Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Sage Who Lived by the Python's Way
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कल्पस्त्वेवं
परिव्रज्य
देहमात्रावशेषितः
।
ग्रामैकरात्रविधिना
निरपेक्षश्चरेन्महीम्
2
▾
Meaning
Keep
बिभृयाद्
यद्यसौ
वासः
कौपीनाच्छादनं
परम्
।
त्यक्तं
न
लिङ्गाद्
दण्डादेरन्यत्
किञ्चिदनापदि
3
▾
Meaning
Keep
एक
एव
चरेद्भिक्षुरात्मारामोऽनपाश्रयः
।
सर्वभूतसुहृच्छान्तो
नारायणपरायणः
4
▾
Meaning
Keep
पश्येदात्मन्यदो
विश्वं
परे
सदसतोऽव्यये
।
आत्मानं
च
परं
ब्रह्म
सर्वत्र
सदसन्मये
5
▾
Meaning
Keep
सुप्तिप्रबोधयोः
सन्धावात्मनो
गतिमात्मदृक्
।
पश्यन्
बन्धं
च
मोक्षं
च
मायामात्रं
न
वस्तुतः
6
▾
Meaning
Keep
नाभिनन्देद्ध्रुवं
मृत्युमध्रुवं
वास्य
जीवितम्
।
कालं
परं
प्रतीक्षेत
भूतानां
प्रभवाप्ययम्
7
▾
Meaning
Keep
नासच्छास्त्रेषु
सज्जेत
नोपजीवेत
जीविकाम्
।
वादवादांस्त्यजेत्तर्कान्
पक्षं
कं
च
न
संश्रयेत्
8
▾
Meaning
Keep
न
शिष्याननुबध्नीत
ग्रन्थान्
नैवाभ्यसेद्बहून्
।
न
व्याख्यामुपयुञ्जीत
नारम्भानारभेत्क्वचित्
9
▾
Meaning
Keep
न
यतेराश्रमः
प्रायो
धर्महेतुर्महात्मनः
।
शान्तस्य
समचित्तस्य
बिभृयादुत
वा
त्यजेत्
10
▾
Meaning
Keep
अव्यक्तलिङ्गो
व्यक्तार्थो
मनीष्युन्मत्तबालवत्
।
कविर्मूकवदात्मानं
स
दृष्ट्या
दर्शयेन्नृणाम्
11
▾
Meaning
Keep
अत्राप्युदाहरन्तीममितिहासं
पुरातनम्
।
प्रह्रादस्य
च
संवादं
मुनेराजगरस्य
च
12
▾
Meaning
Keep
तं
शयानं
धरोपस्थे
कावेर्यां
सह्यसानुनि
।
रजस्वलैस्तनूदेशैर्निगूढामलतेजसम्
13
▾
Meaning
Keep
ददर्श
लोकान्
विचरँल्लोकतत्त्वविवित्सया
।
वृतोऽमात्यैः
कतिपयैः
प्रह्रादो
भगवत्प्रियः
14
▾
Meaning
Keep
कर्मणाऽऽकृतिभिर्वाचा
लिङ्गैर्वर्णाश्रमादिभिः
।
न
विदन्ति
जना
यं
वै
सोऽसाविति
न
वेति
च
15
▾
Meaning
Keep
तं
नत्वाभ्यर्च्य
विधिवत्पादयोः
शिरसा
स्पृशन्
।
विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः
16
▾
Meaning
Keep
बिभर्षि
कायं
पीवानं
सोद्यमो
भोगवान्
यथा
।
वित्तं
चैवोद्यमवतां
भोगो
वित्तवतामिह
।
भोगिनां
खलु
देहोऽयं
पीवा
भवति
नान्यथा
17
▾
Meaning
Keep
न
ते
शयानस्य
निरुद्यमस्य
ब्रह्मन्
नु
हार्थो
यत
एव
भोगः
।
अभोगिनोऽयं
तव
विप्र
देहः
पीवा
यतस्तद्वद
नः
क्षमं
चेत्
18
▾
Meaning
Keep
कविः
कल्पो
निपुणदृक्
चित्रप्रियकथः
समः
।
लोकस्य
कुर्वतः
कर्म
शेषे
तद्वीक्षितापि
वा
19
▾
Meaning
Keep
स
इत्थं
दैत्यपतिना
परिपृष्टो
महामुनिः
।
स्मयमानस्तमभ्याह
तद्वागमृतयन्त्रितः
20
▾
Meaning
Keep
वेदेदमसुरश्रेष्ठ
भवान्
नन्वार्यसम्मतः
।
ईहोपरमयोर्नॄणां
पदान्यध्यात्मचक्षुषा
21
▾
Meaning
Keep
यस्य
नारायणो
देवो
भगवान्
हृद्गतः
सदा
।
भक्त्या
केवलयाज्ञानं
धुनोति
ध्वान्तमर्कवत्
22
▾
Meaning
Keep
अथापि
ब्रूमहे
प्रश्नांस्तव
राजन्
यथाश्रुतम्
।
सम्भाषणीयो
हि
भवानात्मनः
शुद्धिमिच्छता
23
▾
Meaning
Keep
तृष्णया
भववाहिन्या
योग्यैः
कामैरपूर्यया
।
कर्माणि
कार्यमाणोऽहं
नानायोनिषु
योजितः
24
▾
Meaning
Keep
यदृच्छया
