Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Elephant Set Free
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तदा
देवर्षिगन्धर्वा
ब्रह्मेशानपुरोगमाः
।
मुमुचुः
कुसुमासारं
शंसन्तः
कर्म
तद्धरेः
2
▾
Meaning
Keep
नेदुर्दुन्दुभयो
दिव्या
गन्धर्वा
ननृतुर्जगुः
।
ऋषयश्चारणाः
सिद्धास्तुष्टुवुः
पुरुषोत्तमम्
3
▾
Meaning
Keep
योऽसौ
ग्राहः
स
वै
सद्यः
परमाश्चर्यरूपधृक्
।
मुक्तो
देवलशापेन
हूहूर्गन्धर्वसत्तमः
4
▾
Meaning
Keep
प्रणम्य
शिरसाधीशमुत्तमश्लोकमव्ययम्
।
अगायत
यशोधाम
कीर्तन्यगुणसत्कथम्
5
▾
Meaning
Keep
सोऽनुकम्पित
ईशेन
परिक्रम्य
प्रणम्य
तम्
।
लोकस्य
पश्यतो
लोकं
स्वमगान्मुक्तकिल्बिषः
6
▾
Meaning
Keep
गजेन्द्रो
भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात्
।
प्राप्तो
भगवतो
रूपं
पीतवासाश्चतुर्भुजः
7
▾
Meaning
Keep
स
वै
पूर्वमभूद्राजा
पाण्ड्यो
द्रविडसत्तमः
।
इन्द्रद्युम्न
इति
ख्यातो
विष्णुव्रतपरायणः
8
▾
Meaning
Keep
स
एकदाऽऽराधनकाल
आत्मवान्
गृहीतमौनव्रत
ईश्वरं
हरिम्
।
जटाधरस्तापस
आप्लुतोऽच्युतं
समर्चयामास
कुलाचलाश्रमः
9
▾
Meaning
Keep
यदृच्छया
तत्र
महायशा
मुनिः
समागमच्छिष्यगणैः
परिश्रितः
।
तं
वीक्ष्य
तूष्णीमकृतार्हणादिकं
रहस्युपासीनमृषिश्चुकोप
ह
10
▾
Meaning
Keep
तस्मा
इमं
शापमदादसाधुरयं
दुरात्माकृतबुद्धिरद्य
।
विप्रावमन्ता
विशतां
तमोऽन्धं
यथा
गजः
स्तब्धमतिः
स
एव
11
▾
Meaning
Keep
एवं
शप्त्वा
गतोऽगस्त्यो
भगवान्
नृप
सानुगः
।
इन्द्रद्युम्नोऽपि
राजर्षिर्दिष्टं
तदुपधारयन्
12
▾
Meaning
Keep
आपन्नः
कौञ्जरीं
योनिमात्मस्मृतिविनाशिनीम्
।
हर्यर्चनानुभावेन
यद्गजत्वेऽप्यनुस्मृतिः
13
▾
Meaning
Keep
एवं
विमोक्ष्य
गजयूथपमब्जनाभ-
स्तेनापिपार्षदगतिं
गमितेन
युक्तः
।
गन्धर्वसिद्धविबुधैरुपगीयमान-
कर्माद्भुतं
स्वभवनं
गरुडासनोऽगात्
14
▾
Meaning
Keep
एतन्महाराज
तवेरितो
मया
कृष्णानुभावो
गजराजमोक्षणम्
।
स्वर्ग्यं
यशस्यं
कलिकल्मषापहं
दुःस्वप्ननाशं
कुरुवर्य
शृण्वताम्
15
▾
Meaning
Keep
यथानुकीर्तयन्त्येतच्छ्रेयस्कामा
द्विजातयः
।
शुचयः
प्रातरुत्थाय
दुःस्वप्नाद्युपशान्तये
16
▾
Meaning
Keep
इदमाह
हरिः
प्रीतो
गजेन्द्रं
कुरुसत्तम
।
शृण्वतां
सर्वभूतानां
सर्वभूतमयो
विभुः
17
▾
Meaning
Keep
श्रीभगवानुवाच ।
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
वेत्रकीचकवेणूनां गुल्मानि सुरपादपान्
18
▾
Meaning
Keep
शृङ्गाणीमानि
धिष्ण्यानि
ब्रह्मणो
मे
शिवस्य
च
।
क्षीरोदं
मे
प्रियं
धाम
श्वेतद्वीपं
च
भास्वरम्
19
▾
Meaning
Keep
श्रीवत्सं
कौस्तुभं
मालां
गदां
कौमोदकीं
मम
।
सुदर्शनं
पाञ्चजन्यं
सुपर्णं
पतगेश्वरम्
20
▾
Meaning
Keep
शेषं
च
मत्कलां
सूक्ष्मां
श्रियं
देवीं
मदाश्रयाम्
।
ब्रह्माणं
नारदमृषिं
भवं
प्रह्रादमेव
च
21
▾
Meaning
Keep
मत्स्यकूर्मवराहाद्यैरवतारैः
कृतानि
मे
।
कर्माण्यनन्तपुण्यानि
सूर्यं
सोमं
हुताशनम्
22
▾
Meaning
Keep
प्रणवं
सत्यमव्यक्तं
गोविप्रान्
धर्ममव्ययम्
।
दाक्षायणीर्धर्मपत्नीः
सोमकश्यपयोरपि
23
▾
Meaning
Keep
गङ्गां
सरस्वतीं
नन्दां
कालिन्दीं
सितवारणम्
।
ध्रुवं
ब्रह्मऋषीन्
सप्त
पुण्यश्लोकांश्च
मानवान्
24
▾
Meaning
Keep
उत्थायापररात्रान्ते
प्रयताः
सुसमाहिताः
।
स्मरन्ति
मम
रूपाणि
मुच्यन्ते
ह्येनसोऽखिलात्
25
▾
Meaning
Keep
ये
मां
स्तुवन्त्यनेनाङ्ग
प्रतिबुध्य
निशात्यये
।
तेषां
प्राणात्यये
चाहं
ददामि
विपुलां
गतिम्
26
▾
Meaning
Keep
इत्यादिश्य
हृषीकेशः
प्राध्माय
जलजोत्तमम्
।
हर्षयन्विबुधानीकमारुरोह
खगाधिपम्
Previous
←
Gajendra's Prayer
Next
The Gods Go to Ajita
→