Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Gajendra's Prayer
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
व्यवसितो
बुद्ध्या
समाधाय
मनो
हृदि
।
जजाप
परमं
जाप्यं
प्राग्जन्मन्यनुशिक्षितम्
2
▾
Meaning
Keep
ॐ
नमो
भगवते
तस्मै
यत
एतच्चिदात्मकम्
।
पुरुषायादिबीजाय
परेशायाभिधीमहि
3
▾
Meaning
Keep
यस्मिन्निदं
यतश्चेदं
येनेदं
य
इदं
स्वयम्
।
योऽस्मात्परस्माच्च
परस्तं
प्रपद्ये
स्वयम्भुवम्
4
▾
Meaning
Keep
यः
स्वात्मनीदं
निजमाययार्पितं
क्वचिद्विभातं
क्व
च
तत्तिरोहितम्
।
अविद्धदृक्साक्ष्युभयं
तदीक्षते
स
आत्ममूलोऽवतु
मां
परात्परः
5
▾
Meaning
Keep
कालेन
पञ्चत्वमितेषु
कृत्स्नशो
लोकेषु
पालेषु
च
सर्वहेतुषु
।
तमस्तदाऽऽसीद्
गहनं
गभीरं
यस्तस्य
पारेऽभिविराजते
विभुः
6
▾
Meaning
Keep
न
यस्य
देवा
ऋषयः
पदं
विदु-
र्जन्तुः
पुनः
कोऽर्हति
गन्तुमीरितुम्
।
यथा
नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमणः
स
मावतु
7
▾
Meaning
Keep
दिदृक्षवो
यस्य
पदं
सुमङ्गलं
विमुक्तसङ्गा
मुनयः
सुसाधवः
।
चरन्त्यलोकव्रतमव्रणं
वने
भूतात्मभूताः
सुहृदः
स
मे
गतिः
8
▾
Meaning
Keep
न
विद्यते
यस्य
च
जन्म
कर्म
वा
न
नामरूपे
गुणदोष
एव
वा
।
तथापि
लोकाप्ययसम्भवाय
यः
स्वमायया
तान्यनुकालमृच्छति
9
▾
Meaning
Keep
तस्मै
नमः
परेशाय
ब्रह्मणेऽनन्तशक्तये
।
अरूपायोरुरूपाय
नम
आश्चर्यकर्मणे
10
▾
Meaning
Keep
नम
आत्मप्रदीपाय
साक्षिणे
परमात्मने
।
नमो
गिरां
विदूराय
मनसश्चेतसामपि
11
▾
Meaning
Keep
सत्त्वेन
प्रतिलभ्याय
नैष्कर्म्येण
विपश्चिता
।
नमः
कैवल्यनाथाय
निर्वाणसुखसंविदे
12
▾
Meaning
Keep
नमः
शान्ताय
घोराय
मूढाय
गुणधर्मिणे
।
निर्विशेषाय
साम्याय
नमो
ज्ञानघनाय
च
13
▾
Meaning
Keep
क्षेत्रज्ञाय
नमस्तुभ्यं
सर्वाध्यक्षाय
साक्षिणे
।
पुरुषायात्ममूलाय
मूलप्रकृतये
नमः
14
▾
Meaning
Keep
सर्वेन्द्रियगुणद्रष्ट्रे
सर्वप्रत्ययहेतवे
।
असताच्छाययोक्ताय
सदाभासाय
ते
नमः
15
▾
Meaning
Keep
नमो
नमस्तेऽखिलकारणाय
निष्कारणायाद्भुतकारणाय
।
सर्वागमाम्नायमहार्णवाय
नमोऽपवर्गाय
परायणाय
16
▾
Meaning
Keep
गुणारणिच्छन्नचिदूष्मपाय
तत्क्षोभविस्फूर्जितमानसाय
।
नैष्कर्म्यभावेन
विवर्जितागमस्वयंप्रकाशाय
नमस्करोमि
17
▾
Meaning
Keep
मादृक्
प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय
भूरिकरुणाय
नमोऽलयाय
।
स्वांशेन
सर्वतनुभृन्मनसि
प्रतीत-
प्रत्यग्दृशे
भगवते
बृहते
नमस्ते
18
▾
Meaning
Keep
आत्मात्मजाप्तगृहवित्तजनेषु
सक्तैर्दुष्प्रापणाय
गुणसङ्गविवर्जिताय
