Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Line of Manu, and Sudyumna
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
मन्वन्तराणि
सर्वाणि
त्वयोक्तानि
श्रुतानि
मे
।
वीर्याण्यनन्तवीर्यस्य
हरेस्तत्र
कृतानि
च
2
▾
Meaning
Keep
योऽसौ
सत्यव्रतो
नाम
राजर्षिर्द्रविडेश्वरः
।
ज्ञानं
योऽतीतकल्पान्ते
लेभे
पुरुषसेवया
3
▾
Meaning
Keep
स
वै
विवस्वतः
पुत्रो
मनुरासीदिति
श्रुतम्
।
त्वत्तस्तस्य
सुताः
प्रोक्ता
इक्ष्वाकुप्रमुखा
नृपाः
4
▾
Meaning
Keep
तेषां
वंशं
पृथग्
ब्रह्मन्
वंशानुचरितानि
च
।
कीर्तयस्व
महाभाग
नित्यं
शुश्रूषतां
हि
नः
5
▾
Meaning
Keep
ये
भूता
ये
भविष्याश्च
भवन्त्यद्यतनाश्च
ये
।
तेषां
नः
पुण्यकीर्तीनां
सर्वेषां
वद
विक्रमान्
6
▾
Meaning
Keep
एवं
परीक्षिता
राज्ञा
सदसि
ब्रह्मवादिनाम्
।
पृष्टः
प्रोवाच
भगवाञ्छुकः
परमधर्मवित्
7
▾
Meaning
Keep
श्रूयतां
मानवो
वंशः
प्राचुर्येण
परन्तप
।
न
शक्यते
विस्तरतो
वक्तुं
वर्षशतैरपि
8
▾
Meaning
Keep
परावरेषां
भूतानामात्मा
यः
पुरुषः
परः
।
स
एवासीदिदं
विश्वं
कल्पान्तेऽन्यन्न
किञ्चन
9
▾
Meaning
Keep
तस्य
नाभेः
समभवत्पद्मकोषो
हिरण्मयः
।
तस्मिञ्जज्ञे
महाराज
स्वयम्भूश्चतुराननः
10
▾
Meaning
Keep
मरीचिर्मनसस्तस्य
जज्ञे
तस्यापि
कश्यपः
।
दाक्षायण्यां
ततोऽदित्यां
विवस्वानभवत्सुतः
11
▾
Meaning
Keep
ततो
मनुः
श्राद्धदेवः
संज्ञायामास
भारत
।
श्रद्धायां
जनयामास
दश
पुत्रान्
स
आत्मवान्
12
▾
Meaning
Keep
इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान्
।
नरिष्यन्तं
पृषध्रं
च
नभगं
च
कविं
विभुः
13
▾
Meaning
Keep
अप्रजस्य
मनोः
पूर्वं
वसिष्ठो
भगवान्किल
।
मित्रावरुणयोरिष्टिं
प्रजार्थमकरोतूप्रभुः
14
▾
Meaning
Keep
तत्र
श्रद्धा
मनोः
पत्नी
होतारं
समयाचत
।
दुहित्रर्थमुपागम्य
प्रणिपत्य
पयोव्रता
15
▾
Meaning
Keep
प्रेषितोऽध्वर्युणा
होता
ध्यायंस्तत्सुसमाहितः
।
हविषि
व्यचरत्तेन
वषट्कारं
गृणन्
द्विजः
16
▾
Meaning
Keep
होतुस्तद्व्यभिचारेण
कन्येला
नाम
साभवत्
।
तां
विलोक्य
मनुः
प्राह
नातिहृष्टमना
गुरुम्
17
▾
Meaning
Keep
भगवन्
किमिदं
जातं
कर्म
वो
ब्रह्मवादिनाम्
।
विपर्ययमहो
कष्टं
मैवं
स्याद्ब्रह्मविक्रिया
18
▾
Meaning
Keep
यूयं
ब्रह्मविदो
युक्तास्तपसा
दग्धकिल्बिषाः
।
कुतः
सङ्कल्पवैषम्यमनृतं
विबुधेष्विव
19
▾
Meaning
Keep
तन्निशम्य
वचस्तस्य
भगवान्
प्रपितामहः
।
होतुर्व्यतिक्रमं
ज्ञात्वा
बभाषे
रविनन्दनम्
20
▾
Meaning
Keep
एतत्सङ्कल्पवैषम्यं
होतुस्ते
व्यभिचारतः
।
तथापि
साधयिष्ये
ते
सुप्रजास्त्वं
स्वतेजसा
21
▾
Meaning
Keep
एवं
व्यवसितो
राजन्
भगवान्
