Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Gods Go to Ajita
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
राजन्नुदितमेतत्ते
हरेः
कर्माघनाशनम्
।
गजेन्द्रमोक्षणं
पुण्यं
रैवतं
त्वन्तरं
शृणु
2
▾
Meaning
Keep
पञ्चमो
रैवतो
नाम
मनुस्तामससोदरः
।
बलिविन्ध्यादयस्तस्य
सुता
हार्जुनपूर्वकाः
3
▾
Meaning
Keep
विभुरिन्द्रः
सुरगणा
राजन्
भूतरयादयः
।
हिरण्यरोमा
वेदशिरा
ऊर्ध्वबाह्वादयो
द्विजाः
4
▾
Meaning
Keep
पत्नी
विकुण्ठा
शुभ्रस्य
वैकुण्ठैः
सुरसत्तमैः
।
तयोः
स्वकलया
जज्ञे
वैकुण्ठो
भगवान्
स्वयम्
5
▾
Meaning
Keep
वैकुण्ठः
कल्पितो
येन
लोको
लोकनमस्कृतः
।
रमया
प्रार्थ्यमानेन
देव्या
तत्प्रियकाम्यया
6
▾
Meaning
Keep
तस्यानुभावः
कथितो
गुणाश्च
परमोदयाः
।
भौमान्
रेणून्
स
विममे
यो
विष्णोर्वर्णयेद्गुणान्
7
▾
Meaning
Keep
षष्ठश्च
चक्षुषः
पुत्रश्चाक्षुषो
नाम
वै
मनुः
।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजाः
8
▾
Meaning
Keep
इन्द्रो
मन्त्रद्रुमस्तत्र
देवा
आप्यादयो
गणाः
।
मुनयस्तत्र
वै
राजन्
हविष्मद्वीरकादयः
9
▾
Meaning
Keep
तत्रापि
देवसम्भूत्यां
वैराजस्याभवत्सुतः
।
अजितो
नाम
भगवानंशेन
जगतः
पतिः
10
▾
Meaning
Keep
पयोधिं
येन
निर्मथ्य
सुराणां
साधिता
सुधा
।
भ्रममाणोऽम्भसि
धृतः
कूर्मरूपेण
मन्दरः
11
▾
Meaning
Keep
यथा
भगवता
ब्रह्मन्
मथितः
क्षीरसागरः
।
यदर्थं
वा
यतश्चाद्रिं
दधाराम्बुचरात्मना
12
▾
Meaning
Keep
यथामृतं
सुरैः
प्राप्तं
किं
चान्यदभवत्ततः
।
एतद्भगवतः
कर्म
वदस्व
परमाद्भुतम्
13
▾
Meaning
Keep
त्वया
सङ्कथ्यमानेन
महिम्ना
सात्वतां
पतेः
।
नातितृप्यति
मे
चित्तं
सुचिरं
तापतापितम्
14
▾
Meaning
Keep
सम्पृष्टो
भगवानेवं
द्वैपायनसुतो
द्विजाः
।
अभिनन्द्य
हरेर्वीर्यमभ्याचष्टुं
प्रचक्रमे
15
▾
Meaning
Keep
यदा
युद्धेऽसुरैर्देवा
बध्यमानाः
शितायुधैः
।
गतासवो
निपतिता
नोत्तिष्ठेरन्स्म
भूयशः
16
▾
Meaning
Keep
यदा
दुर्वाससः
शापात्सेन्द्रा
लोकास्त्रयो
नृप
।
निःश्रीकाश्चाभवंस्तत्र
नेशुरिज्यादयः
क्रियाः
17
▾
Meaning
Keep
निशाम्यैतत्
सुरगणा
महेन्द्रवरुणादयः
।
नाध्यगच्छन्स्वयं
मन्त्रैर्मन्त्रयन्तो
विनिश्चितम्
18
▾
Meaning
Keep
ततो
ब्रह्मसभां
जग्मुर्मेरोर्मूर्धनि
सर्वशः
।
सर्वं
विज्ञापयां
चक्रुः
प्रणताः
परमेष्ठिने
19
▾
Meaning
Keep
स
