Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Brahma Steals the Boys
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
साधु
पृष्टं
महाभाग
त्वया
भागवतोत्तम
।
यन्नूतनयसीशस्य
शृण्वन्नपि
कथां
मुहुः
2
▾
Meaning
Keep
सतामयं
सारभृतां
निसर्गो
यदर्थवाणीश्रुतिचेतसामपि
।
प्रतिक्षणं
नव्यवदच्युतस्य
यत्
स्त्रिया
विटानामिव
साधुवार्ता
3
▾
Meaning
Keep
शृणुष्वावहितो
राजन्नपि
गुह्यं
वदामि
ते
।
ब्रूयुः
स्निग्धस्य
शिष्यस्य
गुरवो
गुह्यमप्युत
4
▾
Meaning
Keep
तथाघवदनान्मृत्यो
रक्षित्वा
वत्सपालकान्
।
सरित्पुलिनमानीय
भगवानिदमब्रवीत्
5
▾
Meaning
Keep
अहोऽतिरम्यं
पुलिनं
वयस्याः
स्वकेलिसम्पन्मृदुलाच्छवालुकम्
।
स्फुटत्सरोगन्धहृतालिपत्रिकध्वनिप्रतिध्वानलसद्द्रुमाकुलम्
6
▾
Meaning
Keep
अत्र
भोक्तव्यमस्माभिर्दिवा
रूढं
क्षुधार्दिताः
।
वत्साः
समीपेऽपः
पीत्वा
चरन्तु
शनकैस्तृणम्
7
▾
Meaning
Keep
तथेति
पाययित्वार्भा
वत्सानारुध्य
शाद्वले
।
मुक्त्वा
शिक्यानि
बुभुजुः
समं
भगवता
मुदा
8
▾
Meaning
Keep
कृष्णस्य
विष्वक्पुरुराजिमण्डलै-
रभ्याननाः
फुल्लदृशो
व्रजार्भकाः
।
सहोपविष्टा
विपिने
विरेजु-
श्छदा
यथाम्भोरुहकर्णिकायाः
9
▾
Meaning
Keep
केचित्पुष्पैर्दलैः
केचित्पल्लवैरङ्कुरैः
फलैः
।
शिग्भिस्त्वग्भिर्दृषद्भिश्च
बुभुजुः
कृतभाजनाः
10
▾
Meaning
Keep
सर्वे
मिथो
दर्शयन्तः
स्वस्वभोज्यरुचिं
पृथक्
।
हसन्तो
हासयन्तश्चाभ्यवजह्रुः
सहेश्वराः
11
▾
Meaning
Keep
बिभ्रद्वेणुं
जठरपटयोः
शृङ्गवेत्रे
च
कक्षे
वामे
पाणौ
मसृणकवलं
तत्फलान्यङ्गुलीषु
।
तिष्ठन्मध्ये
स्वपरिसुहृदो
हासयन्
नर्मभिः
स्वैः
स्वर्गे
लोके
मिषति
बुभुजे
यज्ञभुग्बालकेलिः
12
▾
Meaning
Keep
भारतैवं
वत्सपेषु
भुञ्जानेष्वच्युतात्मसु
।
वत्सास्त्वन्तर्वने
दूरं
विविशुस्तृणलोभिताः
13
▾
Meaning
Keep
तान्
दृष्ट्वा
भयसन्त्रस्तानूचे
कृष्णोऽस्य
भीभयम्
।
मित्राण्याशान्मा
विरमतेहानेष्ये
वत्सकानहम्
14
▾
Meaning
Keep
इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान्
।
विचिन्वन्
भगवान्
कृष्णः
सपाणिकवलो
ययौ
15
▾
Meaning
Keep
अम्भोजन्मजनिस्तदन्तरगतो
मायार्भकस्येशितुर्द्रष्टुं
मञ्जु
महित्वमन्यदपि
तद्वत्सानितो
वत्सपान्
।
नीत्वान्यत्र
कुरूद्वहान्तरदधात्खेऽवस्थितो
यः
पुरा
दृष्ट्वाघासुरमोक्षणं
प्रभवतः
प्राप्तः
परं
विस्मयम्
16
▾
Meaning
Keep
ततो
वत्सानदृष्ट्वैत्य
पुलिनेऽपि
च
वत्सपान्
।
उभावपि
वने
कृष्णो
विचिकाय
समन्ततः
17
▾
Meaning
Keep
क्वाप्यदृष्ट्वान्तर्विपिने
वत्सान्
पालांश्च
विश्ववित्
।
सर्वं
विधिकृतं
कृष्णः
सहसावजगाम
ह
18
▾
Meaning
Keep
ततः
कृष्णो
मुदं
कर्तुं
तन्मातॄणां
च
कस्य
च
।
उभयायितमात्मानं
चक्रे
विश्वकृदीश्वरः
19
▾
Meaning
Keep
यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिकं
यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम्
।
यावच्छीलगुणाभिधाकृतिवयो
यावद्विहारादिकं
