Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Cart and the Whirlwind
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
येन
येनावतारेण
भगवान्
हरिरीश्वरः
।
करोति
कर्णरम्याणि
मनोज्ञानि
च
नः
प्रभो
2
▾
Meaning
Keep
यच्छृण्वतोऽपैत्यरतिर्वितृष्णा
सत्त्वं
च
शुद्ध्यत्यचिरेण
पुंसः
।
भक्तिर्हरौ
तत्पुरुषे
च
सख्यं
तदेव
हारं
वद
मन्यसे
चेत्
3
▾
Meaning
Keep
अथान्यदपि
कृष्णस्य
तोकाचरितमद्भुतम्
।
मानुषं
लोकमासाद्य
तज्जातिमनुरुन्धतः
4
▾
Meaning
Keep
कदाचिदौत्थानिककौतुकाप्लवे
जन्मर्क्षयोगे
समवेतयोषिताम्
।
वादित्रगीतद्विजमन्त्रवाचकै-
श्चकार
सूनोरभिषेचनं
सती
5
▾
Meaning
Keep
नन्दस्य
पत्नी
कृतमज्जनादिकं
विप्रैः
कृतस्वस्त्ययनं
सुपूजितैः
।
अन्नाद्यवासःस्रगभीष्टधेनुभिः
संजातनिद्राक्षमशीशयच्छनैः
6
▾
Meaning
Keep
औत्थानिकौत्सुक्यमना
मनस्विनी
समागतान्
पूजयती
व्रजौकसः
।
नैवाशृणोद्वै
रुदितं
सुतस्य
सा
रुदन्
स्तनार्थी
चरणावुदक्षिपत्
7
▾
Meaning
Keep
अधः
शयानस्य
शिशोरनोऽल्पक-
प्रवालमृद्वङ्घ्रिहतं
व्यवर्तत
।
विध्वस्तनानारसकुप्यभाजनं
व्यत्यस्तचक्राक्षविभिन्नकूबरम्
8
▾
Meaning
Keep
दृष्ट्वा
यशोदाप्रमुखा
व्रजस्त्रिय
औत्थानिके
कर्मणि
याः
समागताः
।
नन्दादयश्चाद्भुतदर्शनाकुलाः
कथं
स्वयं
वै
शकटं
विपर्यगात्
9
▾
Meaning
Keep
ऊचुरव्यवसितमतीन्
गोपान्
गोपीश्च
बालकाः
।
रुदतानेन
पादेन
क्षिप्तमेतन्न
संशयः
10
▾
Meaning
Keep
न
ते
श्रद्दधिरे
गोपा
बालभाषितमित्युत
।
अप्रमेयं
बलं
तस्य
बालकस्य
न
ते
विदुः
11
▾
Meaning
Keep
रुदन्तं
सुतमादाय
यशोदा
ग्रहशङ्किता
।
कृतस्वस्त्ययनं
विप्रैः
सूक्तैः
स्तनमपाययत्
12
▾
Meaning
Keep
पूर्ववत्
स्थापितं
गोपैर्बलिभिः
सपरिच्छदम्
।
विप्रा
हुत्वार्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः
13
▾
Meaning
Keep
येऽसूयानृतदम्भेष्र्याहिंसामानविवर्जिताः
।
न
तेषां
सत्यशीलानामाशिषो
विफलाः
कृताः
14
▾
Meaning
Keep
इति
बालकमादाय
सामर्ग्यजुरुपाकृतैः
।
जलैः
पवित्रौषधिभिरभिषिच्य
द्विजोत्तमैः
15
▾
Meaning
Keep
वाचयित्वा
स्वस्त्ययनं
नन्दगोपः
समाहितः
।
हुत्वा
चाग्निं
द्विजातिभ्यः
प्रादादन्नं
महागुणम्
16
▾
Meaning
Keep
गावः
सर्वगुणोपेता
वासःस्रग्रुक्ममालिनीः
।
आत्मजाभ्युदयार्थाय
प्रादात्ते
चान्वयुञ्जत
17
▾
Meaning
Keep
विप्रा
मन्त्रविदो
युक्तास्तैर्याः
प्रोक्तास्तथाऽऽशिषः
।
ता
निष्फला
भविष्यन्ति
न
कदाचिदपि
स्फुटम्
18
▾
Meaning
Keep
एकदाऽऽरोहमारूढं
लालयन्ती
सुतं
सती
।
गरिमाणं
शिशोर्वोढुं
न
सेहे
गिरिकूटवत्
19
▾
Meaning
Keep
भूमौ
निधाय
तं
गोपी
विस्मिता
भारपीडिता
।