विलोक्येन्द्रवाय्वादीन्
निःसत्त्वान्
विगतप्रभान्
।
लोकानमङ्गलप्रायानसुरानयथा
विभुः
20
▾
Meaning
Keep
समाहितेन
मनसा
संस्मरन्
पुरुषं
परम्
।
उवाचोत्फुल्लवदनो
देवान्
स
भगवान्
परः
21
▾
Meaning
Keep
अहं
भवो
यूयमथोऽसुरादयो
मनुष्यतिर्यग्द्रुमघर्मजातयः
।
यस्यावतारांशकलाविसर्जिता
व्रजाम
सर्वे
शरणं
तमव्ययम्
22
▾
Meaning
Keep
न
यस्य
वध्यो
न
च
रक्षणीयो
नोपेक्षणीयादरणीयपक्षः
।
अथापि
सर्गस्थितिसंयमार्थं
धत्ते
रजःसत्त्वतमांसि
काले
23
▾
Meaning
Keep
अयं
च
तस्य
स्थितिपालनक्षणः
सत्त्वं
जुषाणस्य
भवाय
देहिनाम्
।
तस्माद्व्रजामः
शरणं
जगद्गुरुं
स्वानां
स
नो
धास्यति
शं
सुरप्रियः
24
▾
Meaning
Keep
इत्याभाष्य
सुरान्
वेधाः
सह
देवैररिन्दम
।
अजितस्य
पदं
साक्षाज्जगाम
तमसः
परम्
25
▾
Meaning
Keep
तत्रादृष्टस्वरूपाय
श्रुतपूर्वाय
वै
विभो
।
स्तुतिमब्रूत
दैवीभिर्गीभस्त्ववहितेन्द्रियः
26
▾
Meaning
Keep
अविक्रियं
सत्यमनन्तमाद्यं
गुहाशयं
निष्कलमप्रतर्क्यम्
।
मनोऽग्रयानं
वचसानिरुक्तं
नमामहे
देववरं
वरेण्यम्
27
▾
Meaning
Keep
विपश्चितं
प्राणमनोधियात्मना-
मर्थेन्द्रियाभासमनिद्रमव्रणम्
।
छायातपौ
यत्र
न
गृध्रपक्षौ
तमक्षरं
खं
त्रियुगं
व्रजामहे
28
▾
Meaning
Keep
अजस्य
चक्रं
त्वजयेर्यमाणं
मनोमयं
पञ्चदशारमाशु
।
त्रिणास्त्रभि
विद्युच्चलमष्टनेमि
यदक्षमाहुस्तमृतं
प्रपद्ये
29
▾
Meaning
Keep
य
एकवर्णं
तमसः
परं
त-
दलोकमव्यक्तमनन्तपारम्
।
आसां
चकारोपसुपर्णमेन-
मुपासते
योगरथेन
धीराः
30
▾
Meaning
Keep
न
यस्य
कश्चातितितर्ति
मायां
यया
जनो
मुह्यति
वेद
नार्थम्
।
तं
निर्जितात्मात्मगुणं
परेशं
नमाम
भूतेषु
समं
चरन्तम्
31
▾
Meaning
Keep
इमे
वयं
यत्प्रिययैव
तन्वा
सत्त्वेन
सृष्टा
बहिरन्तराविः
।
गतिं
न
सूक्ष्मामृषयश्च
विद्महे
कुतोऽसुराद्या
इतरप्रधानाः
32
▾
Meaning
Keep
पादौ
महीयं
स्वकृतैव
यस्य
चतुर्विधो
यत्र
हि
भूतसर्गः
।
स
वै
महापूरुष
आत्मतन्त्रः
प्रसीदतां
ब्रह्म
महाविभूतिः
33
▾
Meaning
Keep
अम्भस्तु
यद्रेत
उदारवीर्यं
सिध्यन्ति
जीवन्त्युत
वर्धमानाः
।
लोका
यतोऽथाखिललोकपालाः
प्रसीदतां
नः
स
महाविभूतिः
34
▾
Meaning
Keep
सोमं
मनो
यस्य
समामनन्ति
दिवौकसां
यो
बलमन्ध
आयुः
।
ईशो
नगानां
प्रजनः
प्रजानां
प्रसीदतां
नः
स
महाविभूतिः
35
▾
Meaning
Keep
अग्निर्मुखं
यस्य
तु
जातवेदा
जातः
क्रियाकाण्डनिमित्तजन्मा
।
