Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Sri Rises, and the Jar of Nectar
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
पीते
गरे
वृषाङ्केण
प्रीतास्तेऽमरदानवाः
।
ममन्थुस्तरसा
सिन्धुं
हविर्धानी
ततोऽभवत्
2
▾
Meaning
Keep
तामग्निहोत्रीमृषयो
जगृहुर्ब्रह्मवादिनः
।
यज्ञस्य
देवयानस्य
मेध्याय
हविषे
नृप
3
▾
Meaning
Keep
तत
उच्चैःश्रवा
नाम
हयोऽभूच्चन्द्रपाण्डुरः
।
तस्मिन्
बलिः
स्पृहां
चक्रे
नेन्द्र
ईश्वरशिक्षया
4
▾
Meaning
Keep
तत
ऐरावतो
नाम
वारणेन्द्रो
विनिर्गतः
।
दन्तैश्चतुर्भिः
श्वेताद्रेर्हरन्
भगवतो
महिम्
5
▾
Meaning
Keep
कौस्तुभाख्यमभूद्रत्नं
पद्मरागो
महोदधेः
।
तस्मिन्
हरिः
स्पृहां
चक्रे
वक्षोऽलङ्करणे
मणौ
6
▾
Meaning
Keep
ततोऽभवत्पारिजातः
सुरलोकविभूषणम्
।
पूरयत्यर्थिनो
योऽर्थैः
शश्वद्भुवि
यथा
भवान्
7
▾
Meaning
Keep
ततश्चाप्सरसो
जाता
निष्ककण्ठ्यः
सुवाससः
।
रमण्यः
स्वर्गिणां
वल्गुगतिलीलावलोकनैः
8
▾
Meaning
Keep
ततश्चाविरभूत्साक्षाच्छ्री
रमा
भगवत्परा
।
रञ्जयन्ती
दिशः
कान्त्या
विद्युत्सौदामनी
यथा
9
▾
Meaning
Keep
तस्यां
चक्रुः
स्पृहां
सर्वे
ससुरासुरमानवाः
।
रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः
10
▾
Meaning
Keep
तस्या
आसनमानिन्ये
महेन्द्रो
महदद्भुतम्
।
मूर्तिमत्यः
सरिच्छ्रेष्ठा
हेमकुम्भैर्जलं
शुचि
11
▾
Meaning
Keep
आभिषेचनिका
भूमिराहरत्सकलौषधीः
।
गावः
पञ्च
पवित्राणि
वसन्तो
मधुमाधवौ
12
▾
Meaning
Keep
ऋषयः
कल्पयांचक्रुराभिषेकं
यथाविधि
।
जगुर्भद्राणि
गन्धर्वा
नट्यश्च
ननृतुर्जगुः
13
▾
Meaning
Keep
मेघा
मृदङ्गपणवमुरजानकगोमुखान्
।
व्यनादयन्
शङ्खवेणुवीणास्तुमुलनिःस्वनान्
14
▾
Meaning
Keep
ततोऽभिषिषिचुर्देवीं
श्रियं
पद्मकरां
सतीम्
।
दिगिभाः
पूर्णकलशैः
सूक्तवाक्यैर्द्विजेरितैः
15
▾
Meaning
Keep
समुद्रः
पीतकौशेयवाससी
समुपाहरत्
।
वरुणः
स्रजं
वैजयन्तीं
मधुना
मत्तषट्पदाम्
16
▾
Meaning
Keep
भूषणानि
विचित्राणि
विश्वकर्मा
प्रजापतिः
।
हारं
सरस्वती
पद्ममजो
नागाश्च
कुण्डले
17
▾
Meaning
Keep
ततः
कृतस्वस्त्ययनोत्पलस्रजं
नदद्द्विरेफां
परिगृह्य
पाणिना
।
चचाल
वक्त्रं
सुकपोलकुण्डलं
सव्रीडहासं
दधती
सुशोभनम्
18
▾
Meaning
Keep
स्तनद्वयं
चातिकृशोदरी
समं
निरन्तरं
चन्दनकुङ्कुमोक्षितम्
।
ततस्ततो
नूपुरवल्गुशिञ्जितै-
र्विसर्पती
हेमलतेव
सा
बभौ
19
▾
Meaning
Keep
विलोकयन्ती
निरवद्यमात्मनः
पदं
ध्रुवं
चाव्यभिचारिसद्गुणम्
।
गन्धर्वयक्षासुरसिद्धासुरयक्षचारणत्रैविष्टपेयादिषु
नान्वविन्दत
20
▾
Meaning
Keep
नूनं
तपो
यस्य
न
मन्युनिर्जयो
ज्ञानं
क्वचित्तच्च
न
सङ्गवर्जितम्
।
कश्चिन्महांस्तस्य
न
कामनिर्जयः
स
ईश्वरः
किं
परतो
व्यपाश्रयः
21
▾
Meaning
Keep
धर्मः
क्वचित्तत्र
न
भूतसौहृदं
त्यागः
क्वचित्तत्र
न
मुक्तिकारणम्
।
वीर्यं
न
पुंसोऽस्त्यजवेगनिष्कृतं
न
हि
द्वितीयो
गुणसङ्गवर्जितः
22
▾
Meaning
Keep
क्वचिच्चिरायुर्न
हि
शीलमङ्गलं
क्वचित्तदप्यस्ति
न
वेद्यमायुषः
।
यत्रोभयं
कुत्र
च
सोऽप्यमङ्गलः
सुमङ्गलः
कश्च
न
काङ्क्षते
हि
माम्
23
▾
Meaning
Keep
एवं
विमृश्याव्यभिचारिसद्गुणै-
र्वरं
