Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Yasoda Sees the Worlds in His Mouth
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
गर्गः
पुरोहितो
राजन्
यदूनां
सुमहातपाः
।
व्रजं
जगाम
नन्दस्य
वसुदेवप्रचोदितः
2
▾
Meaning
Keep
तं
दृष्ट्वा
परमप्रीतः
प्रत्युत्थाय
कृताञ्जलिः
।
आनर्चाधोक्षजधिया
प्रणिपातपुरःसरम्
3
▾
Meaning
Keep
सूपविष्टं
कृतातिथ्यं
गिरा
सूनृतया
मुनिम्
।
नन्दयित्वाब्रवीद्ब्रह्मन्
पूर्णस्य
करवाम
किम्
4
▾
Meaning
Keep
महद्विचलनं
नॄणां
गृहिणां
दीनचेतसाम्
।
निःश्रेयसाय
भगवन्
कल्पते
नान्यथा
क्वचित्
5
▾
Meaning
Keep
ज्योतिषामयनं
साक्षाद्यत्तज्ज्ञानमतीन्द्रियम्
।
प्रणीतं
भवता
येन
पुमान्
वेद
परावरम्
6
▾
Meaning
Keep
त्वं
हि
ब्रह्मविदां
श्रेष्ठः
संस्कारान्
कर्तुमर्हसि
।
बालयोरनयोर्नॄणां
जन्मना
ब्राह्मणो
गुरुः
7
▾
Meaning
Keep
यदूनामहमाचार्यः
ख्यातश्च
भुवि
सर्वतः
।
सुतं
मया
संस्कृतं
ते
मन्यते
देवकीसुतम्
8
▾
Meaning
Keep
कंसः
पापमतिः
सख्यं
तव
चानकदुन्दुभेः
।
देवक्या
अष्टमो
गर्भो
न
स्त्री
भवितुमर्हति
9
▾
Meaning
Keep
इति
सञ्चिन्तयञ्छ्रुत्वा
देवक्या
दारिकावचः
।
अपि
हन्ताऽऽगताशङ्कस्तर्हि
तन्नोऽनयो
भवेत्
10
▾
Meaning
Keep
अलक्षितोऽस्मिन्
रहसि
मामकैरपि
गोव्रजे
।
कुरु
द्विजातिसंस्कारं
स्वस्तिवाचनपूर्वकम्
11
▾
Meaning
Keep
एवं
सम्प्रार्थितो
विप्रः
स्वचिकीर्षितमेव
तत्
।
चकार
नामकरणं
गूढो
रहसि
बालयोः
12
▾
Meaning
Keep
अयं
हि
रोहिणीपुत्रो
रमयन्
सुहृदो
गुणैः
।
आख्यास्यते
राम
इति
बलाधिक्याद्बलं
विदुः
।
यदूनामपृथग्भावात्सङ्कर्षणमुशन्त्युत
13
▾
Meaning
Keep
आसन्
वर्णास्त्रयो
ह्यस्य
गृह्णतोऽनुयुगं
तनूः
।
शुक्लो
रक्तस्तथा
पीत
इदानीं
कृष्णतां
गतः
14
▾
Meaning
Keep
प्रागयं
वसुदेवस्य
क्वचिज्जातस्तवात्मजः
।
वासुदेव
इति
श्रीमानभिज्ञाः
सम्प्रचक्षते
15
▾
Meaning
Keep
बहूनि
सन्ति
नामानि
रूपाणि
च
सुतस्य
ते
।
गुणकर्मानुरूपाणि
तान्यहं
वेद
नो
जनाः
16
▾
Meaning
Keep
एष
वः
श्रेय
आधास्यद्गोपगोकुलनन्दनः
।
अनेन
सर्वदुर्गाणि
यूयमञ्जस्तरिष्यथ
17
▾
Meaning
Keep
पुरानेन
व्रजपते
साधवो
दस्युपीडिताः
।
अराजके
रक्ष्यमाणा
जिग्युर्दस्यून्
समेधिताः
18
▾
Meaning
Keep
य
एतस्मिन्
महाभागाः
प्रीतिं
कुर्वन्ति
मानवाः
।
नारयोऽभिभवन्त्येतान्
विष्णुपक्षानिवासुराः
19
▾
Meaning
Keep
तस्मान्नन्दात्मजोऽयं
ते
नारायणसमो
गुणैः
।
श्रिया
कीर्त्यानुभावेन
गोपायस्व
समाहितः
20
▾
Meaning
Keep
इत्यात्मानं
समादिश्य