स
महायशाः
।
अस्तौषीदादिपुरुषमिलायाः
पुंस्त्वकाम्यया
22
▾
Meaning
Keep
तस्मै
कामवरं
तुष्टो
भगवान्
हरिरीश्वरः
।
ददाविलाभवत्तेन
सुद्युम्नः
पुरुषर्षभः
23
▾
Meaning
Keep
स
एकदा
महाराज
विचरन्
मृगयां
वने
।
वृतः
कतिपयामात्यैरश्वमारुह्य
सैन्धवम्
24
▾
Meaning
Keep
प्रगृह्य
रुचिरं
चापं
शरांश्च
परमाद्भुतान्
।
दंशितोऽनुमृगं
वीरो
जगाम
दिशमुत्तराम्
25
▾
Meaning
Keep
सकुमारवनं
मेरोरधस्तात्प्रविवेश
ह
।
यत्रास्ते
भगवान्छर्वो
रममाणः
सहोमया
26
▾
Meaning
Keep
तस्मिन्
प्रविष्ट
एवासौ
सुद्युम्नः
परवीरहा
।
अपश्यत्स्त्रियमात्मानमश्वं
च
वडवां
नृप
27
▾
Meaning
Keep
तथा
तदनुगाः
सर्वे
आत्मलिङ्गविपर्ययम्
।
दृष्ट्वा
विमनसोऽभूवन्
वीक्षमाणाः
परस्परम्
28
▾
Meaning
Keep
कथमेवं
गुणो
देशः
केन
वा
भगवन्कृतः
।
प्रश्नमेनं
समाचक्ष्व
परं
कौतूहलं
हि
नः
29
▾
Meaning
Keep
एकदा
गिरिशं
द्रष्टुमृषयस्तत्र
सुव्रताः
।
दिशो
वितिमिराभासाः
कुर्वन्तः
समुपागमन्
30
▾
Meaning
Keep
तान्
विलोक्याम्बिका
देवी
विवासा
व्रीडिता
भृशम्
।
भर्तुरङ्कात्समुत्थाय
नीवीमाश्वथ
पर्यधात्
31
▾
Meaning
Keep
ऋषयोऽपि
तयोर्वीक्ष्य
प्रसङ्गं
रममाणयोः
।
निवृत्ताः
प्रययुस्तस्मान्नरनारायणाश्रमम्
32
▾
Meaning
Keep
तदिदं
भगवानाह
प्रियायाः
प्रियकाम्यया
।
स्थानं
यः
प्रविशेदेतत्स
वै
योषिद्भवेदिति
33
▾
Meaning
Keep
तत
ऊर्ध्वं
वनं
तद्वै
पुरुषा
वर्जयन्ति
हि
।
सा
चानुचरसंयुक्ता
विचचार
वनाद्वनम्
34
▾
Meaning
Keep
अथ
तामाश्रमाभ्याशे
चरन्तीं
प्रमदोत्तमाम्
।
स्त्रीभिः
परिवृतां
वीक्ष्य
चकमे
भगवान्
बुधः
35
▾
Meaning
Keep
सापि
तं
चकमे
सुभ्रूः
सोमराजसुतं
पतिम्
।
स
तस्यां
जनयामास
पुरूरवसमात्मजम्
36
▾
Meaning
Keep
एवं
स्त्रीत्वमनुप्राप्तः
सुद्युम्नो
मानवो
नृपः
।
सस्मार
स
कुलाचार्यं
वसिष्ठमिति
शुश्रुम
37
▾
Meaning
Keep
स
तस्य
तां
दशां
दृष्ट्वा
कृपया
भृशपीडितः
।
सुद्युम्नस्याशयन्
पुंस्त्वमुपाधावत
शङ्करम्
38
▾
Meaning
Keep
तुष्टस्तस्मै
स
भगवान्
ऋषये
प्रियमावहन्
।
स्वां
च
वाचमृतां
कुर्वन्निदमाह
विशाम्पते
39
▾
Meaning
Keep
मासं
पुमान्
स
भविता
मासं
स्त्री
तव
गोत्रजः
।
इत्थं
व्यवस्थया
कामं
सुद्युम्नोऽवतु
मेदिनीम्
40
▾
Meaning
Keep
आचार्यानुग्रहात्कामं
लब्ध्वा
पुंस्त्वं
व्यवस्थया
।
पालयामास
जगतीं
नाभ्यनन्दन्
स्म
तं
प्रजाः
41
▾
Meaning
Keep
तस्योत्कलो
गयो
राजन्विमलश्च
सुताः
।
दक्षिणापथराजानो
बभूवुर्धर्मवत्सलाः
42
▾
Meaning
Keep
ततः
परिणते
काले
प्रतिष्ठानपतिः
प्रभुः
।
पुरूरवस
उत्सृज्य
गां
पुत्राय
गतो
वनम्
Previous
←
The Fish and the Flood
Next
The Other Sons of Manu
→