Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Narada's Last Instruction to Yudhisthira
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कर्मनिष्ठा
द्विजाः
केचित्
तपोनिष्ठा
नृपापरे
।
स्वाध्यायेऽन्ये
प्रवचने
केचिज्ज्ञानयोगयोः
2
▾
Meaning
Keep
ज्ञाननिष्ठाय
देयानि
कव्यान्यानन्त्यमिच्छता
।
दैवे
च
तदभावे
स्यादितरेभ्यो
यथार्हतः
3
▾
Meaning
Keep
द्वौ
दैवे
पितृकार्ये
त्रीनेकैकमुभयत्र
वा
।
भोजयेत्सुसमृद्धोऽपि
श्राद्धे
कुर्यान्न
विस्तरम्
4
▾
Meaning
Keep
देशकालोचितश्रद्धा
द्रव्यपात्रार्हणानि
च
।
सम्यग्भवन्ति
नैतानि
विस्तरात्स्वजनार्पणात्
5
▾
Meaning
Keep
देशे
काले
च
सम्प्राप्ते
मुन्यन्नं
हरिदैवतम्
।
श्रद्धया
विधिवत्पात्रे
न्यस्तं
कामधुगक्षयम्
6
▾
Meaning
Keep
देवर्षिपितृभूतेभ्य
आत्मने
स्वजनाय
च
।
अन्नं
संविभजन्
पश्येत्सर्वं
तत्पुरुषात्मकम्
7
▾
Meaning
Keep
न
दद्यादामिषं
श्राद्धे
न
चाद्याद्धर्मतत्त्ववित्
।
मुन्यन्नैः
स्यात्परा
प्रीतिर्यथा
न
पशुहिंसया
8
▾
Meaning
Keep
नैतादृशः
परो
धर्मो
नृणां
सद्धर्ममिच्छताम्
।
न्यासो
दण्डस्य
भूतेषु
मनोवाक्कायजस्य
यः
9
▾
Meaning
Keep
एके
कर्ममयान्
यज्ञान्
ज्ञानिनो
यज्ञवित्तमाः
।
आत्मसंयमनेऽनीहा
जुह्वति
ज्ञानदीपिते
10
▾
Meaning
Keep
द्रव्ययज्ञैर्यक्ष्यमाणं
दृष्ट्वा
भूतानि
बिभ्यति
।
एष
माकरुणो
हन्यादतज्ज्ञो
ह्यसुतृप्
ध्रुवम्
11
▾
Meaning
Keep
तस्माद्दैवोपपन्नेन
मुन्यन्नेनापि
धर्मवित्
।
सन्तुष्टोऽहरहः
कुर्यान्नित्यनैमित्तिकीः
क्रियाः
12
▾
Meaning
Keep
विधर्मः
परधर्मश्च
आभास
उपमा
छलः
।
अधर्मशाखाः
पञ्चेमा
धर्मज्ञोऽधर्मवत्त्यजेत्
13
▾
Meaning
Keep
धर्मबाधो
विधर्मः
स्यात्परधर्मोऽन्यचोदितः
।
उपधर्मस्तु
पाखण्डो
दम्भो
वा
शब्दभिच्छलः
14
▾
Meaning
Keep
यस्त्विच्छया
कृतः
पुम्भिराभासो
ह्याश्रमात्पृथक्
।
स्वभावविहितो
धर्मः
कस्य
नेष्टः
प्रशान्तये
15
▾
Meaning
Keep
धर्मार्थमपि
नेहेत
यात्रार्थं
वाधनो
धनम्
।
अनीहानीहमानस्य
महाहेरिव
वृत्तिदा
16
▾
Meaning
Keep
सन्तुष्टस्य
निरीहस्य
स्वात्मारामस्य
यत्सुखम्
।
कुतस्तत्कामलोभेन
धावतोऽर्थेहया
