Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bali Goes Down to Sutala
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इत्युक्तवन्तं
पुरुषं
पुरातनं
महानुभावोऽखिलसाधुसम्मतः
।
बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो
भक्त्युत्कलो
गद्गदया
गिराब्रवीत्
2
▾
Meaning
Keep
अहो
प्रणामाय
कृतः
समुद्यमः
प्रपन्नभक्तार्थविधौ
समाहितः
।
यल्लोकपालैस्त्वदनुग्रहोऽमरै-
रलब्धपूर्वोऽपसदेऽसुरेऽर्पितः
3
▾
Meaning
Keep
इत्य्
उक्त्वा
हरिमानत्य
ब्रह्माणं
सभवं
ततः
विवेश
सुतलं
प्रीतो
बलिर्मुक्तः
सहासुरैः
4
▾
Meaning
Keep
एवमिन्द्राय
भगवान्
प्रत्यानीय
त्रिविष्टपम्
।
पूरयित्वादितेः
काममशासत्सकलं
जगत्
5
▾
Meaning
Keep
लब्धप्रसादं
निर्मुक्तं
पौत्रं
वंशधरं
बलिम्
।
निशाम्य
भक्तिप्रवणः
प्रह्राद
इदमब्रवीत्
6
▾
Meaning
Keep
नेमं
विरिञ्चो
लभते
प्रसादं
न
श्रीर्न
शर्वः
किमुतापरेते
।
यन्नोऽसुराणामसि
दुर्गपालो
विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः
7
▾
Meaning
Keep
यत्पादपद्ममकरन्दनिषेवणेन
ब्रह्मादयः
शरणदाश्नुवते
विभूतीः
।
कस्माद्वयं
कुसृतयः
खलयोनयस्ते
दाक्षिण्यदृष्टिपदवीं
भवतः
प्रणीताः
8
▾
Meaning
Keep
चित्रं
तवेहितमहोऽमितयोगमाया-
लीलाविसृष्टभुवनस्य
विशारदस्य
।
सर्वात्मनः
समदृशोऽविषमः
स्वभावो
भक्तप्रियो
यदसि
कल्पतरुस्वभावः
9
▾
Meaning
Keep
श्रीभगवानुवाच ।
वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् ।
मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह
10
▾
Meaning
Keep
नित्यं
द्रष्टासि
मां
तत्र
गदापाणिमवस्थितम्
।
मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धनः
11
▾
Meaning
Keep
आज्ञां
भगवतो
राजन्प्रह्रादो
बलिना
सह
।
बाढमित्यमलप्रज्ञो
मूर्ध्न्याधाय
कृताञ्जलिः
12
▾
Meaning
Keep
परिक्रम्यादिपुरुषं
सर्वासुरचमूपतिः
।
प्रणतस्तदनुज्ञातः
प्रविवेश
महाबिलम्
13
▾
Meaning
Keep
अथाहोशनसं
राजन्
हरिर्नारायणोऽन्तिके
।
आसीनमृत्विजां
मध्ये
सदसि
ब्रह्मवादिनाम्
14
▾
Meaning
Keep
ब्रह्मन्
सन्तनु
शिष्यस्य
कर्मच्छिद्रं
वितन्वतः
।
यत्तत्कर्मसु
वैषम्यं
ब्रह्मदृष्टं
समं
भवेत्
15
▾
Meaning
Keep
कुतस्तत्कर्मवैषम्यं
यस्य
कर्मेश्वरो
भवान्
।
यज्ञेशो
यज्ञपुरुषः
सर्वभावेन
पूजितः
16
▾
Meaning
Keep
मन्त्रतस्तन्त्रतश्छिद्रं
देशकालार्हवस्तुतः
।
सर्वं
करोति
निश्छिद्रमनुसङ्कीर्तनं
तव
17
▾
Meaning
Keep
तथापि
वदतो
भूमन्
करिष्याम्यनुशासनम्
।
एतच्छ्रेयः
परं
पुंसां
यत्तवाज्ञानुपालनम्
18
▾
Meaning
Keep
अभिनन्द्य
हरेराज्ञामुशना
भगवानिति
।
यज्ञच्छिद्रं
समाधत्त
बलेर्विप्रर्षिभिः
सह
19
▾
Meaning
Keep
एवं
बलेर्महीं
राजन्
भिक्षित्वा
वामनो
हरिः
।
ददौ
भ्रात्रे
महेन्द्राय
त्रिदिवं
यत्परैर्हृतम्
20
▾
Meaning
Keep
प्रजापतिपतिर्ब्रह्मा
देवर्षिपितृभूमिपैः
।
दक्षभृग्वङ्गिरोमुख्यैः
कुमारेण
भवेन
च
21
▾
Meaning
Keep
कश्यपस्यादितेः
प्रीत्यै
सर्वभूतभवाय
च
।
लोकानां
लोकपालानामकरोद्वामनं
पतिम्
22
▾
Meaning
Keep
वेदानां
सर्वदेवानां
धर्मस्य
यशसः
श्रियः
।
मङ्गलानां
व्रतानां
च
कल्पं
स्वर्गापवर्गयोः
23
▾
Meaning
Keep
उपेन्द्रं
कल्पयाञ
चक्रे
पतिं
सर्वविभूतये
।
तदा
सर्वाणि
भूतानि
भृशं
मुमुदिरे
नृप
24
▾
Meaning
Keep
ततस्त्विन्द्रः
पुरस्कृत्य
देवयानेन
वामनम्
।
लोकपालैर्दिवं
निन्ये
ब्रह्मणा
चानुमोदितः
25
▾
Meaning
Keep
प्राप्य
त्रिभुवनं
चेन्द्र
उपेन्द्रभुजपालितः
।
श्रिया
परमया
जुष्टो
मुमुदे
गतसाध्वसः
26
▾
Meaning
Keep
ब्रह्मा
शर्वः
कुमारश्च
भृग्वाद्या
मुनयो
नृप
।
पितरः
सर्वभूतानि
सिद्धा
वैमानिकाश्च
ये
27
▾
Meaning
Keep
सुमहत्कर्म
तद्विष्णोर्गायन्तः
परमाद्भुतम्
।
धिष्ण्यानि
स्वानि
ते
जग्मुरदितिं
च
शशंसिरे
28
▾
Meaning
Keep
सर्वमेतन्मयाऽऽख्यातं
भवतः
कुलनन्दन
।
उरुक्रमस्य
चरितं
श्रोतॄणामघमोचनम्
29
▾
Meaning
Keep
पारं
महिम्न
उरुविक्रमतो
गृणानो
यः
पार्थिवानि
विममे
स
रजांसि
मर्त्यः
।
किं
जायमान
उत
जात
उपैति
मर्त्य
इत्याह
मन्त्रदृगृषिः
पुरुषस्य
यस्य
30
▾
Meaning
Keep
य
इदं
देवदेवस्य
हरेरद्भुतकर्मणः
।
अवतारानुचरितं
शृण्वन्
याति
परां
गतिम्
31
▾
Meaning
Keep
क्रियमाणे
कर्मणीदं
दैवे
पित्र्येऽथ
मानुषे
।
यत्र
यत्रानुकीर्त्येत
तत्तेषां
सुकृतं
विदुः
Previous
←
Set Your Third Step on My Head
Next
The Fish and the Flood
→