गर्गे
च
स्वगृहं
गते
।
नन्दः
प्रमुदितो
मेने
आत्मानं
पूर्णमाशिषाम्
21
▾
Meaning
Keep
कालेन
व्रजताल्पेन
गोकुले
रामकेशवौ
।
जानुभ्यां
सह
पाणिभ्यां
रिङ्गमाणौ
विजह्रतुः
22
▾
Meaning
Keep
तावङ्घ्रियुग्ममनुकृष्य
सरीसृपन्तौ
घोषप्रघोषरुचिरं
व्रजकर्दमेषु
।
तन्नादहृष्टमनसावनुसृत्य
लोकं
मुग्धप्रभीतवदुपेयतुरन्ति
मात्रोः
23
▾
Meaning
Keep
तन्मातरौ
निजसुतौ
घृणया
स्नुवन्त्यौ
पङ्काङ्गरागरुचिरावुपगुह्य
दोर्भ्याम्
।
दत्त्वा
स्तनं
प्रपिबतोः
स्म
मुखं
निरीक्ष्य
मुग्धस्मिताल्पदशनं
ययतुः
प्रमोदम्
24
▾
Meaning
Keep
यर्ह्यङ्गना दर्शनीयकुमारलीला-
वन्तर्व्रजेतदबलाः प्रगृहीतपुच्छैः ।
वत्सैरितस्तत उभावनुकृष्यमाणौ
प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः
25
▾
Meaning
Keep
शृङ्ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्यः
क्रीडापरावतिचलौ
स्वसुतौ
निषेद्धुम्
।
गृह्याणि
कर्तुमपि
यत्र
न
तज्जनन्यौ
शेकात
आपतुरलं
मनसोऽनवस्थाम्
26
▾
Meaning
Keep
कालेनाल्पेन
राजर्षे
रामः
कृष्णश्च
गोकुले
।
अघृष्टजानुभिः
पद्भिर्विचक्रमतुरञ्जसा
27
▾
Meaning
Keep
ततस्तु
भगवान्
कृष्णो
वयस्यैर्व्रजबालकैः
।
सह
रामो
व्रजस्त्रीणां
चिक्रीडे
जनयन्
मुदम्
28
▾
Meaning
Keep
कृष्णस्य
गोप्यो
रुचिरं
वीक्ष्य
कौमारचापलम्
।
शृण्वन्त्याः
किल
तन्मातुरिति
होचुः
समागताः
29
▾
Meaning
Keep
वत्सान्
मुञ्चन्
क्वचिदसमये
क्रोशसंजातहासः
स्तेयं
स्वाद्वत्त्यथ
दधि
पयः
कल्पितैः
स्तेययोगैः
।
मर्कान्
भोक्ष्यन्
विभजति
स
चेन्नात्ति
भाण्डं
भिन्नत्ति
द्रव्यालाभे
स
गृहकुपितो
यात्युपक्रोश्य
तोकान्
30
▾
Meaning
Keep
हस्ताग्राह्ये
रचयति
विधिं
पीठकोलूखलाद्यै-
श्छिद्रं
ह्यन्तर्निहितवयुनः
शिक्यभाण्डेषु
तद्वित्
।
ध्वान्तागारे
धृतमणिगणं
स्वाङ्गमर्थप्रदीपं
काले
गोप्यो
यर्हि
गृहकृत्येषु
सुव्यग्रचित्ताः
31
▾
Meaning
Keep
एवं
धार्ष्ट्यान्युशति
कुरुते
मेहनादीनि
वास्तौ
स्तेयोपायैर्विरचितकृतिः
सुप्रतीको
यथाऽऽस्ते
।
इत्थं
स्त्रीभिः
सभयनयनश्रीमुखालोकिनीभिर्व्याख्यातार्था
प्रहसितमुखी
न
ह्युपालब्धुमैच्छत्
32
▾
Meaning
Keep
एकदा
क्रीडमानास्ते
रामाद्या
गोपदारकाः
।
कृष्णो
मृदं
भक्षितवानिति
मात्रे
न्यवेदयन्
33
▾
Meaning
Keep
सा
गृहीत्वा
करे
कृष्णमुपालभ्य
हितैषिणी
।
यशोदा
भयसम्भ्रान्तप्रेक्षणाक्षमभाषत
34
▾
Meaning
Keep
कस्मान्मृदमदान्तात्मन्
भवान्
भक्षितवान्
रहः
।
वदन्ति
तावका
ह्येते
कुमारास्तेऽग्रजोऽप्ययम्
35
▾
Meaning
Keep
नाहं
भक्षितवानम्ब
सर्वे
