning
Keep
स
तेपे
मन्दरद्रोण्यां
तपः
परमदारुणम्
।
ऊर्ध्वबाहुर्नभोदृष्टिः
पादाङ्गुष्ठाश्रितावनिः
3
▾
Meaning
Keep
जटादीधितिभी
रेजे
संवर्तार्क
इवांशुभिः
।
तस्मिंस्तपस्तप्यमाने
देवाः
स्थानानि
भेजिरे
4
▾
Meaning
Keep
तस्य
मूर्ध्नः
समुद्भूतः
सधूमोऽग्निस्तपोमयः
।
तीर्यगूर्ध्वमधोलोकान्
प्रातपद्विष्वगीरितः
5
▾
Meaning
Keep
चुक्षुभुर्नद्युदन्वन्तः
सद्वीपाद्रिश्चचाल
भूः
।
निपेतुः
सग्रहास्तारा
जज्वलुश्च
दिशो
दश
6
▾
Meaning
Keep
तेन
तप्ता
दिवं
त्यक्त्वा
ब्रह्मलोकं
ययुः
सुराः
।
धात्रे
विज्ञापयामासुर्देवदेव
जगत्पते
7
▾
Meaning
Keep
दैत्येन्द्रतपसा
तप्ता
दिवि
स्थातुं
न
शक्नुमः
।
तस्य
चोपशमं
भूमन्
विधेहि
यदि
मन्यसे
।
लोका
न
यावन्नङ्क्ष्यन्ति
बलिहारास्तवाभिभूः
8
▾
Meaning
Keep
तस्यायं
किल
संकल्पश्चरतो
दुश्चरं
तपः
।
श्रूयतां
किं
न
विदितस्तवाथापि
निवेदितः
9
▾
Meaning
Keep
सृष्ट्वा
चराचरमिदं
तपोयोगसमाधिना
।
अध्यास्ते
सर्वधिष्ण्येभ्यः
परमेष्ठी
निजासनम्
10
▾
Meaning
Keep
तदहं
वर्धमानेन
तपोयोगसमाधिना
।
कालात्मनोश्च
नित्यत्वात्साधयिष्ये
तथाऽऽत्मनः
11
▾
Meaning
Keep
अन्यथेदं
विधास्येऽहमयथापूर्वमोजसा
।
किमन्यैः
कालनिर्धूतैः
कल्पान्ते
वैष्णवादिभिः
12
▾
Meaning
Keep
इति
शुश्रुम
निर्बन्धं
तपः
परममास्थितः
।
विधत्स्वानन्तरं
युक्तं
स्वयं
त्रिभुवनेश्वर
13
▾
Meaning
Keep
तवासनं
द्विजगवां
पारमेष्ठ्यं
जगत्पते
।
भवाय
श्रेयसे
भूत्यै
क्षेमाय
विजयाय
च
14
▾
Meaning
Keep
इति
विज्ञापितो
देवैर्भगवानात्मभूर्नृप
।
परितो
भृगुदक्षाद्यैर्ययौ
दैत्येश्वराश्रमम्
15
▾
Meaning
Keep
न
ददर्श
प्रतिच्छन्नं
वल्मीकतृणकीचकैः
।
पिपीलिकाभिराचीर्णं
मेदस्त्वङ्मांसशोणितम्
16
▾
Meaning
Keep
तपन्तं
तपसा
लोकान्
यथाभ्रापिहितं
रविम्
।
विलक्ष्य
विस्मितः
प्राह
प्रहसन्
हंसवाहनः
17
▾
Meaning
Keep
उत्तिष्ठोत्तिष्ठ
भद्रं
ते
तपःसिद्धोऽसि
काश्यप
।
वरदोऽहमनुप्राप्तो
व्रियतामीप्सितो
वरः
18
▾
Meaning
Keep
अद्राक्षमहमेतं
ते
हृत्सारं
महदद्भुतम्
।
दंशभक्षितदेहस्य
प्राणा
ह्यस्थिषु
शेरते
19
▾
Meaning
Keep
नैतत्पूर्वर्षयश्चक्रुर्न
करिष्यन्ति
चापरे
।
निरम्बुर्धारयेत्प्राणान्
को
वै
दिव्यसमाः
शतम्
20
▾
Meaning
Keep
व्यवसायेन
तेऽनेन
दुष्करेण
मनस्विनाम्
।
तपोनिष्ठेन
भवता
जितोऽहं
दितिनन्दन
21
▾
Meaning
Keep
ततस्त
आशिषः
सर्वा
ददाम्यसुरपुङ्गव
।
मर्तस्य
ते
ह्यमर्तस्य
दर्शनं