दिशः
17
▾
Meaning
Keep
सदा
सन्तुष्टमनसः
सर्वाः
सुखमया
दिशः
।
शर्कराकण्टकादिभ्यो
यथोपानत्पदः
शिवम्
18
▾
Meaning
Keep
सन्तुष्टः
केन
वा
राजन्न
वर्तेतापि
वारिणा
।
औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते
जनः
19
▾
Meaning
Keep
असन्तुष्टस्य
विप्रस्य
तेजो
विद्या
तपो
यशः
।
स्रवन्तीन्द्रियलौल्येन
ज्ञानं
चैवावकीर्यते
20
▾
Meaning
Keep
कामस्यान्तं
च
क्षुत्तृड्भ्यां
क्रोधस्यैतत्फलोदयात्
।
जनो
याति
न
लोभस्य
जित्वा
भुक्त्वा
दिशो
भुवः
21
▾
Meaning
Keep
पण्डिता
बहवो
राजन्
बहुज्ञाः
संशयच्छिदः
।
सदसस्पतयोऽप्येके
असन्तोषात्पतन्त्यधः
22
▾
Meaning
Keep
असङ्कल्पाज्जयेत्कामं
क्रोधं
कामविवर्जनात्
।
अर्थानर्थेक्षया
लोभं
भयं
तत्त्वावमर्शनात्
23
▾
Meaning
Keep
आन्वीक्षिक्या
शोकमोहौ
दम्भं
महदुपासया
।
योगान्तरायान्मौनेन
हिंसां
कामाद्यनीहया
24
▾
Meaning
Keep
कृपया
भूतजं
दुःखं
दैवं
जह्यात्समाधिना
।
आत्मजं
योगवीर्येण
निद्रां
सत्त्वनिषेवया
25
▾
Meaning
Keep
रजस्तमश्च
सत्त्वेन
सत्त्वं
चोपशमेन
च
।
एतत्सर्वं
गुरौ
भक्त्या
पुरुषो
ह्यञ्जसा
जयेत्
26
▾
Meaning
Keep
यस्य
साक्षाद्भगवति
ज्ञानदीपप्रदे
गुरौ
।
मर्त्यासद्धीः
श्रुतं
तस्य
सर्वं
कुञ्जरशौचवत्
27
▾
Meaning
Keep
एष
वै
भगवान्
साक्षात्प्रधानपुरुषेश्वरः
।
योगेश्वरैर्विमृग्याङ्घ्रिर्लोको
यं
मन्यते
नरम्
28
▾
Meaning
Keep
षड्वर्गसंयमैकान्ताः
सर्वा
नियमचोदनाः
।
तदन्ता
यदि
नो
योगानावहेयुः
श्रमावहाः
29
▾
Meaning
Keep
यथा
वार्तादयो
ह्यर्था
योगस्यार्थं
न
बिभ्रति
।
अनर्थाय
भवेयुस्ते
पूर्तमिष्टं
तथासतः
30
▾
Meaning
Keep
यश्चित्तविजये
यत्तः
स्यान्निःसङ्गोऽपरिग्रहः
।
एको
विविक्तशरणो
भिक्षुर्भिक्षामिताशनः
31
▾
Meaning
Keep
देशे
शुचौ
समे
राजन्संस्थाप्यासनमात्मनः
।
स्थिरं
सुखं
समं
तस्मिन्नासीतर्ज्वङ्ग
ओमिति
32
▾
Meaning
Keep
प्राणापानौ
सन्निरुन्ध्यात्पूरकुम्भकरेचकैः
।
यावन्मनस्त्यजेत्कामान्स्वनासाग्रनिरीक्षणः
33
▾
Meaning
Keep
यतो
यतो
निःसरति
मनः
कामहतं
भ्रमत्
।
ततस्तत
उपाहृत्य
हृदि
रुन्ध्याच्छनैर्बुधः
34
▾
Meaning
Keep
एवमभ्यस्यतश्चित्तं
