Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Poison and the Blue Throat
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ते
नागराजमामन्त्र्य
फलभागेन
वासुकिम्
।
परिवीय
गिरौ
तस्मिन्
नेत्रमब्धिं
मुदान्विताः
2
▾
Meaning
Keep
आरेभिरे
सुंस
यत्ता
अमृतार्थे
कुरूद्वह
।
हरिः
पुरस्ताज्जगृहे
पूर्वं
देवास्ततोऽभवन्
3
▾
Meaning
Keep
तन्नैच्छन्
दैत्यपतयो
महापुरुषचेष्टितम्
।
न
गृह्णीमो
वयं
पुच्छमहेरङ्गममङ्गलम्
4
▾
Meaning
Keep
स्वाध्यायश्रुतसम्पन्नाः
प्रख्याता
जन्मकर्मभिः
।
इति
तूष्णीं
स्थितान्
दैत्यान्
विलोक्य
पुरुषोत्तमः
।
स्मयमानो
विसृज्याग्रं
पुच्छं
जग्राह
सामरः
5
▾
Meaning
Keep
कृतस्थानविभागास्त
एवं
कश्यपनन्दनाः
।
ममन्थुः
परमं
यत्ता
अमृतार्थं
पयोनिधिम्
6
▾
Meaning
Keep
मथ्यमानेऽर्णवे
सोऽद्रिरनाधारो
ह्यपोऽविशत्
।
ध्रियमाणोऽपि
बलिभिर्गौरवात्पाण्डुनन्दन
7
▾
Meaning
Keep
ते
सुनिर्विण्णमनसः
परिम्लानमुखश्रियः
।
आसन्
स्वपौरुषे
नष्टे
दैवेनातिबलीयसा
8
▾
Meaning
Keep
विलोक्य
विघ्नेशविधिं
तदेश्वरो
दुरन्तवीर्योऽवितथाभिसन्धिः
।
कृत्वा
वपुः
कच्छपमद्भुतं
महत्
प्रविश्य
तोयं
गिरिमुज्जहार
9
▾
Meaning
Keep
तमुत्थितं
वीक्ष्य
कुलाचलं
पुनः
मुत्थिता
निर्मथितुं
सुरासुराः
।
दधार
पृष्ठेन
स
लक्षयोजन
प्रस्तारिणा
द्वीप
इवापरो
महान्
10
▾
Meaning
Keep
सुरासुरेन्द्रैर्भुजवीर्यवेपितं
परिभ्रमन्तं
गिरिमङ्ग
पृष्ठतः
।
बिभ्रत्तदावर्तनमादिकच्छपो
मेनेऽङ्गकण्डूयनमप्रमेयः
11
▾
Meaning
Keep
तथासुरानाविशदासुरेण
रूपेण
तेषां
बलवीर्यमीरयन्
।
उद्दीपयन्
देवगणांश्च
विष्णु-
र्दैवेन
नागेन्द्रमबोधरूपः
12
▾
Meaning
Keep
उपर्यगेन्द्रं
गिरिराडिवान्य
आक्रम्य
हस्तेन
सहस्रबाहुः
।
तस्थौ
दिवि
ब्रह्मभवेन्द्रमुख्यै-
रभिष्टुवद्भिः
सुमनोऽभिवृष्टः
13
▾
Meaning
Keep
उपर्यधश्चात्मनि
गोत्रनेत्रयोः
परेण
ते
प्राविशता
समेधिताः
।
ममन्थुरब्धिं
तरसा
मदोत्कटा
महाद्रिणा
क्षोभितनक्रचक्रम्
14
▾
Meaning
Keep
अहीन्द्रसाहस्रकठोरदृङ्मुख-
श्वासाग्निधूमाहतवर्चसोऽसुराः
।
पौलोमकालेयबलील्वलादयो
दवाग्निदग्धाः
सरला
इवाभवन्
15
▾
Meaning
Keep
देवांश्च
तच्छ्वासशिखाहतप्रभान्
धूम्राम्बरस्रग्वरकञ्चुकाननान्
।
समभ्यवर्षन्
भगवद्वशा
घना
ववुः
समुद्रोर्म्युपगूढवायवः
16
▾
Meaning
Keep
