Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Set Your Third Step on My Head
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
विप्रकृतो
राजन्
बलिर्भगवतासुरः
।
भिद्यमानोऽप्यभिन्नात्मा
प्रत्याहाविक्लवं
वचः
2
▾
Meaning
Keep
यद्युत्तमश्लोक
भवान्
ममेरितं
वचो
व्यलीकं
सुरवर्य
मन्यते
।
करोम्यृतं
तन्न
भवेत्प्रलम्भनं
पदं
तृतीयं
कुरु
शीर्ष्णि
मे
निजम्
3
▾
Meaning
Keep
बिभेमि
नाहं
निरयात्पदच्युतो
न
पाशबन्धाद्व्यसनाद्दुरत्ययात्
।
नैवार्थकृच्छ्राद्भवतो
विनिग्रहा-
दसाधुवादाद्भृशमुद्विजे
यथा
4
▾
Meaning
Keep
पुंसां
श्लाघ्यतमं
मन्ये
दण्डमर्हत्तमार्पितम्
।
यं
न
माता
पिता
भ्राता
सुहृदश्चादिशन्ति
हि
5
▾
Meaning
Keep
त्वं
नूनमसुराणां
नः
परोक्षः
परमो
गुरुः
।
यो
नोऽनेकमदान्धानां
विभ्रंशं
चक्षुरादिशत्
6
▾
Meaning
Keep
यस्मिन्
वैरानुबन्धेन
व्यूढेन
विबुधेतराः
।
बहवो
लेभिरे
सिद्धिं
यामु
हैकान्तयोगिनः
7
▾
Meaning
Keep
तेनाहं
निगृहीतोऽस्मि
भवता
भूरिकर्मणा
।
बद्धश्च
वारुणैः
पाशैर्नातिव्रीडे
न
च
व्यथे
8
▾
Meaning
Keep
पितामहो
मे
भवदीयसम्मतः
प्रह्राद
आविष्कृतसाधुवादः
।
भवद्विपक्षेण
विचित्रवैशसं
सम्प्रापितस्त्वं
परमः
स्वपित्रा
9
▾
Meaning
Keep
किमात्मनानेन
जहाति
योऽन्ततः
किं
रिक्थहारैः
स्वजनाख्यदस्युभिः
।
किं
जायया
संसृतिहेतुभूतया
मर्त्यस्य
गेहैः
किमिहायुषो
व्ययः
10
▾
Meaning
Keep
इत्थं
स
निश्चित्य
पितामहो
महा-
नगाधबोधो
भवतः
पादपद्मम्
।
ध्रुवं
प्रपेदे
ह्यकुतोभयं
जनाद्-
भीतः
स्वपक्षक्षपणस्य
सत्तम
11
▾
Meaning
Keep
अथाहमप्यात्मरिपोस्तवान्तिकं
दैवेन
नीतः
प्रसभं
त्याजितश्रीः
।
इदं
कृतान्तान्तिकवर्ति
जीवितं
ययाध्रुवं
स्तब्धमतिर्न
बुध्यते
12
▾
Meaning
Keep
तस्येत्थं
भाषमाणस्य
प्रह्रादो
भगवत्प्रियः
।
आजगाम
कुरुश्रेष्ठ
राकापतिरिवोत्थितः
13
▾
Meaning
Keep
तमिन्द्रसेनः
स्वपितामहं
श्रिया
विराजमानं
नलिनायतेक्षणम्
।
प्रांशुं
पिशङ्गाम्बरमञ्जनत्विषं
प्रलम्बबाहुं
शुभगर्षभमैक्षत
14
▾
Meaning
Keep
तस्मै
बलिर्वारुणपाशयन्त्रितः
समर्हणं
नोपजहार
पूर्ववत्
।
ननाम
मूर्ध्नाश्रुविलोललोचनः
सव्रीडनीचीनमुखो
बभूव
ह
15
▾
Meaning
Keep
स
तत्र
हासीनमुदीक्ष्य
सत्पतिं
हरिं
सुनन्दाद्यनुगैरुपासितम्
।
उपेत्य
भूमौ
शिरसा
महामना
ननाम
मूर्ध्ना
पुलकाश्रुविक्लवः
16
▾
Meaning
Keep
त्वयैव
दत्तं
पदमैन्द्रमूर्जितं
हृतं
तदेवाद्य
तथैव
शोभनम्
।
मन्ये
महानस्य
कृतो
ह्यनुग्रहो
विभ्रंशितो
यच्छ्रिय
आत्ममोहनात्
17
▾
Meaning
Keep
यया
हि
विद्वानपि
मुह्यते
यत-
स्तत्को
विचष्टे
गतिमात्मनो
यथा
।
तस्मै
नमस्ते
जगदीश्वराय
वै
नारायणायाखिललोकसाक्षिणे
18
▾
Meaning
