Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Manus, and the Prayer of Svayambhuva
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
स्वायम्भुवस्येह
गुरो
वंशोऽयं
विस्तराच्छ्रुतः
।
यत्र
विश्वसृजां
सर्गो
मनूनन्यान्
वदस्व
नः
2
▾
Meaning
Keep
यत्र
यत्र
हरेर्जन्म
कर्माणि
च
महीयसः
।
गृणन्ति
कवयो
ब्रह्मंस्तानि
नो
वद
शृण्वताम्
3
▾
Meaning
Keep
यद्यस्मिन्नन्तरे
ब्रह्मन्
भगवान्
विश्वभावनः
।
कृतवान्
कुरुते
कर्ता
ह्यतीतेऽनागतेऽद्य
वा
4
▾
Meaning
Keep
मनवोऽस्मिन्
व्यतीताः
षट्
कल्पे
स्वायम्भुवादयः
।
आद्यस्ते
कथितो
यत्र
देवादीनां
च
सम्भवः
5
▾
Meaning
Keep
आकूत्यां
देवहूत्यां
च
दुहित्रोस्तस्य
वै
मनोः
।
धर्मज्ञानोपदेशार्थं
भगवान्
पुत्रतां
गतः
6
▾
Meaning
Keep
कृतं
पुरा
भगवतः
कपिलस्यानुवर्णितम्
।
आख्यास्ये
भगवान्
यज्ञो
यच्चकार
कुरूद्वह
7
▾
Meaning
Keep
विरक्तः
कामभोगेषु
शतरूपापतिः
प्रभुः
।
विसृज्य
राज्यं
तपसे
सभार्यो
वनमाविशत्
8
▾
Meaning
Keep
सुनन्दायां
वर्षशतं
पदैकेन
भुवं
स्पृशन्
।
तप्यमानस्तपो
घोरमिदमन्वाह
भारत
9
▾
Meaning
Keep
येन
चेतयते
विश्वं
विश्वं
चेतयते
न
यम्
।
यो
जागर्ति
शयानेऽस्मिन्नायं
तं
वेद
वेद
सः
10
▾
Meaning
Keep
आत्मावास्यमिदं
विश्वं
यत्किञ्चिज्जगत्यां
जगत्
।
तेन
त्यक्तेन
भुञ्जीथा
मा
गृधः
कस्य
स्विद्धनम्
11
▾
Meaning
Keep
यं
पश्यति
न
पश्यन्तं
चक्षुर्यस्य
न
रिष्यति
।
तं
भूतनिलयं
देवं
सुपर्णमुपधावत
12
▾
Meaning
Keep
न
यस्याद्यन्तौ
मध्यं
च
स्वः
परो
नान्तरं
बहिः
।
विश्वस्यामूनि
यद्यस्माद्विश्वं
च
तदृतं
महत्
13
▾
Meaning
Keep
स
विश्वकायः
पुरुहूतईशः
सत्यः
स्वयंज्योतिरजः
पुराणः
।
धत्तेऽस्य
जन्माद्यजयाऽऽत्मशक्त्या
तां
विद्ययोदस्य
निरीह
आस्ते
14
▾
Meaning
Keep
अथाग्रे
ऋषयः
कर्माणीहन्तेऽकर्महेतवे
।
ईहमानो
हि
पुरुषः
प्रायोऽनीहां
प्रपद्यते
15
▾
Meaning
Keep
ईहते
भगवानीशो
न
हि
तत्र
विसज्जते
।
आत्मलाभेन
पूर्णार्थो
नावसीदन्ति
येऽनु
तम्
16
▾
Meaning
Keep
तमीहमानं
निरहङ्कृतं
बुधं
निराशिषं
पूर्णमनन्यचोदितम्
।
नॄञ्छिक्षयन्तं
निजवर्त्मसंस्थितं
प्रभुं
प्रपद्येऽखिलधर्मभावनम्
17
▾
Meaning
Keep
इति
