Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Twin Arjuna Trees
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कथ्यतां
भगवन्नेतत्तयोः
शापस्य
कारणम्
।
यत्तद्विगर्हितं
कर्म
येन
वा
देवर्षेस्तमः
2
▾
Meaning
Keep
रुद्रस्यानुचरौ
भूत्वा
सुदृप्तौ
धनदात्मजौ
।
कैलासोपवने
रम्ये
मन्दाकिन्यां
मदोत्कटौ
3
▾
Meaning
Keep
वारुणीं
मदिरां
पीत्वा
मदाघूर्णितलोचनौ
।
स्त्रीजनैरनुगायद्भिश्चेरतुः
पुष्पिते
वने
4
▾
Meaning
Keep
अन्तः
प्रविश्य
गङ्गायामम्भोजवनराजिनि
।
चिक्रीडतुर्युवतिभिर्गजाविव
करेणुभिः
5
▾
Meaning
Keep
यदृच्छया
च
देवर्षिर्भगवांस्तत्र
कौरव
।
अपश्यन्नारदो
देवौ
क्षीबाणौ
समबुध्यत
6
▾
Meaning
Keep
तं
दृष्ट्वा
व्रीडिता
देव्यो
विवस्त्राः
शापशङ्किताः
।
वासांसि
पर्यधुः
शीघ्रं
विवस्त्रौ
नैव
गुह्यकौ
7
▾
Meaning
Keep
तौ
दृष्ट्वा
मदिरामत्तौ
श्रीमदान्धौ
सुरात्मजौ
।
तयोरनुग्रहार्थाय
शापं
दास्यन्निदं
जगौ
8
▾
Meaning
Keep
न
ह्यन्यो
जुषतो
जोष्यान्
बुद्धिभ्रंशो
रजोगुणः
।
श्रीमदादाभिजात्यादिर्यत्र
स्त्रीद्यूतमासवः
9
▾
Meaning
Keep
हन्यन्ते
पशवो
यत्र
निर्दयैरजितात्मभिः
।
मन्यमानैरिमं
देहमजरामृत्यु
नश्वरम्
10
▾
Meaning
Keep
देवसंज्ञितमप्यन्ते
कृमिविड्भस्मसंज्ञितम्
।
भूतध्रुक्तत्कृते
स्वार्थं
किं
वेद
निरयो
यतः
11
▾
Meaning
Keep
देहः
किमन्नदातुः
स्वं
निषेक्तुर्मातुरेव
च
।
मातुः
पितुर्वा
बलिनः
क्रेतुरग्नेः
शुनोऽपि
वा
12
▾
Meaning
Keep
एवं
साधारणं
देहमव्यक्तप्रभवाप्ययम्
।
को
विद्वानात्मसात्कृत्वा
हन्ति
जन्तून्
ऋतेऽसतः
13
▾
Meaning
Keep
असतः
श्रीमदान्धस्य
दारिद्र्यं
परमञ्जनम्
।
आत्मौपम्येन
भूतानि
दरिद्रः
परमीक्षते
14
▾
Meaning
Keep
यथा
कण्टकविद्धाङ्गो
जन्तोर्नेच्छति
तां
व्यथाम्
।
जीवसाम्यं
गतो
लिङ्गैर्न
तथाविद्धकण्टकः
15
▾
Meaning
Keep
दरिद्रो
निरहंस्तम्भो
मुक्तः
सर्वमदैरिह
।
कृच्छ्रं
यदृच्छयाऽऽप्नोति
तद्धि
तस्य
परं
तपः
16
▾
Meaning
Keep
नित्यं
क्षुत्क्षामदेहस्य
दरिद्रस्यान्नकाङ्क्षिणः
।
इन्द्रियाण्यनुशुष्यन्ति
हिंसापि
विनिवर्तते
17
▾
Meaning
Keep
दरिद्रस्यैव
युज्यन्ते
साधवः
समदर्शिनः
।
सद्भिः
क्षिणोति
तं
तर्षं
तत
आराद्विशुद्ध्यति
18
▾
Meaning
Keep
साधूनां
समचित्तानां
मुकुन्दचरणैषिणाम्
।
उपेक्ष्यैः
किं
धनस्तम्भैरसद्भिरसदाश्रयैः
19
▾
Meaning
Keep
तदहं
मत्तयोर्माध्व्या
वारुण्या
श्रीमदान्धयोः
।
तमो
मदं
हरिष्यामि
स्त्रैणयोरजितात्मनोः
20
▾
Meaning
Keep
यदिमौ
लोकपालस्य
पुत्रौ
भूत्वा
तमःप्लुतौ
।
न
विवाससमात्मानं
विजानीतः
सुदुर्मदौ
21
▾
Meaning
Keep
अतोऽर्हतः
स्थावरतां
स्यातां
नैवं
यथा
पुनः
।
स्मृतिः
स्यान्मत्प्रसादेन
तत्रापि
मदनुग्रहात्
22
▾
Meaning
Keep
वासुदेवस्य
सान्निध्यं
लब्ध्वा
दिव्यशरच्छते
।
वृत्ते
स्वर्लोकतां
भूयो
लब्धभक्ती
भविष्यतः
23
▾