निजैकाश्रयतयागुणाश्रयम्
।
वव्रे
वरं
सर्वगुणैरपेक्षितं
रमा
मुकुन्दं
निरपेक्षमीप्सितम्
24
▾
Meaning
Keep
तस्यांसदेश
उशतीं
नवकञ्जमालां
माद्यन्मधुव्रतवरूथगिरोपघुष्टाम्
।
तस्थौ
निधाय
निकटे
तदुरः
स्वधाम
सव्रीडहासविकसन्नयनेन
याता
25
▾
Meaning
Keep
तस्याः
श्रियस्त्रिजगतो
जनको
जनन्या
वक्षोनिवासमकरोत्परमं
विभूतेः
।
श्रीः
स्वाः
प्रजाः
सकरुणेन
निरीक्षणेन
यत्र
स्थितैधयत
साधिपतींस्त्रिलोकान्
26
▾
Meaning
Keep
शङ्खतूर्यमृदङ्गानां
वादित्राणां
पृथुः
स्वनः
।
देवानुगानां
सस्त्रीणां
नृत्यतां
गायतामभूत्
27
▾
Meaning
Keep
ब्रह्मरुद्राङ्गिरोमुख्याः
सर्वे
विश्वसृजो
विभुम्
।
ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः
पुष्पवर्षिणः
28
▾
Meaning
Keep
श्रियावलोकिता
देवाः
सप्रजापतयः
प्रजाः
।
शीलादिगुणसम्पन्ना
लेभिरे
निर्वृतिं
पराम्
29
▾
Meaning
Keep
निःसत्त्वा
लोलुपा
राजन्
निरुद्योगा
गतत्रपाः
।
यदा
चोपेक्षिता
लक्ष्म्या
बभूवुर्दैत्यदानवाः
30
▾
Meaning
Keep
अथासीद्वारुणी
देवी
कन्या
कमललोचना
।
असुरा
जगृहुस्तां
वै
हरेरनुमतेन
ते
31
▾
Meaning
Keep
अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः
।
उदतिष्ठन्महाराज
पुरुषः
परमाद्भुतः
32
▾
Meaning
Keep
दीर्घपीवरदोर्दण्डः
कम्बुग्रीवोऽरुणेक्षणः
।
श्यामलस्तरुणः
स्रग्वी
सर्वाभरणभूषितः
33
▾
Meaning
Keep
पीतवासा
महोरस्कः
सुमृष्टमणिकुण्डलः
।
स्निग्धकुञ्चितकेशान्त
सुभगः
सिंहविक्रमः
34
▾
Meaning
Keep
अमृतापूर्णकलशं
बिभ्रद्वलयभूषितः
।
स
वै
भगवतः
साक्षाद्विष्णोरंशांशसम्भवः
35
▾
Meaning
Keep
धन्वन्तरिरिति
ख्यात
आयुर्वेददृगिज्यभाक्
।
तमालोक्यासुराः
सर्वे
कलशं
चामृताभृतम्
36
▾
Meaning
Keep
लिप्सन्तः
सर्ववस्तूनि
कलशं
तरसाहरन्
।
नीयमानेऽसुरैस्तस्मिन्
कलशेऽमृतभाजने
37
▾
Meaning
Keep
विषण्णमनसो देवा हरिं शरणमाययुः ।
इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् ।
मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया
38
▾
Meaning
Keep
मिथः
कलिरभूत्तेषां
तदर्थे
तर्षचेतसाम्
।
अहं
पूर्वमहं
पूर्वं
न
त्वं
न
त्वमिति
प्रभो
39
▾
Meaning
Keep
देवाः
स्वं
भागमर्हन्ति
ये
तुल्यायासहेतवः
।
सत्रयाग
इवैतस्मिन्नेष
धर्मः
सनातनः
40
▾
Meaning
Keep
इति
स्वान्प्रत्यषेधन्वै
दैतेया
जातमत्सराः
।
दुर्बलाः
प्रबलान्
राजन्गृहीतकलसान्
मुहुः
41
▾
Meaning
Keep
एतस्मिन्नन्तरे
विष्णुः
सर्वोपायविदीश्वरः
।
योषिद्रूपमनिर्देश्यं
दधार
परमाद्भुतम्
42
▾
Meaning
Keep
प्रेक्षणीयोत्पलश्यामं
सर्वावयवसुन्दरम्
।
समानकर्णाभरणं
सुकपोलोन्नसाननम्
43
▾
Meaning
Keep
नवयौवननिर्वृत्तस्तनभारकृशोदरम्
।
मुखामोदानुरक्तालि
झङ्कारोद्विग्नलोचनम्
44
▾
Meaning
Keep
बिभ्रत्
सुकेशभारेण
मालामुत्फुल्लमल्लिकाम्
।
सुग्रीवकण्ठाभरणं
सुभुजाङ्गदभूषितम्
45
▾
Meaning
Keep
विरजाम्बरसंवीतनितम्बद्वीपशोभया
।
काञ्च्या
प्रविलसद्वल्गुचलच्चरणनूपुरम्
46
▾
Meaning
Keep
सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः
।
दैत्ययूथपचेतःसु
काममुद्दीपयन्
मुहुः
Previous
←
The Poison and the Blue Throat
Next
Mohini Pours the Nectar
→