Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Fish and the Flood
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भगवन्छ्रोतुमिच्छामि
हरेरद्भुतकर्मणः
।
अवतारकथामाद्यां
मायामत्स्यविडम्बनम्
2
▾
Meaning
Keep
यदर्थमदधाद्रूपं
मात्स्यं
लोकजुगुप्सितम्
।
तमःप्रकृतिदुर्मर्षं
कर्मग्रस्त
इवेश्वरः
3
▾
Meaning
Keep
एतन्नो
भगवन्
सर्वं
यथावद्वक्तुमर्हसि
।
उत्तमश्लोकचरितं
सर्वलोकसुखावहम्
4
▾
Meaning
Keep
इत्युक्तो
विष्णुरातेन
भगवान्
बादरायणिः
।
उवाच
चरितं
विष्णोर्मत्स्यरूपेण
यत्कृतम्
5
▾
Meaning
Keep
गोविप्रसुरसाधूनां
छन्दसामपि
चेश्वरः
।
रक्षामिच्छंस्तनूर्धत्ते
धर्मस्यार्थस्य
चैव
हि
6
▾
Meaning
Keep
उच्चावचेषु
भूतेषु
चरन्
वायुरिवेश्वरः
।
नोच्चावचत्वं
भजते
निर्गुणत्वाद्धियो
गुणैः
7
▾
Meaning
Keep
आसीदतीतकल्पान्ते
ब्राह्मो
नैमित्तिको
लयः
।
समुद्रोपप्लुतास्तत्र
लोका
भूरादयो
नृप
8
▾
Meaning
Keep
कालेनागतनिद्रस्य
धातुः
शिशयिषोर्बली
।
मुखतो
निःसृतान्
वेदान्
हयग्रीवोऽन्तिकेऽहरत्
9
▾
Meaning
Keep
ज्ञात्वा
तद्दानवेन्द्रस्य
हयग्रीवस्य
चेष्टितम्
।
दधार
शफरीरूपं
भगवान्
हरिरीश्वरः
10
▾
Meaning
Keep
तत्र
राजऋषिः
कश्चिन्नाम्ना
सत्यव्रतो
महान्
।
नारायणपरोऽतपत्
तपः
स
सलिलाशनः
11
▾
Meaning
Keep
योऽसावस्मिन्
महाकल्पे
तनयः
स
विवस्वतः
।
श्राद्धदेव
इति
ख्यातो
मनुत्वे
हरिणार्पितः
12
▾
Meaning
Keep
एकदा
कृतमालायां
कुर्वतो
जलतर्पणम्
।
तस्याञ्जल्युदके
काचिच्छफर्येकाभ्यपद्यत
13
▾
Meaning
Keep
सत्यव्रतोऽञ्जलिगतां
सह
तोयेन
भारत
।
उत्ससर्ज
नदीतोये
शफरीं
द्रविडेश्वरः
14
▾
Meaning
Keep
तमाह
सातिकरुणं
महाकारुणिकं
नृपम्
।
यादोभ्यो
ज्ञातिघातिभ्यो
दीनां
मां
दीनवत्सल
।
कथं
विसृजसे
राजन्
भीतामस्मिन्
सरिज्जले
15
▾
Meaning
Keep
तमात्मनोऽनुग्रहार्थं
प्रीत्या
मत्स्यवपुर्धरम्
।
अजानन्
रक्षणार्थाय
शफर्याः
स
मनो
दधे
16
▾
Meaning
Keep
तस्या
दीनतरं
वाक्यमाश्रुत्य
स
महीपतिः
।
कलशाप्सु
निधायैनां
दयालुर्निन्य
आश्रमम्
17
▾
Meaning
Keep
सा
तु
तत्रैकरात्रेण
वर्धमाना
कमण्डलौ
।
अलब्ध्वाऽऽत्मावकाशं
वा
इदमाह
महीपतिम्
18
▾
Meaning
Keep
नाहं
कमण्डलावस्मिन्
कृच्छ्रं
वस्तुमिहोत्सहे
।
कल्पयौकः
सुविपुलं
यत्राहं
निवसे
सुखम्
19
▾
Meaning
Keep
स
एनां
तत
आदाय
न्यधादौदञ्चनोदके
।
तत्र
क्षिप्ता
मुहूर्तेन
हस्तत्रयमवर्धत
20
▾
Meaning
Keep
न
म
एतदलं
राजन्
सुखं
वस्तुमुदञ्चनम्
।
पृथु
देहि
पदं
मह्यं
यत्त्वाहं
शरणं
गता
21
▾
Meaning
Keep
तत
आदाय
सा
राज्ञा
क्षिप्ता
राजन्
सरोवरे
।
तदावृत्यात्मना
सोऽयं
महामीनोऽन्ववर्धत
22
▾
Meaning
Keep
नैतन्मे
स्वस्तये
राजन्नुदकं
सलिलौकसः
।
निधेहि