Keep
तस्यानुशृण्वतो
राजन्प्रह्रादस्य
कृताञ्जलेः
।
हिरण्यगर्भो
भगवानुवाच
मधुसूदनम्
19
▾
Meaning
Keep
बद्धं
वीक्ष्य
पतिं
साध्वी
तत्पत्नी
भयविह्वला
।
प्राञ्जलिः
प्रणतोपेन्द्रं
बभाषेऽवाङ्मुखी
नृप
20
▾
Meaning
Keep
क्रीडार्थमात्मन
इदं
त्रिजगत्कृतं
ते
स्वाम्यं
तु
तत्र
कुधियोऽपर
ईश
कुर्युः
।
कर्तुः
प्रभोस्तव
किमस्यत
आवहन्ति
त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः
21
▾
Meaning
Keep
भूतभावन
भूतेश
देवदेव
जगन्मय
।
मुञ्चैनं
हृतसर्वस्वं
नायमर्हति
निग्रहम्
22
▾
Meaning
Keep
कृत्स्ना
तेऽनेन
दत्ता
भूर्लोकाः
कर्मार्जिताश्च
ये
।
निवेदितं
च
सर्वस्वमात्माविक्लवया
धिया
23
▾
Meaning
Keep
यत्पादयोरशठधीः
सलिलं
प्रदाय
दूर्वाङ्कुरैरपि
विधाय
सतीं
सपर्याम्
।
अप्युत्तमां
गतिमसौ
भजते
त्रिलोकीं
दाश्वानविक्लवमनाः
कथमार्तिमृच्छेत्
24
▾
Meaning
Keep
श्रीभगवानुवाच ।
ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।
यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते
25
▾
Meaning
Keep
यदा
कदाचिज्जीवात्मा
संसरन्
निजकर्मभिः
।
नानायोनिष्वनीशोऽयं
पौरुषीं
गतिमाव्रजेत्
26
▾
Meaning
Keep
जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः
।
यद्यस्य
न
भवेत्स्तम्भस्तत्रायं
मदनुग्रहः
27
▾
Meaning
Keep
मानस्तम्भनिमित्तानां
जन्मादीनां
समन्ततः
।
सर्वश्रेयःप्रतीपानां
हन्त
मुह्येन्न
मत्परः
28
▾
Meaning
Keep
एष
दानवदैत्यानामग्रणीः
कीर्तिवर्धनः
।
अजैषीदजयां
मायां
सीदन्नपि
न
मुह्यति
29
▾
Meaning
Keep
क्षीणरिक्थश्च्युतः
स्थानात्क्षिप्तो
बद्धश्च
शत्रुभिः
।
ज्ञातिभिश्च
परित्यक्तो
यातनामनुयापितः
30
▾
Meaning
Keep
गुरुणा
भर्त्सितः
शप्तो
जहौ
सत्यं
न
सुव्रतः
।
छलैरुक्तो
मया
धर्मो
नायं
त्यजति
सत्यवाक्
31
▾
Meaning
Keep
एष
मे
प्रापितः
स्थानं
दुष्प्रापममरैरपि
।
सावर्णेरन्तरस्यायं
भवितेन्द्रो
मदाश्रयः
32
▾
Meaning
Keep
तावत्
सुतलमध्यास्तां
विश्वकर्मविनिर्मितम्
।
यदाधयो
व्याधयश्च
क्लमस्तन्द्रा
पराभवः
।
नोपसर्गा
निवसतां
सम्भवन्ति
ममेक्षया
33
▾
Meaning
Keep
इन्द्रसेन
महाराज
याहि
भो
भद्रमस्तु
ते
।
सुतलं
स्वर्गिभिः
प्रार्थ्यं
ज्ञातिभिः
परिवारितः
34
▾
Meaning
Keep
न
त्वामभिभविष्यन्ति
लोकेशाः
किमुतापरे
।
त्वच्छासनातिगान्
दैत्यांश्चक्रं
मे
सूदयिष्यति
35
▾
Meaning
Keep
रक्षिष्ये
सर्वतोऽहं
त्वां
सानुगं
सपरिच्छदम्
।
सदा
सन्निहितं
वीर
तत्र
मां
द्रक्ष्यते
भवान्
36
▾
Meaning
Keep
तत्र
दानवदैत्यानां
सङ्गात्ते
भाव
आसुरः
।
दृष्ट्वा
मदनुभावं
वै
सद्यः
कुण्ठो
विनङ्क्ष्यति
Previous
←
Bali Bound
Next
Bali Goes Down to Sutala
→