Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Treaty and the Mountain
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
स्तुतः
सुरगणैर्भगवान्
हरिरीश्वरः
।
तेषामाविरभूद्राजन्
सहस्रार्कोदयद्युतिः
2
▾
Meaning
Keep
तेनैव
महसा
सर्वे
देवाः
प्रतिहतेक्षणाः
।
नापश्यन्
खं
दिशः
क्षोणीमात्मानं
च
कुतो
विभुम्
3
▾
Meaning
Keep
विरिञ्चो
भगवान्
दृष्ट्वा
सह
शर्वेण
तां
तनुम्
।
स्वच्छां
मरकतश्यामां
कञ्जगर्भारुणेक्षणाम्
4
▾
Meaning
Keep
तप्तहेमावदातेन
लसत्कौशेयवाससा
।
प्रसन्नचारुसर्वाङ्गीं
सुमुखीं
सुन्दरभ्रुवम्
5
▾
Meaning
Keep
महामणिकिरीटेन
केयूराभ्यां
च
भूषिताम्
।
कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम्
6
▾
Meaning
Keep
काञ्चीकलापवलयहारनूपुरशोभिताम्
।
कौस्तुभाभरणां
लक्ष्मीं
बिभ्रतीं
वनमालिनीम्
7
▾
Meaning
Keep
सुदर्शनादिभिः
स्वास्त्रैर्मूर्तिमद्भिरुपासिताम्
।
तुष्टाव
देवप्रवरः
सशर्वः
पुरुषं
परम्
।
सर्वामरगणैः
साकं
सर्वाङ्गैरवनिं
गतैः
8
▾
Meaning
Keep
अजातजन्मस्थितिसंयमाया-
गुणायनिर्वाणसुखार्णवाय
।
अणोरणिम्नेऽपरिगण्यधाम्ने
महानुभावाय
नमो
नमस्ते
9
▾
Meaning
Keep
रूपं
तवैतत्पुरुषर्षभेज्यं
श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण
।
योगेन
धातः
सह
नस्त्रिलोकान्
पश्याम्यमुष्मिन्नु
ह
विश्वमूर्तौ
10
▾
Meaning
Keep
त्वय्यग्र
आसीत्त्वयि
मध्य
आसी-
त्त्वय्यन्त
आसीदिदमात्मतन्त्रे
।
त्वमादिरन्तो
जगतोऽस्य
मध्यं
घटस्य
मृत्स्नेव
परः
परस्मात्
11
▾
Meaning
Keep
त्वं
माययाऽऽत्माश्रयया
स्वयेदं
निर्माय
विश्वं
तदनुप्रविष्टः
।
पश्यन्ति
युक्ता
मनसा
मनीषिणो
गुणव्यवायेऽप्यगुणं
विपश्चितः
12
▾
Meaning
Keep
यथाग्निमेधस्यमृतं
च
गोषु
भुव्यन्नमम्बूद्यमने
च
वृत्तिम्
।
योगैर्मनुष्या
अधियन्ति
हि
त्वां
गुणेषु
बुद्ध्या
कवयो
वदन्ति
13
▾
Meaning
Keep
तं
त्वां
वयं
नाथ
समुज्जिहानं
सरोजनाभातिचिरेप्सितार्थम्
।
दृष्ट्वा
गता
निर्वृतमद्य
सर्वे
गजा
दवार्ता
इव
गाङ्गमम्भः
14
▾
Meaning
Keep
स
त्वं
विधत्स्वाखिललोकपाला
वयं
यदर्थास्तव
पादमूलम्
।
समागतास्ते
बहिरन्तरात्मन्
किं
वान्यविज्ञाप्यमशेषसाक्षिणः
15
▾
Meaning
Keep
अहं
गिरित्रश्च
सुरादयो
ये
दक्षादयोऽग्नेरिव
केतवस्ते
।
किं
वा
विदामेश
पृथग्विभाता
विधत्स्व
शं
नो
द्विजदेवमन्त्रम्
16
▾
Meaning
Keep
एवं
विरिञ्चादिभिरीडितस्त-
द्विज्ञाय
तेषां
हृदयं
यथैव
।
जगाद
जीमूतगभीरया
गिरा
बद्धाञ्जलीन्
संवृतसर्वकारकान्
17
▾
Meaning
Keep
एक
एवेश्वरस्तस्मिन्
सुरकार्ये
सुरेश्वरः
।
विहर्तुकामस्तानाह
समुद्रोन्मथनादिभिः
18
▾
Meaning
Keep
श्रीभगवानुवाच ।
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।
शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः
19
▾
Meaning
Keep
यात
दानवदैतेयैस्तावत्सन्धिर्विधीयताम्
।
कालेनानुगृहीतैस्तैर्यावद्वो
भव
आत्मनः
20
▾
Meaning
Keep
अरयोऽपि
हि
सन्धेयाः
सति
कार्यार्थगौरवे
।
अहिमूषिकवद्देवा
ह्यर्थस्य
पदवीं
गतैः
21
▾
Meaning
Keep
अमृतोत्पादने
यत्नः
क्रियतामविलम्बितम्
।
यस्य
पीतस्य
वै
जन्तुर्मृत्युग्रस्तोऽमरो
भवेत्
22
▾
Meaning
Keep
क्षिप्त्वा
क्षीरोदधौ
सर्वा
वीरुत्तृणलतौषधीः
।
मन्थानं
मन्दरं
कृत्वा
नेत्रं
कृत्वा
तु
वासुकिम्
23
▾
Meaning
Keep
सहायेन
मया
देवा
निर्मन्थध्वमतन्द्रिताः
।
क्लेशभाजो
भविष्यन्ति
दैत्या
यूयं
फलग्रहाः
24
▾
Meaning
Keep
यूयं
तदनुमोदध्वं
यदिच्छन्त्यसुराः
सुराः
।
न
संरम्भेण
सिध्यन्ति
सर्वोऽर्थाः
सान्त्वया
यथा
25
▾
Meaning
Keep
न
भेतव्यं
कालकूटाद्विषाज्जलधिसम्भवात्
।
लोभः
कार्यो
न
वो
जातु
रोषः
कामस्तु
वस्तुषु
26
▾
Meaning
Keep
इति
देवान्
समादिश्य
भगवान्
पुरुषोत्तमः
।
तेषामन्तर्दधे
राजन्
स्वच्छन्दगतिरीश्वरः
27
▾
Meaning
Keep
अथ
तस्मै
भगवते
नमस्कृत्य
पितामहः
।
भवश्च
जग्मतुः
स्वं
स्वं
धामोपेयुर्बलिं
सुराः
28
▾
Meaning
Keep
दृष्ट्वारीनप्यसंयत्ताञ्जातक्षोभान्स्वनायकान्
।
न्यषेधद्दैत्यराट्श्लोक्यः
सन्धिविग्रहकालवित्
29
▾
Meaning
Keep
ते
वैरोचनिमासीनं
गुप्तं
चासुरयूथपैः
।
श्रिया
परमया
जुष्टं
जिताशेषमुपागमन्
30
▾
Meaning
Keep
महेन्द्रः
श्लक्ष्णया
वाचा
सान्त्वयित्वा
महामतिः
।
अभ्यभाषत
तत्सर्वं
शिक्षितं
पुरुषोत्तमात्
31
▾
Meaning
Keep
तत्त्वरोचत
दैत्यस्य
तत्रान्ये
येऽसुराधिपाः
।
शम्बरोऽरिष्टनेमिश्च
ये
च
त्रिपुरवासिनः
32
▾
Meaning
Keep
ततो
देवासुराः
कृत्वा
संविदं
कृतसौहृदाः
।
उद्यमं
परमं
चक्रुरमृतार्थे
परन्तप
33
▾
Meaning
Keep
ततस्ते
मन्दरगिरिमोजसोत्पाट्य
दुर्मदाः
।
नदन्त
उदधिं
निन्युः
शक्ताः
परिघबाहवः
34
▾
Meaning
Keep
दूरभारोद्वहश्रान्ताः
शक्रवैरोचनादयः
।
अपारयन्तस्तं
वोढुं
विवशा
विजहुः
पथि
35
▾
Meaning
Keep
निपतन्
स
गिरिस्तत्र
बहूनमरदानवान्
।
चूर्णयामास
महता
भारेण
कनकाचलः
36
▾
Meaning
Keep
तांस्तथा
भग्नमनसो
भग्नबाहूरुकन्धरान्
।
विज्ञाय
भगवांस्तत्र
बभूव
गरुडध्वजः
37
▾
Meaning
Keep
गिरिपातविनिष्पिष्टान्
विलोक्यामरदानवान्
।
ईक्षया
जीवयामास
निर्जरान्
निर्व्रणान्
यथा
38
▾
Meaning
Keep
गिरिं
चारोप्य
गरुडे
हस्तेनैकेन
लीलया
।
आरुह्य
प्रययावब्धिं
सुरासुरगणैर्वृतः
39
▾
Meaning
Keep
अवरोप्य
गिरिं
स्कन्धात्सुपर्णः
पततां
वरः
।
ययौ
जलान्त
उत्सृज्य
हरिणा
स
विसर्जितः
Previous
←
The Gods Go to Ajita
Next
The Poison and the Blue Throat
→