Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Householder's Way, and the Worthy Vessel
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
गृहस्थ
एतां
पदवीं
विधिना
येन
चाञ्जसा
।
याति
देवऋषे
ब्रूहि
मादृशो
गृहमूढधीः
2
▾
Meaning
Keep
गृहेष्ववस्थितो
राजन्
क्रियाः
कुर्वन्
गृहोचिताः
।
वासुदेवार्पणं
साक्षादुपासीत
महामुनीन्
3
▾
Meaning
Keep
शृण्वन्
भगवतोऽभीक्ष्णमवतारकथामृतम्
।
श्रद्दधानो
यथाकालमुपशान्तजनावृतः
4
▾
Meaning
Keep
सत्सङ्गाच्छनकैः
सङ्गमात्मजायात्मजादिषु
।
विमुच्येन्मुच्यमानेषु
स्वयं
स्वप्नवदुत्थितः
5
▾
Meaning
Keep
यावदर्थमुपासीनो
देहे
गेहे
च
पण्डितः
।
विरक्तो
रक्तवत्तत्र
नृलोके
नरतां
न्यसेत्
6
▾
Meaning
Keep
ज्ञातयः
पितरौ
पुत्रा
भ्रातरः
सुहृदोऽपरे
।
यद्वदन्ति
यदिच्छन्ति
चानुमोदेत
निर्ममः
7
▾
Meaning
Keep
दिव्यं
भौमं
चान्तरीक्षं
वित्तमच्युतनिर्मितम्
।
तत्
सर्वमुपभुञ्जान
एतत्
कुर्यात्
स्वतो
बुधः
8
▾
Meaning
Keep
यावद्भ्रियेत
जठरं
तावत्स्वत्वं
हि
देहिनाम्
।
अधिकं
योऽभिमन्येत
स
स्तेनो
दण्डमर्हति
9
▾
Meaning
Keep
मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिकाः
।
आत्मनः
पुत्रवत्पश्येत्तैरेषामन्तरं
कियत्
10
▾
Meaning
Keep
त्रिवर्गं
नातिकृच्छ्रेण
भजेत
गृहमेध्यपि
।
यथादेशं
यथाकालं
यावद्दैवोपपादितम्
11
▾
Meaning
Keep
आश्वाघान्तेऽवसायिभ्यः
कामान्
संविभजेद्यथा
।
अप्येकामात्मनो
दारां
नृणां
स्वत्वग्रहो
यतः
12
▾
Meaning
Keep
जह्याद्यदर्थे
स्वप्राणान्
हन्याद्वा
पितरं
गुरुम्
।
तस्यां
स्वत्वं
स्त्रियां
जह्याद्यस्तेन
ह्यजितो
जितः
13
▾
Meaning
Keep
कृमिविड्भस्मनिष्ठान्तं
क्वेदं
तुच्छं
कलेवरम्
।
क्व
तदीयरतिर्भार्या
क्वायमात्मा
नभश्छदिः
14
▾
Meaning
Keep
सिद्धैर्यज्ञावशिष्टार्थैः
कल्पयेद्वृत्तिमात्मनः
।
शेषे
स्वत्वं
त्यजन्
प्राज्ञः
पदवीं
महतामियात्
15
▾
Meaning
Keep
देवान्
ऋषीन्
नृभूतानि
पितॄनात्मानमन्वहम्
।
स्ववृत्त्यागतवित्तेन
यजेत
पुरुषं
पृथक्
16
▾
Meaning
Keep
यर्ह्यात्मनोऽधिकाराद्याः
सर्वाः
स्युर्यज्ञसम्पदः
।
वैतानिकेन
विधिना
अग्निहोत्रादिना
यजेत्
17
▾
Meaning
Keep
न
ह्यग्निमुखतोऽयं
वै
भगवान्
सर्वयज्ञभुक्
।
इज्येत
हविषा
राजन्
यथा
विप्रमुखे
हुतैः
18
▾
Meaning
Keep
तस्माद्ब्राह्मणदेवेषु
मर्त्यादिषु
यथार्हतः
।
तैस्तैः
कामैर्यजस्वैनं
क्षेत्रज्ञं
ब्राह्मणाननु
19
▾
Meaning
Keep
कुर्यादपरपक्षीयं
मासि
प्रौष्ठपदे
द्विजः
।
श्राद्धं
पित्रोर्यथावित्तं
तद्बन्धूनां
च
वित्तवान्
20
▾
Meaning
Keep
अयने
विषुवे
कुर्याद्
व्यतीपाते
दिनक्षये
।
चन्द्रादित्योपरागे
च
द्वादशीश्रवणेषु
च
21
▾
Meaning
Keep
तृतीयायां
शुक्लपक्षे
नवम्यामथ
कार्तिके
।
चतसृष्वप्यष्टकासु