नाफलं
मम
22
▾
Meaning
Keep
इत्युक्त्वाऽऽदिभवो
देवो
भक्षिताङ्गं
पिपीलिकैः
।
कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा
23
▾
Meaning
Keep
स
तत्कीचकवल्मीकात्सहओजोबलान्वितः
।
सर्वावयवसम्पन्नो
वज्रसंहननो
युवा
।
उत्थितस्तप्तहेमाभो
विभावसुरिवैधसः
24
▾
Meaning
Keep
स
निरीक्ष्याम्बरे
देवं
हंसवाहमुपस्थितम्
।
ननाम
शिरसा
भूमौ
तद्दर्शनमहोत्सवः
Hymn
25
▾
Meaning
Keep
उत्थाय
प्राञ्जलिः
प्रह्व
ईक्षमाणो
दृशा
विभुम्
।
हर्षाश्रुपुलकोद्भेदो
गिरा
गद्गदयागृणात्
26
▾
Meaning
Keep
कल्पान्ते
कालसृष्टेन
योऽन्धेन
तमसाऽऽवृतम्
।
अभिव्यनग्जगदिदं
स्वयञ्ज्योतिः
स्वरोचिषा
27
▾
Meaning
Keep
आत्मना
त्रिवृता
चेदं
सृजत्यवति
लुम्पति
।
रजःसत्त्वतमोधाम्ने
पराय
महते
नमः
28
▾
Meaning
Keep
नम
आद्याय
बीजाय
ज्ञानविज्ञानमूर्तये
।
प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे
29
▾
Meaning
Keep
त्वमीशिषे
जगतस्तस्थुषश्च
प्राणेन
मुख्येन
पतिः
प्रजानाम्
।
चित्तस्य
चित्तैर्मनइन्द्रियाणां
पतिर्महान्
भूतगुणाशयेशः
30
▾
Meaning
Keep
त्वं
सप्ततन्तून्
वितनोषि
तन्वा
त्रय्या
चतुर्होत्रकविद्यया
च
।
त्वमेक
आत्माऽऽत्मवतामनादिरनन्तपारः
कविरन्तरात्मा
31
▾
Meaning
Keep
त्वमेव
कालोऽनिमिषो
जनाना-
मायुर्लवाद्यवयवैः
क्षिणोषि
।
कूटस्थ
आत्मा
परमेष्ठ्यजो
महां-
स्त्वं
जीवलोकस्य
च
जीव
आत्मा
32
▾
Meaning
Keep
त्वत्तः
परं
नापरमप्यनेज-
देजच्च
किञ्चिद्व्यतिरिक्तमस्ति
।
विद्याः
कलास्ते
तनवश्च
सर्वा
हिरण्यगर्भोऽसि
बृहत्त्रिपृष्ठः
33
▾
Meaning
Keep
व्यक्तं
विभो
स्थूलमिदं
शरीरं
येनेन्द्रियप्राणमनोगुणांस्त्वम्
।
भुङ्क्षे
स्थितो
धामनि
पारमेष्ठ्ये
अव्यक्त
आत्मा
पुरुषः
पुराणः
34
▾
Meaning
Keep
अनन्ताव्यक्तरूपेण
येनेदमखिलं
ततम्
।
चिदचिच्छक्तियुक्ताय
तस्मै
भगवते
नमः
35
▾
Meaning
Keep
यदि
दास्यस्यभिमतान्
वरान्
मे
वरदोत्तम
।
भूतेभ्यस्त्वद्विसृष्टेभ्यो
मृत्युर्मा
भून्मम
प्रभो
36
▾
Meaning
Keep
नान्तर्बहिर्दिवा
नक्तमन्यस्मादपि
चायुधैः
।
न
भूमौ
नाम्बरे
मृत्युर्न
नरैर्न
मृगैरपि
37
▾
Meaning
Keep
व्यसुभिर्वासुमद्भिर्वा
सुरासुरमहोरगैः
।
अप्रतिद्वन्द्वतां
युद्धे
ऐकपत्यं
च
देहिनाम्
38
▾
Meaning
Keep
सर्वेषां
लोकपालानां
महिमानं
यथात्मनः
।
तपोयोगप्रभावाणां
यन्न
रिष्यति
कर्हिचित्
Previous
←
Hiranyakasipu Comforts His Kin
Next
Hiranyakasipu's Rule and His Son
→