सर्वं
विष्णुमयं
गिरोऽङ्गवदजः
सर्वस्वरूपो
बभौ
20
▾
Meaning
Keep
स्वयमाऽऽत्मात्मगोवत्सान्
प्रतिवार्यात्मवत्सपैः
।
क्रीडन्नात्मविहारैश्च
सर्वात्मा
प्राविशद्
व्रजम्
21
▾
Meaning
Keep
तत्तद्वत्सान्
पृथङ्नीत्वा
तत्तद्गोष्ठे
निवेश्य
सः
।
तत्तदात्माभवद्राजंस्तत्तत्सद्म
प्रविष्टवान्
22
▾
Meaning
Keep
तन्मातरो
वेणुरवत्वरोत्थिता
उत्थाप्य
दोर्भिः
परिरभ्य
निर्भरम्
।
स्नेहस्नुतस्तन्यपयःसुधासवं
मत्वा
परं
ब्रह्म
सुतानपाययन्
23
▾
Meaning
Keep
ततो
नृपोन्मर्दनमज्जलेपना-
लङ्काररक्षातिलकाशनादिभिः
।
संलालितः
स्वाचरितैः
प्रहर्षयन्
सायं
गतो
यामयमेन
माधवः
24
▾
Meaning
Keep
गावस्ततो
गोष्ठमुपेत्य
सत्वरं
हुङ्कारघोषैः
परिहूतसङ्गतान्
।
स्वकान्स्वकान्वत्सतरानपायय-
न्मुहुर्लिहन्त्यः
स्रवदौधसं
पयः
25
▾
Meaning
Keep
गोगोपीनां
मातृतास्मिन्
सर्वा
स्नेहर्धिकां
विना
।
पुरोवदास्वपि
हरेस्तोकता
मायया
विना
26
▾
Meaning
Keep
व्रजौकसां
स्वतोकेषु
स्नेहवल्ल्याब्दमन्वहम्
।
शनैर्निःसीम
ववृधे
यथा
कृष्णे
त्वपूर्ववत्
27
▾
Meaning
Keep
इत्थमात्माऽऽत्मनाऽऽत्मानं
वत्सपालमिषेण
सः
।
पालयन्
वत्सपो
वर्षं
चिक्रीडे
वनगोष्ठयोः
28
▾
Meaning
Keep
एकदा
चारयन्
वत्सान्
सरामो
वनमाविशत्
।
पञ्चषासु
त्रियामासु
हायनापूरणीष्वजः
29
▾
Meaning
Keep
ततो
विदूराच्चरतो
गावो
वत्सानुपव्रजम्
।
गोवर्धनाद्रिशिरसि
चरन्त्यो
ददृशुस्तृणम्
30
▾
Meaning
Keep
दृष्ट्वाथ
तत्स्नेहवशोऽस्मृतात्मा
स
गोव्रजोऽत्यात्मपदुर्गमार्गः
।
द्विपात्ककुद्ग्रीव
उदास्यपुच्छो-
ऽगाद्धुङ्कृतैरास्रुपया
जवेन
31
▾
Meaning
Keep
समेत्य
गावोऽधो
वत्सान्
वत्सवत्योऽप्यपाययन्
।
गिलन्त्य
इव
चाङ्गानि
लिहन्त्यः
स्वौधसं
पयः
32
▾
Meaning
Keep
गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना
।
दुर्गाध्वकृच्छ्रतोऽभ्येत्य
गोवत्सैर्ददृशुः
सुतान्
33
▾
Meaning
Keep
तदीक्षणोत्प्रेमरसाप्लुताशया
जातानुरागा
गतमन्यवोऽर्भकान्
।
उदुह्य
दोर्भिः
परिरभ्य
मूर्धनि
घ्राणैरवापुः
परमां
मुदं
ते
34
▾
Meaning
Keep
ततः
प्रवयसो
गोपास्तोकाश्लेषसुनिर्वृताः
।
कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः
35
▾
Meaning
Keep
व्रजस्य
रामः
प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यमनुक्षणम्
।
मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत्
36
▾
Meaning
Keep
किमेतदद्भुतमिव
वासुदेवेऽखिलात्मनि
।
व्रजस्य
सात्मनस्तोकेष्वपूर्वं
प्रेम
वर्धते
37
▾
Meaning
Keep
केयं
वा
कुत
आयाता
दैवी
वा
नार्युतासुरी
।
प्रायो
मायास्तु
मे
भर्तुर्नान्या
मेऽपि
विमोहिनी
38
▾
Meaning
Keep
इति
सञ्चिन्त्य
दाशार्हो
वत्सान्
सवयसानपि
।
सर्वानाचष्ट
वैकुण्ठं
चक्षुषा
वयुनेन
सः
39
▾
Meaning
Keep
नैते
सुरेशा
ऋषयो
न
चैते
त्वमेव
भासीश
भिदाश्रयेऽपि
।
सर्वं
पृथक्त्वं
निगमात्कथं
वदे-
त्युक्तेन
वृत्तं
प्रभुणा
बलोऽवैत्
40
▾
Meaning
Keep
तावदेत्यात्मभूरात्ममानेन
