Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Elephant and the Crocodile
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
आसीद्गिरिवरो
राजंस्त्रिकूट
इति
विश्रुतः
।
क्षीरोदेनावृतः
श्रीमान्
योजनायुतमुच्छ्रितः
2
▾
Meaning
Keep
तावता
विस्तृतः
पर्यक्
त्रिभिः
शृङ्गैः
पयोनिधिम्
।
दिशः
खं
रोचयन्नास्ते
रौप्यायसहिरण्मयैः
3
▾
Meaning
Keep
अन्यैश्च
ककुभः
सर्वा
रत्नधातुविचित्रितैः
।
नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम्
4
▾
Meaning
Keep
स
चावनिज्यमानाङ्घ्रिः
समन्तात्
पयऊर्मिभिः
।
करोति
श्यामलां
भूमिं
हरिन्मरकताश्मभिः
5
▾
Meaning
Keep
सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः
किन्नरैरप्सरोभिश्च
क्रीडद्भिर्जुष्टकन्दरः
6
▾
Meaning
Keep
यत्र
सङ्गीतसन्नादैर्नदद्गुहममर्षया
।
अभिगर्जन्ति
हरयः
श्लाघिनः
परशङ्कया
7
▾
Meaning
Keep
नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतः
।
चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गमः
8
▾
Meaning
Keep
सरित्सरोभिरच्छोदैः
पुलिनैर्मणिवालुकैः
।
देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युतः
9
▾
Meaning
Keep
तस्य
द्रोण्यां
भगवतो
वरुणस्य
महात्मनः
।
उद्यानमृतुमन्नाम
आक्रीडं
सुरयोषिताम्
10
▾
Meaning
Keep
सर्वतोऽलङ्कृतं
दिव्यैर्नित्यपुष्पफलद्रुमैः
मन्दारैः
पारिजातैश्च
पाटलाशोकचम्पकैः
11
▾
Meaning
Keep
चूतैः
प्रियालैः
पनसैराम्रैराम्रातकैरपि
।
क्रमुकैर्नारिकेलैश्च
खर्जूरैर्बीजपूरकैः
12
▾
Meaning
Keep
मधुकैः
शालतालैश्च
तमालैरसनार्जुनैः
अरिष्टोडुम्बरप्लक्षैर्वटैः
किंशुकचन्दनैः
13
▾
Meaning
Keep
पिचुमर्दैः
कोविदारैः
सरलैः
सुरदारुभिः
द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः
14
▾
Meaning
Keep
बिल्वैः
कपित्थैर्जम्बीरैर्वृतो
भल्लातकादिभिः
।
तस्मिन्
सरः
सुविपुलं
लसत्काञ्चनपङ्कजम्
15
▾
Meaning
Keep
कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम्
।
मत्तषट्पदनिर्घुष्टं
शकुन्तैश्च
कलस्वनैः
16
▾
Meaning
Keep
हंसकारण्डवाकीर्णं
चक्राह्वैः
सारसैरपि
।
जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम्
17
▾
Meaning
Keep
मत्स्यकच्छपसञ्चारचलत्पद्मरजःपयः
।
कदम्बवेतसनलनीपवञ्जुलकैर्वृतम्
18
▾
Meaning
Keep
कुन्दैः
कुरुबकाशोकैः
शिरीषैः
कूटजेङ्गुदैः
।
कुब्जकैः
स्वर्णयूथीभिर्नागपुन्नागजातिभिः
19
▾