मथ्यमानात्तथा
सिन्धोर्देवासुरवरूथपैः
।
यदा
सुधा
न
जायेत
निर्ममन्थाजितः
स्वयम्
17
▾
Meaning
Keep
मेघश्यामः
कनकपरिधिः
कर्णविद्योतविद्यु-
न्मूर्ध्नि
भ्राजद्विलुलितकचः
स्रग्धरो
रक्तनेत्रः
।
जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं
गृहीत्वा
मथ्नन्
मथ्ना
प्रतिगिरिरिवाशोभताथो
धृताद्रिः
18
▾
Meaning
Keep
निर्मथ्यमानादुदधेरभूद्विषं
महोल्बणं
हालहलाह्वमग्रतः
।
सम्भ्रान्तमीनोन्मकराहिकच्छपा-
त्तिमिद्विपग्राहतिमिङ्गिलाकुलात्
19
▾
Meaning
Keep
तदुग्रवेगं
दिशि
दिश्युपर्यधो
विसर्पदुत्सर्पदसह्यमप्रति
।
भीताः
प्रजा
दुद्रुवुरङ्ग
सेश्वरा
अरक्ष्यमाणाः
शरणं
सदाशिवम्
20
▾
Meaning
Keep
विलोक्य
तं
देववरं
त्रिलोक्या
भवाय
देव्याभिमतं
मुनीनाम्
।
आसीनमद्रावपवर्गहेतो-
स्तपो
जुषाणं
स्तुतिभिः
प्रणेमुः
21
▾
Meaning
Keep
देवदेव
महादेव
भूतात्मन्
भूतभावन
।
त्राहि
नः
शरणापन्नांस्त्रैलोक्यदहनाद्विषात्
22
▾
Meaning
Keep
त्वमेकः
सर्वजगत
ईश्वरो
बन्धमोक्षयोः
।
तं
त्वामर्चन्ति
कुशलाः
प्रपन्नार्तिहरं
गुरुम्
23
▾
Meaning
Keep
गुणमय्या
स्वशक्त्यास्य
सर्गस्थित्यप्ययान्
विभो
।
धत्से
यदा
स्वदृग्भूमन्
ब्रह्मविष्णुशिवाभिधाम्
24
▾
Meaning
Keep
त्वं
ब्रह्म
परमं
गुह्यं
सदसद्भावभावनम्
।
नानाशक्तिभिराभातस्त्वमात्मा
जगदीश्वरः
25
▾
Meaning
Keep
त्वं
शब्दयोनिर्जगदादिरात्मा
प्राणेन्द्रियद्रव्यगुणः
स्वभावः
।
कालः
क्रतुः
सत्यमृतं
च
धर्म-
स्त्वय्यक्षरं
यत्
त्रिवृदामनन्ति
26
▾
Meaning
Keep
अग्निर्मुखं
तेऽखिलदेवतात्मा
क्षितिं
विदुर्लोकभवाङ्घ्रिपङ्कजम्
।
कालं
गतिं
तेऽखिलदेवतात्मनो
दिशश्च
कर्णौ
रसनं
जलेशम्
27
▾
Meaning
Keep
नाभिर्नभस्ते
श्वसनं
नभस्वान्
सूर्यश्च
चक्षूंषि
जलं
स्म
रेतः
।
परावरात्माश्रयणं
तवात्मा
सोमो
मनो
द्यौर्भगवन्
शिरस्ते
28
▾
Meaning
Keep
कुक्षिः
समुद्रा
गिरयोऽस्थिसङ्घा
रोमाणि
सर्वौषधिवीरुधस्ते
।
छन्दांसि
साक्षात्तव
सप्तधातव-
स्त्रयीमयात्मन्
हृदयं
सर्वधर्मः
29
▾
Meaning
Keep
मुखानि
पञ्चोपनिषदस्तवेश
यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः
।
यत्
तच्छिवाख्यं
परमात्मतत्त्वं
देव
स्वयंज्योतिरवस्थितिस्ते
30
▾
Meaning
Keep
छाया
त्वधर्मोर्मिषु
यैर्विसर्गो
नेत्रत्रयं
सत्त्वरजस्तमांसि
।
साङ्ख्यात्मनः
शास्त्रकृतस्तवेक्षा
छन्दोमयो