मन्त्रोपनिषदं
व्याहरन्तं
समाहितम्
।
दृष्ट्वासुरा
यातुधाना
जग्धुमभ्यद्रवन्
क्षुधा
18
▾
Meaning
Keep
तांस्तथावसितान्
वीक्ष्य
यज्ञः
सर्वगतो
हरिः
।
यामैः
परिवृतो
देवैर्हत्वाशासत्त्रिविष्टपम्
19
▾
Meaning
Keep
स्वारोचिषो
द्वितीयस्तु
मनुरग्नेः
सुतोऽभवत्
।
द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य
चात्मजाः
20
▾
Meaning
Keep
तत्रेन्द्रो
रोचनस्त्वासीद्देवाश्च
तुषितादयः
।
ऊर्जस्तम्भादयः
सप्त
ऋषयो
ब्रह्मवादिनः
21
▾
Meaning
Keep
ऋषेस्तु
वेदशिरसस्तुषिता
नाम
पत्न्यभूत्
।
तस्यां
जज्ञे
ततो
देवो
विभुरित्यभिविश्रुतः
22
▾
Meaning
Keep
अष्टाशीतिसहस्राणि
मुनयो
ये
धृतव्रताः
।
अन्वशिक्षन्
व्रतं
तस्य
कौमारब्रह्मचारिणः
23
▾
Meaning
Keep
तृतीय
उत्तमो
नाम
प्रियव्रतसुतो
मनुः
।
पवनः
सृञ्जयो
यज्ञहोत्राद्यास्तत्सुता
नृप
24
▾
Meaning
Keep
वसिष्ठतनयाः
सप्त
ऋषयः
प्रमदादयः
।
सत्या
वेदश्रुता
भद्रा
देवा
इन्द्रस्तु
सत्यजित्
25
▾
Meaning
Keep
धर्मस्य
सूनृतायां
तु
भगवान्
पुरुषोत्तमः
।
सत्यसेन
इति
ख्यातो
जातः
सत्यव्रतैः
सह
26
▾
Meaning
Keep
सोऽनृतव्रतदुःशीलानसतो
यक्षराक्षसान्
।
भूतद्रुहो
भूतगणांस्त्ववधीत्सत्यजित्सखः
27
▾
Meaning
Keep
चतुर्थ
उत्तमभ्राता
मनुर्नाम्ना
च
तामसः
।
पृथुः
ख्यातिर्नरः
केतुरित्याद्या
दश
तत्सुताः
28
▾
Meaning
Keep
सत्यका
हरयो
वीरा
देवास्त्रिशिख
ईश्वरः
।
ज्योतिर्धामादयः
सप्त
ऋषयस्तामसेऽन्तरे
29
▾
Meaning
Keep
देवा
वैधृतयो
नाम
विधृतेस्तनया
नृप
।
नष्टाः
कालेन
यैर्वेदा
विधृताः
स्वेन
तेजसा
30
▾
Meaning
Keep
तत्रापि
जज्ञे
भगवान्
हरिण्यां
हरिमेधसः
।
हरिरित्याहृतो
येन
गजेन्द्रो
मोचितो
ग्रहात्
31
▾
Meaning
Keep
बादरायण
एतत्ते
श्रोतुमिच्छामहे
वयम्
।
हरिर्यथा
गजपतिं
ग्राहग्रस्तममूमुचत्
32
▾
Meaning
Keep
तत्कथा
सुमहत्पुण्यं
धन्यं
स्वस्त्ययनं
शुभम्
।
यत्र
यत्रोत्तमश्लोको
भगवान्
गीयते
हरिः
33
▾
Meaning
Keep
परीक्षितैवं
स
तु
बादरायणिः
प्रायोपविष्टेन
कथासु
चोदितः
।
उवाच
विप्राः
प्रतिनन्द्य
पार्थिवं
मुदा
मुनीनां
सदसि
स्म
शृण्वताम्
Previous
←
Narada's Last Instruction to Yudhisthira
Next
The Elephant and the Crocodile
→