मिथ्याभिशंसिनः
।
यदि
सत्यगिरस्तर्हि
समक्षं
पश्य
मे
मुखम्
36
▾
Meaning
Keep
यद्येवं
तर्हि
व्यादेहीत्युक्तः
स
भगवान्
हरिः
।
व्यादत्ताव्याहतैश्वर्यः
क्रीडामनुजबालकः
37
▾
Meaning
Keep
सा
तत्र
ददृशे
विश्वं
जगत्स्थास्नु
च
खं
दिशः
।
साद्रिद्वीपाब्धिभूगोलं
स
वाय्वग्नीन्दुतारकम्
38
▾
Meaning
Keep
ज्योतिश्चक्रं
जलं
तेजो
नभस्वान्
वियदेव
च
।
वैकारिकाणीन्द्रियाणि
मनो
मात्रा
गुणास्त्रयः
39
▾
Meaning
Keep
एतद्विचित्रं
सह
जीवकाल-
स्वभावकर्माशयलिङ्गभेदम्
।
सूनोस्तनौ
वीक्ष्य
विदारितास्ये
व्रजं
सहात्मानमवाप
शङ्काम्
40
▾
Meaning
Keep
किं
स्वप्न
एतदुत
देवमाया
किं
वा
मदीयो
बत
बुद्धिमोहः
।
अथो
अमुष्यैव
ममार्भकस्य
यः
कश्चनौत्पत्तिक
आत्मयोगः
41
▾
Meaning
Keep
अथो
यथावन्न
वितर्कगोचरं
चेतो
मनःकर्मवचोभिरञ्जसा
।
यदाश्रयं
येन
यतः
प्रतीयते
सुदुर्विभाव्यं
प्रणतास्मि
तत्पदम्
42
▾
Meaning
Keep
अहं
ममासौ
पतिरेष
मे
सुतो
व्रजेश्वरस्याखिलवित्तपा
सती
।
गोप्यश्च
गोपाः
सह
गोधनाश्च
मे
यन्माययेत्थं
कुमतिः
स
मे
गतिः
43
▾
Meaning
Keep
इत्थं
विदिततत्त्वायां
गोपिकायां
स
ईश्वरः
।
वैष्णवीं
व्यतनोन्मायां
पुत्रस्नेहमयीं
विभुः
44
▾
Meaning
Keep
सद्योनष्टस्मृतिर्गोपी
साऽऽरोप्यारोहमात्मजम्
।
प्रवृद्धस्नेहकलिलहृदयाऽऽसीद्यथा
पुरा
45
▾
Meaning
Keep
त्रय्या
चोपनिषद्भिश्च
सांख्ययोगैश्च
सात्वतैः
।
उपगीयमानमाहात्म्यं
हरिं
सामन्यतात्मजम्
46
▾
Meaning
Keep
नन्दः
किमकरोद्ब्रह्मन्
श्रेय
एवं
महोदयम्
।
यशोदा
च
महाभागा
पपौ
यस्याः
स्तनं
हरिः
47
▾
Meaning
Keep
पितरौ
नान्वविन्देतां
कृष्णोदारार्भकेहितम्
।
गायन्त्यद्यापि
कवयो
यल्लोकशमलापहम्
48
▾
Meaning
Keep
द्रोणो
वसूनां
प्रवरो
धरया
भार्यया
सह
।
करिष्यमाण
आदेशान्
ब्रह्मणस्तमुवाच
ह
49
▾
Meaning
Keep
जातयोर्नौ
महादेवे
भुवि
विश्वेश्वरे
हरौ
।
भक्तिः
स्यात्परमा
लोके
ययाञ्जो
दुर्गतिं
तरेत्
50
▾
Meaning
Keep
अस्त्वित्युक्तः
स
भगवान्
व्रजे
द्रोणो
महायशाः
।
जज्ञे
नन्द
इति
ख्यातो
यशोदा
सा
धराभवत्
51
▾
Meaning
Keep
ततो
भक्तिर्भगवति
पुत्रीभूते
जनार्दने
।
दम्पत्योर्नितरामासीद्गोपगोपीषु
भारत
52
▾
Meaning
Keep
कृष्णो
ब्रह्मण
आदेशं
सत्यं
कर्तुं
व्रजे
विभुः
।
सह
रामो
वसंश्चक्रे
तेषां
प्रीतिं
स्वलीलया
53
▾
Meaning
Keep
इति
श्रीमद्भाग्वते
महापुराणे
पारमहंस्यां
संहितायां
दशमस्कन्धे
पूर्वार्धे
विश्वरूपदर्शने
अष्टमोऽध्यायः
Previous
←
The Cart and the Whirlwind
Next
Yasoda Ties Him to the Mortar
→