कालेनाल्पीयसा
यतेः
।
अनिशं
तस्य
निर्वाणं
यात्यनिन्धनवह्निवत्
35
▾
Meaning
Keep
कामादिभिरनाविद्धं
प्रशान्ताखिलवृत्ति
यत्
।
चित्तं
ब्रह्मसुखस्पृष्टं
नैवोत्तिष्ठेत
कर्हिचित्
36
▾
Meaning
Keep
यः
प्रव्रज्य
गृहात्पूर्वं
त्रिवर्गावपनात्पुनः
।
यदि
सेवेत
तान्
भिक्षुः
स
वै
वान्ताश्यपत्रपः
37
▾
Meaning
Keep
यैः
स्वदेहःस्मृतोऽनात्मा
मर्त्यो
विट्कृमिभस्मसात्
।
त
एनमात्मसात्कृत्वा
श्लाघयन्ति
ह्यसत्तमाः
38
▾
Meaning
Keep
गृहस्थस्य
क्रियात्यागो
व्रतत्यागो
वटोरपि
।
तपस्विनो
ग्रामसेवा
भिक्षोरिन्द्रियलोलता
39
▾
Meaning
Keep
आश्रमापसदा
ह्येते
खल्वाश्रमविडम्बकाः
।
देवमायाविमूढांस्तानुपेक्षेतानुकम्पया
40
▾
Meaning
Keep
आत्मानं
चेद्विजानीयात्परं
ज्ञानधुताशयः
।
किमिच्छन्
कस्य
वा
हेतोर्देहं
पुष्णाति
लम्पटः
41
▾
Meaning
Keep
आहुः
शरीरं
रथमिन्द्रियाणि
हयानभीषून्
मन
इन्द्रियेशम्
।
वर्त्मानि
मात्रा
धिषणां
च
सूतं
सत्त्वं
बृहद्बन्धुरमीशसृष्टम्
42
▾
Meaning
Keep
अक्षं
दशप्राणमधर्मधर्मौ
चक्रेऽभिमानं
रथिनं
च
जीवम्
।
धनुर्हि
तस्य
प्रणवं
पठन्ति
शरं
तु
जीवं
परमेव
लक्ष्यम्
43
▾
Meaning
Keep
रागो
द्वेषश्च
लोभश्च
शोकमोहौ
भयं
मदः
।
मानोऽवमानोऽसूया
च
माया
हिंसा
च
मत्सरः
44
▾
Meaning
Keep
रजः
प्रमादः
क्षुन्निद्रा
शत्रवस्त्वेवमादयः
।
रजस्तमःप्रकृतयः
सत्त्वप्रकृतयः
क्वचित्
45
▾
Meaning
Keep
यावन्नृकायरथमात्मवशोपकल्पं
धत्ते
गरिष्ठचरणार्चनया
निशातम्
।
ज्ञानासिमच्युतबलो
दधदस्तशत्रुः
स्वानन्दतुष्ट
उपशान्त
इदं
विजह्यात्
46
▾
Meaning
Keep
नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता
नीत्वोत्पथं
विषयदस्युषु
निक्षिपन्ति ।
ते
दस्यवः
सहयसूतममुं
तमोऽन्धे
संसारकूप
उरुमृत्युभये
क्षिपन्ति
47
▾
Meaning
Keep
प्रवृत्तं
च
निवृत्तं
च
द्विविधं
कर्म
वैदिकम्
।
आवर्तते
प्रवृत्तेन
निवृत्तेनाश्नुतेऽमृतम्
48
▾
Meaning
Keep
हिंस्रं
द्रव्यमयं
काम्यमग्निहोत्राद्यशान्तिदम्
।
दर्शश्च
पूर्णमासश्च
चातुर्मास्यं
पशुः
सुतः
49
▾
Meaning
Keep
एतदिष्टं
प्रवृत्ताख्यं
हुतं
प्रहुतमेव
च
।
पूर्तं
सुरालयारामकूपाजीव्यादिलक्षणम्