Meaning
Keep
एवमुक्त्वा
स
देवर्षिर्गतो
नारायणाश्रमम्
।
नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ
24
▾
Meaning
Keep
ऋषेर्भागवतमुख्यस्य
सत्यं
कर्तुं
वचो
हरिः
।
जगाम
शनकैस्तत्र
यत्रास्तां
यमलार्जुनौ
25
▾
Meaning
Keep
देवर्षिर्मे
प्रियतमो
यदिमौ
धनदात्मजौ
।
तत्तथा
साधयिष्यामि
यद्गीतं
तन्महात्मना
26
▾
Meaning
Keep
इत्यन्तरेणार्जुनयोः
कृष्णस्तु
यमयोर्ययौ
।
आत्मनिर्वेशमात्रेण
तिर्यग्गतमुलूखलम्
27
▾
Meaning
Keep
बालेन
निष्कर्षयतान्वगुलूखलं
त-
द्दामोदरेण
तरसोत्कलिताङ्घ्रिबन्धौ
निष्पेततुः
परमविक्रमितातिवेप-
स्कन्धप्रवालविटपौ
कृतचण्डशब्दौ
28
▾
Meaning
Keep
तत्र
श्रिया
परमया
ककुभः
स्फुरन्तौ
सिद्धावुपेत्य
कुजयोरिव
जातवेदाः
।
कृष्णं
प्रणम्य
शिरसाखिललोकनाथं
बद्धाञ्जली
विरजसाविदमूचतुः
स्म
29
▾
Meaning
Keep
कृष्ण
कृष्ण
महायोगिंस्त्वमाद्यः
पुरुषः
परः
।
व्यक्ताव्यक्तमिदं
विश्वं
रूपं
ते
ब्राह्मणा
विदुः
30
▾
Meaning
Keep
त्वमेकः
सर्वभूतानां
देहास्वात्मेन्द्रियेश्वरः
।
त्वमेव
कालो
भगवान्
विष्णुरव्यय
ईश्वरः
31
▾
Meaning
Keep
त्वं
महान्
प्रकृतिः
सूक्ष्मा
रजःसत्त्वतमोमयी
।
त्वमेव
पुरुषोऽध्यक्षः
सर्वक्षेत्रविकारवित्
32
▾
Meaning
Keep
गृह्यमाणैस्त्वमग्राह्यो
विकारैः
प्राकृतैर्गुणैः
।
को
न्विहार्हति
विज्ञातुं
प्राक्सिद्धं
गुणसंवृतः
33
▾
Meaning
Keep
तस्मै
तुभ्यं
भगवते
वासुदेवाय
वेधसे
।
आत्मद्योतगुणैश्छन्नमहिम्ने
ब्रह्मणे
नमः
34
▾
Meaning
Keep
यस्यावतारा
ज्ञायन्ते
शरीरेष्वशरीरिणः
।
तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः
35
▾
Meaning
Keep
स
भवान्
सर्वलोकस्य
भवाय
विभवाय
च
।
अवतीर्णोंऽशभागेन
साम्प्रतं
पतिराशिषाम्
36
▾
Meaning
Keep
नमः
परमकल्याण
नमः
परममङ्गल
।
वासुदेवाय
शान्ताय
यदूनां
पतये
नमः
37
▾
Meaning
Keep
अनुजानीहि
नौ
भूमंस्तवानुचरकिङ्करौ
।
दर्शनं
नौ
भगवत
ऋषेरासीदनुग्रहात्
38
▾
Meaning
Keep
वाणी
गुणानुकथने
श्रवणौ
कथायां
हस्तौ
च
कर्मसु
मनस्तव
पादयोर्नः
।
स्मृत्यां
शिरस्तव
निवासजगत्प्रणामे
दृष्टिः
सतां
दर्शनेऽस्तु
भवत्तनूनाम्
39
▾
Meaning
Keep
इत्थं
संकीर्तितस्ताभ्यां
भगवान्
गोकुलेश्वरः
।
दाम्ना
चोलूखले
बद्धः
प्रहसन्नाह
गुह्यकौ
40
▾
Meaning
Keep
श्रीभगवानुवाच ।
ज्ञातं मम पुरैवैतदृषिणा करुणात्मना ।
यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः
41
▾
Meaning
Keep
साधूनां
समचित्तानां
सुतरां
मत्कृतात्मनाम्
।
दर्शनान्नो
भवेद्बन्धः
पुंसोऽक्ष्णोः
सवितुर्यथा
42
▾
Meaning
Keep
तद्
गच्छतं
मत्परमौ
नलकूबर
सादनम्
।
सञ्जातो
मयि
भावो
वामीप्सितः
परमोऽभवः
43
▾
Meaning
Keep
इत्युक्तौ
तौ
परिक्रम्य
प्रणम्य
च
पुनः
पुनः
।
बद्धोलूखलमामन्त्र्य
जग्मतुर्दिशमुत्तराम्
Previous
←
Yasoda Ties Him to the Mortar
Next
The Move to Vrndavana
→