अन्तःसमुद्रेऽनुपचन्
स्वधातून्
प्रसीदतां
नः
स
महाविभूतिः
36
▾
Meaning
Keep
यच्चक्षुरासीत्तरणिर्देवयानं
त्रयीमयो
ब्रह्मण
एष
धिष्ण्यम्
।
द्वारं
च
मुक्तेरमृतं
च
मृत्युः
प्रसीदतां
नः
स
महाविभूतिः
37
▾
Meaning
Keep
प्राणादभूद्यस्य
चराचराणां
प्राणः
सहो
बलमोजश्च
वायुः
।
अन्वास्म
सम्राजमिवानुगा
वयं
प्रसीदतां
नः
स
महाविभूतिः
38
▾
Meaning
Keep
श्रोत्राद्
दिशो
यस्य
हृदश्च
खानि
प्रजज्ञिरे
खं
पुरुषस्य
नाभ्याः
।
प्राणेन्द्रियात्मासुशरीरकेतः
प्रसीदतां
नः
स
महाविभूतिः
39
▾
Meaning
Keep
बलान्महेन्द्रस्त्रिदशाः
प्रसादा-
न्मन्योर्गिरीशो
धिषणाद्विरिञ्चः
।
खेभ्यश्च
छन्दांस्यृषयो
मेढ्रतः
कः
प्रसीदतां
नः
स
महाविभूतिः
40
▾
Meaning
Keep
श्रीर्वक्षसः
पितरश्छाययाऽऽसन्
धर्मः
स्तनादितरः
पृष्ठतोऽभूत्
।
द्यौर्यस्य
शीर्ष्णोऽप्सरसो
विहारा-
त्प्रसीदतां
नः
स
महाविभूतिः
41
▾
Meaning
Keep
विप्रो
मुखाद्
ब्रह्म
च
यस्य
गुह्यं
राजन्य
आसीद्
भुजयोर्बलं
च
।
ऊर्वोर्विडोजोऽङ्घ्रिरवेदशूद्रौ
प्रसीदतां
नः
स
महाविभूतिः
42
▾
Meaning
Keep
लोभोऽधरात्प्रीतिरुपर्यभूद्द्युति-
र्नस्तः
पशव्यः
स्पर्शेन
कामः
।
भ्रुवोर्यमः
पक्ष्मभवस्तु
कालः
प्रसीदतां
नः
स
महाविभूतिः
43
▾
Meaning
Keep
द्रव्यं
वयः
कर्म
गुणान्
विशेषं
यद्योगमायाविहितान्
वदन्ति
।
यद्दुर्विभाव्यं
प्रबुधापबाधं
प्रसीदतां
नः
स
महाविभूतिः
44
▾
Meaning
Keep
नमोऽस्तु
तस्मा
उपशान्तशक्तये
स्वाराज्यलाभप्रतिपूरितात्मने
।
गुणेषु
मायारचितेषु
वृत्तिभि-
र्नसज्जमानाय
नभस्वदूतये
45
▾
Meaning
Keep
स
त्वं
नो
दर्शयात्मानमस्मत्करणगोचरम्
।
प्रपन्नानां
दिदृक्षूणां
सस्मितं
ते
मुखाम्बुजम्
46
▾
Meaning
Keep
तैस्तैः
स्वेच्छाभूतै
रूपैः
काले
काले
स्वयं
विभो
।
कर्म
दुर्विषहं
यन्नो
भगवांस्तत्करोति
हि
47
▾
Meaning
Keep
क्लेशभूर्यल्पसाराणि
कर्माणि
विफलानि
वा
।
देहिनां
विषयार्तानां
न
तथैवार्पितं
त्वयि
48
▾
Meaning
Keep
नावमः
कर्मकल्पोऽपि
विफलायेश्वरार्पितः
।
कल्पते
पुरुषस्यैव
स
ह्यात्मा
दयितो
हितः
49
▾
Meaning
Keep
यथा
हि
स्कन्धशाखानां
तरोर्मूलावसेचनम्
।
एवमाराधनं
विष्णोः
सर्वेषामात्मनश्च
हि
50
▾
Meaning
Keep
नमस्तुभ्यमनन्ताय
दुर्वितर्क्यात्मकर्मणे
।
निर्गुणाय
गुणेशाय
सत्त्वस्थाय
च
साम्प्रतम्
Previous
←
The Elephant Set Free
Next
The Treaty and the Mountain
→