।
मुक्तात्मभिः
स्वहृदये
परिभाविताय
ज्ञानात्मने
भगवते
नम
ईश्वराय
19
▾
Meaning
Keep
यं
धर्मकामार्थविमुक्तिकामा
भजन्त
इष्टां
गतिमाप्नुवन्ति
।
किं
चाशिषो
रात्यपि
देहमव्ययं
करोतु
मेऽदभ्रदयो
विमोक्षणम्
20
▾
Meaning
Keep
एकान्तिनो
यस्य
न
कञ्चनार्थं
वाञ्छन्ति
ये
वै
भगवत्प्रपन्नाः
।
अत्यद्भुतं
तच्चरितं
सुमङ्गलं
गायन्त
आनन्दसमुद्रमग्नाः
21
▾
Meaning
Keep
तमक्षरं
ब्रह्म
परं
परेश-
मव्यक्तमाध्यात्मिकयोगगम्यम्
।
अतीन्द्रियं
सूक्ष्ममिवातिदूर-
मनन्तमाद्यं
परिपूर्णमीडे
22
▾
Meaning
Keep
यस्य
ब्रह्मादयो
देवा
वेदा
लोकाश्चराचराः
।
नामरूपविभेदेन
फल्ग्व्या
च
कलया
कृताः
23
▾
Meaning
Keep
यथार्चिषोऽग्नेः
सवितुर्गभस्तयो
निर्यान्ति
संयान्त्यसकृत्स्वरोचिषः
।
तथा
यतोऽयं
गुणसम्प्रवाहो
बुद्धिर्मनः
खानि
शरीरसर्गाः
24
▾
Meaning
Keep
स
वै
न
देवासुरमर्त्यतिर्यङ्-
न
स्त्री
न
षण्ढो
न
पुमान्न
जन्तुः
।
नायं
गुणः
कर्म
न
सन्न
चास-
न्निषेधशेषो
जयतादशेषः
25
▾
Meaning
Keep
जिजीविषे
नाहमिहामुया
कि-
मन्तर्बहिश्चावृतयेभयोन्या
।
इच्छामि
कालेन
न
यस्य
विप्लव-
स्तस्यात्मलोकावरणस्य
मोक्षम्
26
▾
Meaning
Keep
सोऽहं
विश्वसृजं
विश्वमविश्वं
विश्ववेदसम्
।
विश्वात्मानमजं
ब्रह्म
प्रणतोऽस्मि
परं
पदम्
27
▾
Meaning
Keep
योगरन्धितकर्माणो
हृदि
योगविभाविते
।
योगिनो
यं
प्रपश्यन्ति
योगेशं
तं
नतोऽस्म्यहम्
28
▾
Meaning
Keep
नमो
नमस्तुभ्यमसह्यवेग-
शक्तित्रयायाखिलधीगुणाय
।
प्रपन्नपालाय
दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने
29
▾
Meaning
Keep
नायं
वेद
स्वमात्मानं
यच्छक्त्याहंधिया
हतम्
।
तं
दुरत्ययमाहात्म्यं
भगवन्तमितोऽस्म्यहम्
30
▾
Meaning
Keep
एवं
गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो
विविधलिङ्गभिदाभिमानाः
।
नैते
यदोपससृपुर्निखिलात्मकत्वा-
त्तत्राखिलामरमयो
हरिराविरासीत्
31
▾
Meaning
Keep
तं
तद्वदार्तमुपलभ्य
जगन्निवासः
स्तोत्रं
निशम्य
दिविजैः
सह
संस्तुवद्भिः
।
छन्दोमयेन
गरुडेन
समुह्यमान-
श्चक्रायुधोऽभ्यगमदाशु
यतो
गजेन्द्रः
32
▾
Meaning
Keep
सोऽन्तःसरस्युरुबलेन
गृहीत
आर्तो
दृष्ट्वा
गरुत्मति
हरिं
ख
उपात्तचक्रम्
।
उत्क्षिप्य
साम्बुजकरं
गिरमाह
कृच्छ्रा-
न्नारायणाखिलगुरो
भगवन्नमस्ते
33
▾
Meaning
Keep
तं
वीक्ष्य
पीडितमजः
सहसावतीर्य
सग्राहमाशु
सरसः
कृपयोज्जहार
।
ग्राहाद्
विपाटितमुखादरिणा
गजेन्द्रं
संपश्यतां
हरिरमूमुचदुच्छ्रियाणाम्
Previous
←
The Elephant and the Crocodile
Next
The Elephant Set Free
→