हेमन्ते
शिशिरे
तथा
22
▾
Meaning
Keep
माघे
च
सितसप्तम्यां
मघाराकासमागमे
।
राकया
चानुमत्या
च
मासर्क्षाणि
युतान्यपि
23
▾
Meaning
Keep
द्वादश्यामनुराधा
स्याच्छ्रवणस्तिस्र
उत्तराः
।
तिसृष्वेकादशी
वाऽऽसु
जन्मर्क्षश्रोणयोगयुक्
24
▾
Meaning
Keep
त
एते
श्रेयसः
काला
नॄणां
श्रेयोविवर्धनाः
।
कुर्यात्सर्वात्मनैतेषु
श्रेयोऽमोघं
तदायुषः
25
▾
Meaning
Keep
एषु
स्नानं
जपो
होमो
व्रतं
देवद्विजार्चनम्
।
पितृदेवनृभूतेभ्यो
यद्दत्तं
तद्ध्यनश्वरम्
26
▾
Meaning
Keep
संस्कारकालो
जायाया
अपत्यस्यात्मनस्तथा
।
प्रेतसंस्था
मृताहश्च
कर्मण्यभ्युदये
नृप
27
▾
Meaning
Keep
अथ
देशान्प्रवक्ष्यामि
धर्मादिश्रेय
आवहान्
।
स
वै
पुण्यतमो
देशः
सत्पात्रं
यत्र
लभ्यते
28
▾
Meaning
Keep
बिम्बं
भगवतो
यत्र
सर्वमेतच्चराचरम्
।
यत्र
ह
ब्राह्मणकुलं
तपोविद्यादयान्वितम्
29
▾
Meaning
Keep
यत्र
यत्र
हरेरर्चा
स
देशः
श्रेयसां
पदम्
।
यत्र
गङ्गादयो
नद्यः
पुराणेषु
च
विश्रुताः
30
▾
Meaning
Keep
सरांसि
पुष्करादीनि
क्षेत्राण्यर्हाश्रितान्युत
।
कुरुक्षेत्रं
गयशिरः
प्रयागः
पुलहाश्रमः
31
▾
Meaning
Keep
नैमिषं
फाल्गुनं
सेतुः
प्रभासोऽथ
कुशस्थली
।
वाराणसी
मधुपुरी
पम्पा
बिन्दुसरस्तथा
32
▾
Meaning
Keep
नारायणाश्रमो
नन्दा
सीतारामाश्रमादयः
।
सर्वे
कुलाचला
राजन्
महेन्द्रमलयादयः
33
▾
Meaning
Keep
एते
पुण्यतमा
देशा
हरेरर्चाश्रिताश्च
ये
।
एतान्
देशान्
निषेवेत
श्रेयस्कामो
ह्यभीक्ष्णशः
।
धर्मो
ह्यत्रेहितः
पुंसां
सहस्राधिफलोदयः
34
▾
Meaning
Keep
पात्रं
त्वत्र
निरुक्तं
वै
कविभिः
पात्रवित्तमैः
।
हरिरेवैक
उर्वीश
यन्मयं
वै
चराचरम्
35
▾
Meaning
Keep
देवर्ष्यर्हत्सु
वै
सत्सु
तत्र
ब्रह्मात्मजादिषु
।
राजन्
यदग्रपूजायां
मतः
पात्रतयाच्युतः
36
▾
Meaning
Keep
जीवराशिभिराकीर्ण
अण्डकोशाङ्घ्रिपो
महान्
।
तन्मूलत्वादच्युतेज्या
सर्वजीवात्मतर्पणम्
37
▾
Meaning
Keep
पुराण्यनेन
सृष्टानि
नृतिर्यगृषिदेवताः
।
शेते
जीवेन
रूपेण
पुरेषु
पुरुषो
ह्यसौ
38
▾
Meaning
Keep
तेष्वेव
भगवान्
राजंस्तारतम्येन
वर्तते
।
तस्मात्पात्रं
हि
पुरुषो
यावानात्मा
यथेयते
39
▾
Meaning
Keep
दृष्ट्वा
तेषां
मिथो
नृणामवज्ञानात्मतां
नृप
।
त्रेतादिषु
हरेरर्चा
क्रियायै
कविभिः
कृता
40
▾
Meaning
Keep
ततोऽर्चायां
हरिं
केचित्संश्रद्धाय
सपर्यया
।
उपासत
उपास्तापि
नार्थदा
पुरुषद्विषाम्
41
▾
Meaning
Keep
पुरुषेष्वपि
राजेन्द्र
सुपात्रं
ब्राह्मणं
विदुः
।
तपसा
विद्यया
तुष्ट्या
धत्ते
वेदं
हरेस्तनुम्
42
▾
Meaning
Keep
नन्वस्य
ब्राह्मणा
राजन्
कृष्णस्य
जगदात्मनः
।
पुनन्तः
पादरजसा
त्रिलोकीं
दैवतं
महत्
Previous
←
The Sage Who Lived by the Python's Way
Next
Narada's Last Instruction to Yudhisthira
→