Meaning
Keep
मल्लिकाशतपत्रैश्च
माधवीजालकादिभिः
।
शोभितं
तीरजैश्चान्यैर्नित्यर्तुभिरलं
द्रुमैः
20
▾
Meaning
Keep
तत्रैकदा
तद्गिरिकाननाश्रयः
करेणुभिर्वारणयूथपश्चरन्
।
सकण्टकं
कीचकवेणुवेत्रवद्
विशालगुल्मं
प्ररुजन्वनस्पतीन्
21
▾
Meaning
Keep
यद्गन्धमात्राद्धरयो
गजेन्द्रा
व्याघ्रादयो
व्यालमृगाः
सखड्गाः
महोरगाश्चापि
भयाद्द्रवन्ति
सगौरकृष्णाः
सरभाश्चमर्यः
22
▾
Meaning
Keep
वृका
वराहा
महिषर्क्षशल्या
गोपुच्छशालावृकमर्कटाश्च
।
अन्यत्र
क्षुद्रा
हरिणाः
शशादयश्चरन्त्यभीता
यदनुग्रहेण
23
▾
Meaning
Keep
स
घर्मतप्तः
करिभिः
करेणुभि-
र्वृतो
मदच्युत्करभैरनुद्रुतः
।
गिरिं
गरिम्णा
परितः
प्रकम्पयन्
निषेव्यमाणोऽलिकुलैर्मदाशनैः
24
▾
Meaning
Keep
सरोऽनिलं
पङ्कजरेणुरूषितं
जिघ्रन्
विदूरान्मदविह्वलेक्षणः
।
वृतः
स्वयूथेन
तृषार्दितेन
तत्
सरोवराभ्याशमथागमद्द्रुतम्
25
▾
Meaning
Keep
विगाह्य
तस्मिन्नमृताम्बु
निर्मलं
हेमारविन्दोत्पलरेणुवासितम्
।
पपौ
निकामं
निजपुष्करोद्धृत-
मात्मानमद्भिः
स्नपयन्
गतक्लमः
26
▾
Meaning
Keep
स्वपुष्करेणोद्धृतशीकराम्बुभिर्निपाययन्
संस्नपयन्यथा
गृही
।
घृणी
करेणुः
करभांश्च
दुर्मदो
नाचष्ट
कृच्छ्रं
कृपणोऽजमायया
27
▾
Meaning
Keep
तं
तत्र
कश्चिन्नृप
दैवचोदितो
ग्राहो
बलीयांश्चरणे
रुषाग्रहीत्
।
यदृच्छयैवं
व्यसनं
गतो
गजो
यथाबलं
सोऽतिबलो
विचक्रमे
28
▾
Meaning
Keep
तथाऽऽतुरं
यूथपतिं
करेणवो
विकृष्यमाणं
तरसा
बलीयसा
।
विचुक्रुशुर्दीनधियोऽपरे
गजाः
पार्ष्णिग्रहास्तारयितुं
न
चाशकन्
29
▾
Meaning
Keep
नियुध्यतोरेवमिभेन्द्रनक्रयो-
र्विकर्षतोरन्तरतो
बहिर्मिथः
।
समाः
सहस्रं
व्यगमन्
महीपते
सप्राणयोश्चित्रममंसतामराः
30
▾
Meaning
Keep
ततो
गजेन्द्रस्य
मनोबलौजसां
कालेन
दीर्घेण
महानभूद्व्ययः
।
विकृष्यमाणस्य
जलेऽवसीदतो
विपर्ययोऽभूत्सकलं
जलौकसः
31
▾
Meaning
Keep
इत्थं
गजेन्द्रः
स
यदाऽऽप
सङ्कटं
प्राणस्य
देही
विवशो
यदृच्छया
।
अपारयन्नात्मविमोक्षणे
चिरं
दध्याविमां
बुद्धिमथाभ्यपद्यत
32
▾
Meaning
Keep
न
मामिमे
ज्ञातय
आतुरं
गजाः
कुतः
करिण्यः
प्रभवन्ति
मोचितुम्
।
ग्राहेण
पाशेन
विधातुरावृतो-
ऽप्यहं
च
तं
यामि
परं
परायणम्
33
▾
Meaning
Keep
यः
कश्चनेशो
बलिनोऽन्तकोरगा-
त्प्रचण्डवेगादभिधावतो
भृशम्
।
भीतं
प्रपन्नं
परिपाति
यद्भया-
न्मृत्युः
प्रधावत्यरणं
तमीमहि
Previous
←
The Manus, and the Prayer of Svayambhuva
Next
Gajendra's Prayer
→