रक्षायोगेन
ह्रदे
मामविदासिनि
23
▾
Meaning
Keep
इत्युक्तः
सोऽनयन्मत्स्यं
तत्र
तत्राविदासिनि
।
जलाशयेऽसम्मितं
तं
समुद्रे
प्राक्षिपज्झषम्
24
▾
Meaning
Keep
क्षिप्यमाणस्तमाहेदमिह
मां
मकरादयः
।
अदन्त्यतिबला
वीर
मां
नेहोत्स्रष्टुमर्हसि
25
▾
Meaning
Keep
एवं
विमोहितस्तेन
वदता
वल्गुभारतीम्
।
तमाह
को
भवानस्मान्
मत्स्यरूपेण
मोहयन्
26
▾
Meaning
Keep
नैवंवीर्यो
जलचरो
दृष्टोऽस्माभिः
श्रुतोऽपि
वा
।
यो
भवान्
योजनशतमह्नाभिव्यानशे
सरः
27
▾
Meaning
Keep
नूनं
त्वं
भगवान्
साक्षाद्धरिर्नारायणोऽव्ययः
।
अनुग्रहाय
भूतानां
धत्से
रूपं
जलौकसाम्
28
▾
Meaning
Keep
नमस्ते
पुरुषश्रेष्ठ
स्थित्युत्पत्त्यप्ययेश्वर
।
भक्तानां
नः
प्रपन्नानां
मुख्यो
ह्यात्मगतिर्विभो
29
▾
Meaning
Keep
सर्वे
लीलावतारास्ते
भूतानां
भूतिहेतवः
।
ज्ञातुमिच्छाम्यदो
रूपं
यदर्थं
भवता
धृतम्
30
▾
Meaning
Keep
न
तेऽरविन्दाक्ष
पदोपसर्पणं
मृषा
भवेत्सर्वसुहृत्प्रियात्मनः
।
यथेतरेषां
पृथगात्मनां
सता-
मदीदृशो
यद्वपुरद्भुतं
हि
नः
31
▾
Meaning
Keep
इति
ब्रुवाणं
नृपतिं
जगत्पतिः
सत्यव्रतं
मत्स्यवपुर्युगक्षये
।
विहर्तुकामः
प्रलयार्णवेऽब्रवी-
च्चिकीर्षुरेकान्तजनप्रियः
प्रियम्
32
▾
Meaning
Keep
श्रीभगवानुवाच ।
सप्तमेऽद्यतनादूर्ध्वमहन्येतदरिन्दम ।
निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम्
33
▾
Meaning
Keep
त्रिलोक्यां
लीयमानायां
संवर्ताम्भसि
वै
तदा
।
उपस्थास्यति
नौः
काचिद्विशाला
त्वां
मयेरिता
34
▾
Meaning
Keep
त्वं
तावदोषधीः
सर्वा
बीजान्युच्चावचानि
च
।
सप्तर्षिभिः
परिवृतः
सर्वसत्त्वोपबृंहितः
35
▾
Meaning
Keep
आरुह्य
बृहतीं
नावं
विचरिष्यस्यविक्लवः
।
एकार्णवे
निरालोके
ऋषीणामेव
वर्चसा
36
▾
Meaning
Keep
दोधूयमानां
तां
नावं
समीरेण
बलीयसा
।
उपस्थितस्य
मे
शृङ्गे
निबध्नीहि
महाहिना
37
▾
Meaning
Keep
अहं
त्वामृषिभिः
सार्धं
सहनावमुदन्वति
।
विकर्षन्
विचरिष्यामि
यावद्
ब्राह्मी
निशा
प्रभो
38
▾
Meaning
Keep
मदीयं
महिमानं
च
परं
ब्रह्मेति
शब्दितम्
।
वेत्स्यस्यनुगृहीतं
मे
सम्प्रश्नैर्विवृतं
हृदि
39
▾
Meaning
Keep
इत्थमादिश्य
राजानं
हरिरन्तरधीयत
।
सोऽन्ववैक्षत
तं
कालं
यं
हृषीकेश
आदिशत्
40
▾
Meaning
Keep
आस्तीर्य
दर्भान्
प्राक्कूलान्
राजर्षिः
प्रागुदङ्मुखः
।
निषसाद
हरेः
पादौ
चिन्तयन्
मत्स्यरूपिणः
41
▾
Meaning
Keep
ततः
समुद्र
उद्वेलः
सर्वतः
प्लावयन्
महीम्
।
वर्धमानो
महामेघैर्वर्षद्भिः
समदृश्यत
42
▾
Meaning
Keep
ध्यायन्
भगवदादेशं
ददृशे
नावमागताम्
।
तामारुरोह
विप्रेन्द्रैरादायौषधिवीरुधः
43
▾
Meaning
Keep
तमूचुर्मुनयः
प्रीता
राजन्
ध्यायस्व
केशवम्
।
स
वै
नः
सङ्कटादस्मादविता
शं
विधास्यति
44
▾