50
▾
Meaning
Keep
द्रव्यसूक्ष्मविपाकश्च
धूमो
रात्रिरपक्षयः
।
अयनं
दक्षिणं
सोमो
दर्श
ओषधिवीरुधः
51
▾
Meaning
Keep
अन्नं
रेत
इति
क्ष्मेश
पितृयानं
पुनर्भवः
।
एकैकश्येनानुपूर्वं
भूत्वा
भूत्वेह
जायते
52
▾
Meaning
Keep
निषेकादिश्मशानान्तैः
संस्कारैः
संस्कृतो
द्विजः
।
इन्द्रियेषु
क्रियायज्ञान्
ज्ञानदीपेषु
जुह्वति
53
▾
Meaning
Keep
इन्द्रियाणि
मनस्यूर्मौ
वाचि
वैकारिकं
मनः
।
वाचं
वर्णसमाम्नाये
तमोंकारे
स्वरे
न्यसेत्
।
ओंङ्कारं
बिन्दौ
नादे
तं
तं
तु
प्राणे
महत्यमुम्
54
▾
Meaning
Keep
अग्निः
सूर्यो
दिवा
प्राह्णः
शुक्लो
राकोत्तरं
स्वराट्
।
विश्वश्च
तैजसः
प्राज्ञस्तुर्य
आत्मा
समन्वयात्
55
▾
Meaning
Keep
देवयानमिदं
प्राहुर्भूत्वा
भूत्वानुपूर्वशः
।
आत्मयाज्युपशान्तात्मा
ह्यात्मस्थो
न
निवर्तते
56
▾
Meaning
Keep
य
एते
पितृदेवानामयने
वेदनिर्मिते
।
शास्त्रेण
चक्षुषा
वेद
जनस्थोऽपि
न
मुह्यति
57
▾
Meaning
Keep
आदावन्ते
जनानां
सद्बहिरन्तः
परावरम्
।
ज्ञानं
ज्ञेयं
वचो
वाच्यं
तमो
ज्योतिस्त्वयं
स्वयम्
58
▾
Meaning
Keep
आबाधितोऽपि
ह्याभासो
यथा
वस्तुतया
स्मृतः
।
दुर्घटत्वादैन्द्रियकं
तद्वदर्थविकल्पितम्
59
▾
Meaning
Keep
क्षित्यादीनामिहार्थानां
छाया
न
कतमापि
हि
।
न
संघातो
विकारोऽपि
न
पृथङ्नान्वितो
मृषा
60
▾
Meaning
Keep
धातवोऽवयवित्वाच्च
तन्मात्रावयवैर्विना
।
न
स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः
61
▾
Meaning
Keep
स्यात्सादृश्यभ्रमस्तावद्विकल्पे
सति
वस्तुनः
।
जाग्रत्स्वापौ
यथा
स्वप्ने
तथा
विधिनिषेधता
62
▾
Meaning
Keep
भावाद्वैतं
क्रियाद्वैतं
द्रव्याद्वैतं
तथाऽऽत्मनः
।
वर्तयन्
स्वानुभूत्येह
त्रीन्
स्वप्नान्
धुनुते
मुनिः
63
▾
Meaning
Keep
कार्यकारणवस्त्वैक्यदर्शनं
पटतन्तुवत्
।
अवस्तुत्वाद्विकल्पस्य
भावाद्वैतं
तदुच्यते
64
▾
Meaning
Keep
यद्ब्रह्मणि
परे
साक्षात्सर्वकर्मसमर्पणम्
।
मनोवाक्तनुभिः
पार्थ
क्रियाद्वैतं
तदुच्यते
65
▾
Meaning
Keep
आत्मजायासुतादीनामन्येषां
सर्वदेहिनाम्
।
यत्स्वार्थकामयोरैक्यं
द्रव्याद्वैतं
तदुच्यते
66
▾
Meaning
Keep
यद्
यस्य