महापुरुषमादध्यौ
जगतामास
कर्मसु
20
▾
Meaning
Keep
दैत्यो
नाम्ना
तृणावर्तः
कंसभृत्यः
प्रणोदितः
।
चक्रवातस्वरूपेण
जहारासीनमर्भकम्
21
▾
Meaning
Keep
गोकुलं
सर्वमावृण्वन्
मुष्णंश्चक्षूंषि
रेणुभिः
।
ईरयन्
सुमहाघोरशब्देन
प्रदिशो
दिशः
22
▾
Meaning
Keep
मुहूर्तमभवद्गोष्ठं
रजसा
तमसाऽऽवृतम्
।
सुतं
यशोदा
नापश्यत्तस्मिन्
न्यस्तवती
यतः
23
▾
Meaning
Keep
नापश्यत्कश्चनात्मानं
परं
चापि
विमोहितः
।
तृणावर्तनिसृष्टाभिः
शर्कराभिरुपद्रुतः
24
▾
Meaning
Keep
इति
खरपवनचक्रपांशुवर्षे
सुतपदवीमबलाविलक्ष्य
माता
।
अतिकरुणमनुस्मरन्त्यशोचद्
भुवि
पतिता
मृतवत्सका
यथा
गौः
25
▾
Meaning
Keep
रुदितमनुनिशम्य
तत्र
गोप्यो
भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः
।
रुरुदुरनुपलभ्य
नन्दसूनुं
पवन
उपारतपांशुवर्षवेगे
26
▾
Meaning
Keep
तृणावर्तः
शान्तरयो
वात्यारूपधरो
हरन्
।
कृष्णं
नभो
गतो
गन्तुं
नाशक्नोद्भूरिभारभृत्
27
▾
Meaning
Keep
तमश्मानं
मन्यमान
आत्मनो
गुरुमत्तया
।
गले
गृहीत
उत्स्रष्टुं
नाशक्नोदद्भुतार्भकम्
28
▾
Meaning
Keep
गलग्रहणनिश्चेष्टो
दैत्यो
निर्गतलोचनः
।
अव्यक्तरावो
न्यपतत्सह
बालो
व्यसुर्व्रजे
29
▾
Meaning
Keep
तमन्तरिक्षात्पतितं
शिलायां
विशीर्णसर्वावयवं
करालम्
।
पुरं
यथा
रुद्रशरेण
विद्धं
स्त्रियो
रुदत्यो
ददृशुः
समेताः
30
▾
Meaning
Keep
प्रादाय
मात्रे
प्रतिहृत्य
विस्मिताः
कृष्णं
च
तस्योरसि
लम्बमानम्
।
तं
स्वस्तिमन्तं
पुरुषादनीतं
विहायसा
मृत्युमुखात्प्रमुक्तम्
।
गोप्यश्च
गोपाः
किल
नन्दमुख्या
लब्ध्वा
पुनः
प्रापुरतीव
मोदम्
31
▾
Meaning
Keep
अहो
बतात्यद्भुतमेष
रक्षसा
बालो
निवृत्तिं
गमितोऽभ्यगात्पुनः
।
हिंस्रः
स्वपापेन
विहिंसितः
खलः
साधुः
समत्वेन
भयाद्विमुच्यते
32
▾
Meaning
Keep
किं
नस्तपश्चीर्णमधोक्षजार्चनं
पूर्तेष्टदत्तमुत
भूतसौहृदम्
।
यत्सम्परेतः
पुनरेव
बालको
दिष्ट्या
स्वबन्धून्
प्रणयन्नुपस्थितः
33
▾
Meaning
Keep
दृष्ट्वाद्भुतानि
बहुशो
नन्दगोपो
बृहद्वने
।
वसुदेववचो
भूयो
मानयामास
विस्मितः
34
▾
Meaning
Keep
एकदार्भकमादाय
स्वाङ्कमारोप्य
भामिनी
।
प्रस्नुतं
पाययामास
स्तनं
स्नेहपरिप्लुता
35
▾
Meaning
Keep
पीतप्रायस्य
जननी
सुतस्य
रुचिरस्मितम्
।
मुखं
लालयती
राजञ्जृम्भतो
ददृशे
इदम्
36
▾
Meaning
Keep
खं
रोदसी
ज्योतिरनीकमाशाः
सूर्येन्दुवह्निश्वसनाम्बुधींश्च
।
द्वीपान्
नगांस्तद्दुहितॄर्वनानि
भूतानि
यानि
स्थिरजङ्गमानि
37
▾
Meaning
Keep
सा
वीक्ष्य
विश्वं
सहसा
राजन्
सञ्जातवेपथुः
।
सम्मील्य
मृगशावाक्षी
नेत्रे
आसीत्सुविस्मिता
Previous
←
Putana
Next
Yasoda Sees the Worlds in His Mouth
→