लोकमिमं
प्रापितः
कर्मभिर्भ्रमन्
।
स्वर्गापवर्गयोर्द्वारं
तिरश्चां
पुनरस्य
च
25
▾
Meaning
Keep
अत्रापि
दम्पतीनां
च
सुखायान्यापनुत्तये
।
कर्माणि
कुर्वतां
दृष्ट्वा
निवृत्तोऽस्मि
विपर्ययम्
26
▾
Meaning
Keep
सुखमस्यात्मनो
रूपं
सर्वेहोपरतिस्तनुः
।
मनःसंस्पर्शजान्
दृष्ट्वा
भोगान्
स्वप्स्यामि
संविशन्
27
▾
Meaning
Keep
इत्येतदात्मनः
स्वार्थं
सन्तं
विस्मृत्य
वै
पुमान्
।
विचित्रामसति
द्वैते
घोरामाप्नोति
संसृतिम्
28
▾
Meaning
Keep
जलं
तदुद्भवैश्छन्नं
हित्वाज्ञो
जलकाम्यया
।
मृगतृष्णामुपाधावेत्तथान्यत्रार्थदृक्
स्वतः
29
▾
Meaning
Keep
देहादिभिर्दैवतन्त्रैरात्मनः
सुखमीहतः
।
दुःखात्ययं
चानीशस्य
क्रिया
मोघाः
कृताः
कृताः
30
▾
Meaning
Keep
आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य
कर्हिचित्
।
मर्त्यस्य
कृच्छ्रोपनतैरर्थैः
कामैः
क्रियेत
किम्
31
▾
Meaning
Keep
पश्यामि
धनिनां
क्लेशं
लुब्धानामजितात्मनाम्
।
भयादलब्धनिद्राणां
सर्वतोऽभिविशङ्किनाम्
32
▾
Meaning
Keep
राजतश्चौरतः
शत्रोः
स्वजनात्पशुपक्षितः
।
अर्थिभ्यः
कालतः
स्वस्मान्नित्यं
प्राणार्थवद्भयम्
33
▾
Meaning
Keep
शोकमोहभयक्रोधरागक्लैब्यश्रमादयः
।
यन्मूलाः
स्युर्नृणां
जह्यात्स्पृहां
प्राणार्थयोर्बुधः
34
▾
Meaning
Keep
मधुकारमहासर्पौ
लोकेऽस्मिन्
नो
गुरूत्तमौ
।
वैराग्यं
परितोषं
च
प्राप्ता
यच्छिक्षया
वयम्
35
▾
Meaning
Keep
विरागः
सर्वकामेभ्यः
शिक्षितो
मे
मधुव्रतात्
।
कृच्छ्राप्तं
मधुवद्वित्तं
हत्वाप्यन्यो
हरेत्पतिम्
36
▾
Meaning
Keep
अनीहः
परितुष्टात्मा
यदृच्छोपनतादहम्
।
नो
चेच्छये
बह्वहानि
महाहिरिव
सत्त्ववान्
37
▾
Meaning
Keep
क्वचिदल्पं
क्वचिद्भूरि
भुञ्जेऽन्नं
स्वाद्वस्वादु
वा
।
क्वचिद्भूरि
गुणोपेतं
गुणहीनमुत
क्वचित्
38
▾
Meaning
Keep
श्रद्धयोपहृतं
क्वापि
कदाचिन्मानवर्जितम्
।
भुञ्जे
भुक्त्वाथ
कस्मिंश्चिद्दिवा
नक्तं
यदृच्छया
39
▾
Meaning
Keep
क्षौमं
दुकूलमजिनं
चीरं
वल्कलमेव
वा
।
वसेऽन्यदपि
सम्प्राप्तं
दिष्टभुक्
तुष्टधीरहम्
40
▾
Meaning
Keep
क्वचिच्छये
धरोपस्थे
तृणपर्णाश्मभस्मसु
।
क्वचित्प्रासादपर्यङ्के
कशिपौ
वा
परेच्छया
41
▾
Meaning
Keep
क्वचित्स्नातोऽनुलिप्ताङ्गः
सुवासाः
स्रग्व्यलङ्कृतः
।
रथेभाश्वैश्चरे
क्वापि
दिग्वासा
ग्रहवद्विभो
42
▾
Meaning
Keep
नाहं
निन्दे
न
च
स्तौमि
स्वभावविषमं
जनम्
।
एतेषां
श्रेय
आशासे
उतैकात्म्यं
महात्मनि
43
▾
Meaning
Keep
विकल्पं
जुहुयाच्चित्तौ
तां
मनस्यर्थविभ्रमे
।
मनो
वैकारिके
हुत्वा
तन्मायायां
जुहोत्यनु
44
▾
Meaning
Keep
आत्मानुभूतौ
तां
मायां
जुहुयात्सत्यदृङ्मुनिः
।
ततो
निरीहो
विरमेत्स्वानुभूत्याऽऽत्मनि
स्थितः
45
▾
Meaning
Keep
स्वात्मवृत्तं
मयेत्थं
ते
सुगुप्तमपि
वर्णितम्
।
व्यपेतं
लोकशास्त्राभ्यां
भवान्
हि
भगवत्परः
46
▾
Meaning
Keep
धर्मं
पारमहंस्यं
वै
मुनेः
श्रुत्वासुरेश्वरः
।
पूजयित्वा
ततः
प्रीत
आमन्त्र्य
प्रययौ
गृहम्
Previous
←
The Student, the Forest, and the Laying Down of the Body
Next
The Householder's Way, and the Worthy Vessel
→