देव
ऋषिः
पुराणः
31
▾
Meaning
Keep
न
ते
गिरित्राखिललोकपाल-
विरिञ्चवैकुण्ठसुरेन्द्रगम्यम्
।
ज्योतिः
परं
यत्र
रजस्तमश्च
सत्त्वं
न
यद्ब्रह्म
निरस्तभेदम्
32
▾
Meaning
Keep
कामाध्वरत्रिपुरकालगराद्यनेक-
भूतद्रुहः
क्षपयतः
स्तुतये
न
तत्ते
।
यस्त्वन्तकाल
इदमात्मकृतं
स्वनेत्र-
वह्निस्फुलिङ्गशिखया
भसितं
न
वेद
33
▾
Meaning
Keep
ये
त्वात्मरामगुरुभिर्हृदि
चिन्तिताङ्घ्रि-
द्वन्द्वं
चरन्तमुमया
तपसाभितप्तम्
।
कत्थन्त
उग्रपरुषं
निरतं
श्मशाने
ते
नूनमूतिमविदंस्तव
हातलज्जाः
34
▾
Meaning
Keep
तत्तस्य
ते
सदसतोः
परतः
परस्य
नाञ्जः
स्वरूपगमने
प्रभवन्ति
भूम्नः
।
ब्रह्मादयः
किमुत
संस्तवने
वयं
तु
तत्सर्गसर्गविषया
अपि
शक्तिमात्रम्
35
▾
Meaning
Keep
एतत्परं
प्रपश्यामो
न
परं
ते
महेश्वर
।
मृडनाय
हि
लोकस्य
व्यक्तिस्तेऽव्यक्तकर्मणः
36
▾
Meaning
Keep
तद्वीक्ष्य
व्यसनं
तासां
कृपया
भृशपीडितः
।
सर्वभूतसुहृद्देव
इदमाह
सतीं
प्रियाम्
37
▾
Meaning
Keep
अहो
बत
भवान्येतत्प्रजानां
पश्य
वैशसम्
।
क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम्
38
▾
Meaning
Keep
आसां
प्राणपरीप्सूनां
विधेयमभयं
हि
मे
।
एतावान्
हि
प्रभोरर्थो
यद्दीनपरिपालनम्
39
▾
Meaning
Keep
प्राणैः
स्वैः
प्राणिनः
पान्ति
साधवः
क्षणभङ्गुरैः
।
बद्धवैरेषु
भूतेषु
मोहितेष्वात्ममायया
40
▾
Meaning
Keep
पुंसः
कृपयतो
भद्रे
सर्वात्मा
प्रीयते
हरिः
।
प्रीते
हरौ
भगवति
प्रीयेऽहं
सचराचरः
।
तस्मादिदं
गरं
भुञ्जे
प्रजानां
स्वस्तिरस्तु
मे
41
▾
Meaning
Keep
एवमामन्त्र्य
भगवान्
भवानीं
विश्वभावनः
।
तद्विषं
जग्धुमारेभे
प्रभावज्ञान्वमोदत
42
▾
Meaning
Keep
ततः
करतलीकृत्य
व्यापि
हालाहलं
विषम्
।
अभक्षयन्महादेवः
कृपया
भूतभावनः
43
▾
Meaning
Keep
तस्यापि
दर्शयामास
स्ववीर्यं
जलकल्मषः
।
यच्चकार
गले
नीलं
तच्च
साधोर्विभूषणम्
44
▾
Meaning
Keep
तप्यन्ते
लोकतापेन
साधवः
प्रायशो
जनाः
।
परमाराधनं
तद्धि
पुरुषस्याखिलात्मनः
45
▾
Meaning
Keep
निशम्य
कर्म
तच्छम्भोर्देवदेवस्य
मीढुषः
।
प्रजा
दाक्षायणी
ब्रह्मा
वैकुण्ठश्च
शशंसिरे
46
▾
Meaning
Keep
प्रस्कन्नं
पिबतः
पाणेर्यत्किञ्चिज्जगृहुः
स्म
तत्
।
वृश्चिकाहिविषौषध्यो
दन्दशूकाश्च
येऽपरे
Previous
←
The Treaty and the Mountain
Next
Sri Rises, and the Jar of Nectar
→