Meaning
Keep
सोऽनुध्यातस्ततो
राज्ञा
प्रादुरासीन्महार्णवे
।
एकशृङ्गधरो
मत्स्यो
हैमो
नियुतयोजनः
45
▾
Meaning
Keep
निबध्य
नावं
तच्छृङ्गे
यथोक्तो
हरिणा
पुरा
।
वरत्रेणाहिना
तुष्टस्तुष्टाव
मधुसूदनम्
46
▾
Meaning
Keep
अनाद्यविद्योपहतात्मसंविदस्तन्मूलसंसारपरिश्रमातुराः
।
यदृच्छयोपसृता
यमाप्नुयुर्विमुक्तिदो
नः
परमो
गुरुर्भवान्
47
▾
Meaning
Keep
जनोऽबुधोऽयं
निजकर्मबन्धनः
सुखेच्छया
कर्म
समीहतेऽसुखम्
।
यत्सेवया
तां
विधुनोत्यसन्मतिं
ग्रन्थिं
स
भिन्द्याद्धृदयं
स
नो
गुरुः
48
▾
Meaning
Keep
यत्सेवयाग्नेरिव
रुद्ररोदनं
पुमान्
विजह्यान्मलमात्मनस्तमः
।
भजेत
वर्णं
निजमेष
सोऽव्ययो
भूयात्स
ईशः
परमो
गुरोर्गुरुः
49
▾
Meaning
Keep
न
यत्प्रसादायुतभागलेश-
मन्ये
च
देवा
गुरवो
जनाः
स्वयम्
।
कर्तुं
समेताः
प्रभवन्ति
पुंस-
स्तमीश्वरं
त्वां
शरणं
प्रपद्ये
50
▾
Meaning
Keep
अचक्षुरन्धस्य
यथाग्रणीः
कृत-
स्तथा
जनस्याविदुषोऽबुधो
गुरुः
।
त्वमर्कदृक्सर्वदृशां
समीक्षणो
वृतो
गुरुर्नः
स्वगतिं
बुभुत्सताम्
51
▾
Meaning
Keep
जनो
जनस्यादिशतेऽसतीं
गतिं
यया
प्रपद्येत
दुरत्ययं
तमः
।
त्वं
त्वव्ययं
ज्ञानममोघमञ्जसा
प्रपद्यते
येन
जनो
निजं
पदम्
52
▾
Meaning
Keep
त्वं
सर्वलोकस्य
सुहृत्प्रियेश्वरो
ह्यात्मा
गुरुर्ज्ञानमभीष्टसिद्धिः
।
तथापि
लोको
न
भवन्तमन्धधी-
र्जानाति
सन्तं
हृदि
बद्धकामः
53
▾
Meaning
Keep
तं
त्वामहं
देववरं
वरेण्यं
प्रपद्य
ईशं
प्रतिबोधनाय
।
छिन्ध्यर्थदीपैर्भगवन्
वचोभि-
र्ग्रन्थीन्
हृदय्यान्
विवृणु
स्वमोकः
54
▾
Meaning
Keep
इत्युक्तवन्तं
नृपतिं
भगवानादिपूरुषः
।
मत्स्यरूपी
महाम्भोधौ
विहरंस्तत्त्वमब्रवीत्
55
▾
Meaning
Keep
पुराणसंहितां
दिव्यां
साङ्ख्ययोगक्रियावतीम्
।
सत्यव्रतस्य
राजर्षेरात्मगुह्यमशेषतः
56
▾
Meaning
Keep
अश्रौषीदृषिभिः
साकमात्मतत्त्वमसंशयम्
।
नाव्यासीनो
भगवता
प्रोक्तं
ब्रह्म
सनातनम्
57
▾
Meaning
Keep
अतीतप्रलयापाय
उत्थिताय
स
वेधसे
।
हत्वासुरं
हयग्रीवं
वेदान्
प्रत्याहरद्धरिः
58
▾
Meaning
Keep
स
तु
सत्यव्रतो
राजा
ज्ञानविज्ञानसंयुतः
।
विष्णोः
प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो
मनुः
59
▾
Meaning
Keep
सत्यव्रतस्य
राजर्षेर्मायामत्स्यस्य
शार्ङ्गिणः
।
संवादं
महदाख्यानं
श्रुत्वा
मुच्येत
किल्बिषात्
60
▾
Meaning
Keep
अवतारं
हरेर्योऽयं
कीर्तयेदन्वहं
नरः
।
सङ्कल्पास्तस्य
सिध्यन्ति
स
याति
परमां
गतिम्
61
▾
Meaning
Keep
प्रलयपयसि
धातुः
सुप्तशक्तेर्मुखेभ्यः
श्रुतिगणमपनीतं
प्रत्युपादत्त
हत्वा
।
दितिजमकथयद्यो
ब्रह्म
सत्यव्रतानां
तमहमखिलहेतुं
जिह्ममीनं
नतोऽस्मि
Previous
←
Bali Goes Down to Sutala
Next
The Line of Manu, and Sudyumna
→