वानिषिद्धं
स्याद्
येन
यत्र
यतो
नृप
।
स
तेनेहेत
कर्माणि
नरो
नान्यैरनापदि
67
▾
Meaning
Keep
एतैरन्यैश्च
वेदोक्तैर्वर्तमानः
स्वकर्मभिः
।
गृहेऽप्यस्य
गतिं
यायाद्राजंस्तद्भक्तिभाङ्
नरः
68
▾
Meaning
Keep
यथा
हि
यूयं
नृपदेव
दुस्त्यजा-
दापद्गणादुत्तरतात्मनः
प्रभोः
।
यत्पादपङ्केरुहसेवया
भवा-
नहारषीन्निर्जितदिग्गजः
क्रतून्
69
▾
Meaning
Keep
अहं
पुराभवं
कश्चिद्गन्धर्व
उपबर्हणः
।
नाम्नातीते
महाकल्पे
गन्धर्वाणां
सुसम्मतः
70
▾
Meaning
Keep
रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शनः
।
स्त्रीणां
प्रियतमो
नित्यं
मत्तस्तु
पुरलम्पटः
71
▾
Meaning
Keep
एकदा
देवसत्रे
तु
गन्धर्वाप्सरसां
गणाः
।
उपहूता
विश्वसृग्भिर्हरिगाथोपगायने
72
▾
Meaning
Keep
अहं
च
गायंस्तद्विद्वान्
स्त्रीभिः
परिवृतो
गतः
।
ज्ञात्वा
विश्वसृजस्तन्मे
हेलनं
शेपुरोजसा
।
याहि
त्वं
शूद्रतामाशु
नष्टश्रीः
कृतहेलनः
73
▾
Meaning
Keep
तावद्दास्यामहं
जज्ञे
तत्रापि
ब्रह्मवादिनाम्
।
शुश्रूषयानुषङ्गेण
प्राप्तोऽहं
ब्रह्मपुत्रताम्
74
▾
Meaning
Keep
धर्मस्ते
गृहमेधीयो
वर्णितः
पापनाशनः
।
गृहस्थो
येन
पदवीमञ्जसा
न्यासिनामियात्
75
▾
Meaning
Keep
यूयं
नृलोके
बत
भूरिभागा
लोकं
पुनाना
मुनयोऽभियन्ति
।
येषां
गृहानावसतीति
साक्षा-
द्गूढं
परं
ब्रह्म
मनुष्यलिङ्गम्
76
▾
Meaning
Keep
स
वा
अयं
ब्रह्म
महद्विमृग्य
कैवल्यनिर्वाणसुखानुभूतिः
।
प्रियः
सुहृद्
वः
खलु
मातुलेय
आत्मार्हणीयो
विधिकृद्गुरुश्च
77
▾
Meaning
Keep
न
यस्य
साक्षाद्भवपद्मजादिभी
रूपं
धिया
वस्तुतयोपवर्णितम्
।
मौनेन
भक्त्योपशमेन
पूजितः
प्रसीदतामेष
स
सात्वतां
पतिः
78
▾
Meaning
Keep
इति
देवर्षिणा
प्रोक्तं
निशम्य
भरतर्षभः
।
पूजयामास
सुप्रीतः
कृष्णं
च
प्रेमविह्वलः
79
▾
Meaning
Keep
कृष्णपार्थावुपामन्त्र्य
पूजितः
प्रययौ
मुनिः
।
श्रुत्वा
कृष्णं
परं
ब्रह्म
पार्थः
परमविस्मितः
80
▾
Meaning
Keep
इति
दाक्षायणीनां
ते
पृथग्वंशा
प्रकीर्तिताः
।
देवासुरमनुष्याद्या
लोका
यत्र
चराचराः
Previous
←
The Householder's Way, and the Worthy Vessel
Next
The Manus, and the Prayer of Svayambhuva
→