Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Yasoda Ties Him to the Mortar
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एकदा
गृहदासीषु
यशोदा
नन्दगेहिनी
।
कर्मान्तरनियुक्तासु
निर्ममन्थ
स्वयं
दधि
2
▾
Meaning
Keep
यानि
यानीह
गीतानि
तद्बालचरितानि
च
।
दधिनिर्मन्थने
काले
स्मरन्ती
तान्यगायत
3
▾
Meaning
Keep
क्षौमं
वासः
पृथुकटितटे
बिभ्रती
सूत्रनद्धं
पुत्रस्नेहस्नुतकुचयुगं
जातकम्पं
च
सुभ्रूः
।
रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ
कुण्डले
च
स्विन्नं
वक्त्रं
कबरविगलन्मालती
निर्ममन्थ
4
▾
Meaning
Keep
तां
स्तन्यकाम
आसाद्य
मथ्नन्तीं
जननीं
हरिः
।
गृहीत्वा
दधिमन्थानं
न्यषेधत्प्रीतिमावहन्
5
▾
Meaning
Keep
तमङ्कमारूढमपाययत्स्तनं
स्नेहस्नुतं
सस्मितमीक्षती
मुखम्
।
अतृप्तमुत्सृज्य
जवेन
सा
यया-
वुत्सिच्यमाने
पयसि
त्वधिश्रिते
6
▾
Meaning
Keep
सञ्जातकोपः
स्फुरितारुणाधरं
संदश्य
दद्भिर्दधिमन्थभाजनम्
।
भित्त्वा
मृषाश्रुर्दृषदश्मना
रहो
जघास
हैयङ्गवमन्तरं
गतः
7
▾
Meaning
Keep
उत्तार्य
गोपी
सुशृतं
पयः
पुनः
प्रविश्य
संदृश्य
च
दध्यमत्रकम्
।
भग्नं
विलोक्य
स्वसुतस्य
कर्म
त-
ज्जहास
तं
चापि
न
तत्र
पश्यती
8
▾
Meaning
Keep
उलूखलाङ्घ्रेरुपरि
व्यवस्थितं
मर्काय
कामं
ददतं
शिचि
स्थितम्
।
हैयङ्गवं
चौर्यविशङ्कितेक्षणं
निरीक्ष्य
पश्चात्सुतमागमच्छनैः
9
▾
Meaning
Keep
तामात्तयष्टिं
प्रसमीक्ष्य
सत्वरस्ततोऽवरुह्यापससार
भीतवत्
।
गोप्यन्वधावन्न
यमाप
योगिनां
क्षमं
प्रवेष्टुं
तपसेरितं
मनः
10
▾
Meaning
Keep
अन्वञ्चमाना
जननी
बृहच्चल-
च्छ्रोणीभराक्रान्तगतिः
सुमध्यमा
।
जवेन
विस्रंसितकेशबन्धन-
च्युतप्रसूनानुगतिः
परामृशत्
11
▾
Meaning
Keep
कृतागसं
तं
प्ररुदन्तमक्षिणी
कषन्तमञ्जन्मषिणी
स्वपाणिना
।
उद्वीक्षमाणं
भयविह्वलेक्षणं
हस्ते
गृहीत्वा
भिषयन्त्यवागुरत्
12
▾
Meaning
Keep
त्यक्त्वा
यष्टिं
सुतं
भीतं
विज्ञायार्भकवत्सला
।
इयेष
किल
तं
बद्धुं
दाम्नातद्वीर्यकोविदा
13
▾
Meaning
Keep
न
चान्तर्न
बहिर्यस्य
न
पूर्वं
नापि
चापरम्
।
पूर्वापरं
बहिश्चान्तर्जगतो
यो
जगच्च
यः
14
▾
Meaning
Keep
तं
मत्वाऽऽत्मजमव्यक्तं
मर्त्यलिङ्गमधोक्षजम्
।
गोपिकोलूखले
दाम्ना
बबन्ध
प्राकृतं
यथा
15
▾
Meaning
Keep
तद्दाम
बध्यमानस्य
स्वार्भकस्य
कृतागसः
।
द्व्यङ्गुलोनमभूत्तेन
सन्दधेऽन्यच्च
गोपिका
16
▾
Meaning
Keep
यदाऽऽसीत्तदपि
न्यूनं
तेनान्यदपि
सन्दधे
।
तदपि
द्व्यङ्गुलं
न्यूनं
यद्
यदादत्त
बन्धनम्
17
▾
Meaning
Keep
एवं
स्वगेहदामानि
यशोदा
सन्दधत्यपि
।
गोपीनां
सुस्मयन्तीनां
स्मयन्ती
विस्मिताभवत्
18
▾
Meaning
Keep
स्वमातुः
स्विन्नगात्राया
विस्रस्तकबरस्रजः
।
दृष्ट्वा
परिश्रमं
कृष्णः
कृपयाऽऽसीत्स्वबन्धने
19
▾
Meaning
Keep
एवं
सन्दर्शिता
ह्यङ्ग
हरिणा
भृत्यवश्यता
।
स्ववशेनापि
कृष्णेन
यस्येदं
सेश्वरं
वशे
20
▾
Meaning
Keep
नेमं
विरिञ्चो
न
भवो
न
श्रीरप्यङ्ग
संश्रया
।
प्रसादं
लेभिरे
गोपी
यत्तत्प्राप
विमुक्तिदात्
21
▾
Meaning
Keep
नायं
सुखापो
भगवान्
देहिनां
गोपिकासुतः
।
ज्ञानिनां
चात्मभूतानां
यथा
भक्तिमतामिह
22
▾
Meaning
Keep
कृष्णस्तु
गृहकृत्येषु
व्यग्रायां
मातरि
प्रभुः
।
अद्राक्षीदर्जुनौ
पूर्वं
गुह्यकौ
धनदात्मजौ
23
▾
Meaning
Keep
पुरा
नारदशापेन
वृक्षतां
प्रापितौ
मदात्
।
नलकूवरमणिग्रीवाविति
ख्यातौ
श्रियान्वितौ
Previous
←
Yasoda Sees the Worlds in His Mouth
Next
The Twin Arjuna Trees
→