त्रुट्यनेहसा
।
पुरोवदाब्दं
क्रीडन्तं
ददृशे
सकलं
हरिम्
41
▾
Meaning
Keep
यावन्तो
गोकुले
बालाः
सवत्साः
सर्व
एव
हि
।
मायाशये
शयाना
मे
नाद्यापि
पुनरुत्थिताः
42
▾
Meaning
Keep
इत
एतेऽत्र
कुत्रत्या
मन्मायामोहितेतरे
।
तावन्त
एव
तत्राब्दं
क्रीडन्तो
विष्णुना
समम्
43
▾
Meaning
Keep
एवमेतेषु
भेदेषु
चिरं
ध्यात्वा
स
आत्मभूः
।
सत्याः
के
कतरे
नेति
ज्ञातुं
नेष्टे
कथञ्चन
44
▾
Meaning
Keep
एवं
सम्मोहयन्
विष्णुं
विमोहं
विश्वमोहनम्
।
स्वयैव
माययाजोऽपि
स्वयमेव
विमोहितः
45
▾
Meaning
Keep
तम्यां
तमोवन्नैहारं
खद्योतार्चिरिवाहनि
।
महतीतरमायैश्यं
निहन्त्यात्मनि
युञ्जतः
46
▾
Meaning
Keep
तावत्सर्वे
वत्सपालाः
पश्यतोऽजस्य
तत्क्षणात्
।
व्यदृश्यन्त
घनश्यामाः
पीतकौशेयवाससः
47
▾
Meaning
Keep
चतुर्भुजाः
शङ्खचक्रगदाराजीवपाणयः
।
किरीटिनः
कुण्डलिनो
हारिणो
वनमालिनः
48
▾
Meaning
Keep
श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणयः
।
नूपुरैः
कटकैर्भाताः
कटिसूत्राङ्गुलीयकैः
49
▾
Meaning
Keep
आङ्घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः
।
कोमलैः
सर्वगात्रेषु
भूरि
पुण्यवदर्पितैः
50
▾
Meaning
Keep
चन्द्रिकाविशदस्मेरैः
सारुणापाङ्गवीक्षितैः
।
स्वकार्थानामिव
रजःसत्त्वाभ्यां
स्रष्टृपालकाः
51
▾
Meaning
Keep
आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भिश्चराचरैः
।
नृत्यगीताद्यनेकार्हैः
पृथक्पृथगुपासिताः
52
▾
Meaning
Keep
अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः
।
चतुर्विंशतिभिस्तत्त्वैः
परीता
महदादिभिः
53
▾
Meaning
Keep
कालस्वभावसंस्कारकामकर्मगुणादिभिः
।
स्वमहिध्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः
54
▾
Meaning
Keep
सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः
।
अस्पृष्टभूरिमाहात्म्या
अपि
ह्युपनिषद्दृशाम्
55
▾
Meaning
Keep
एवं
सकृद्ददर्शाजः
परब्रह्मात्मनोऽखिलान्
।
यस्य
भासा
सर्वमिदं
विभाति
सचराचरम्
56
▾
Meaning
Keep
ततोऽतिकुतुकोद्वृत्तस्तिमितैकादशेन्द्रियः
।
तद्धाम्नाभूदजस्तूष्णीं
पूर्देव्यन्तीव
पुत्रिका
57
▾
Meaning
Keep
इतीरेशेऽतर्क्ये
निजमहिमनि
स्वप्रमितिके
परत्राजातोऽतन्निरसनमुखब्रह्मकमितौ
।
अनीशेऽपि
द्रष्टुं
किमिदमिति
वा
मुह्यति
सति
चच्छादाजो
ज्ञात्वा
सपदि
परमोऽजाजवनिकाम्
58
▾
Meaning
Keep
ततोऽर्वाक्प्रतिलब्धाक्षः
कः
परेतवदुत्थितः
।
कृच्छ्रादुन्मील्य
वै
दृष्टीराचष्टेदं
सहात्मना
59
▾
Meaning
Keep
सपद्येवाभितः
पश्यन्
दिशोऽपश्यत्पुरः
स्थितम्
।
वृन्दावनं
जनाजीव्यद्रुमाकीर्णं
समाप्रियम्
60
▾
Meaning
Keep
यत्र
नैसर्गदुर्वैराः
सहासन्
नृमृगादयः
।
मित्राणीवाजितावासद्रुतरुट्तर्षकादिकम्
61
▾
Meaning
Keep
तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं
ब्रह्माद्वयं
परमनन्तमगाधबोधम्
।
वत्सान्
सखीनिव
पुरा
परितो
विचिन्व-
देकं
सपाणिकवलं
परमेष्ठ्यचष्ट
Hymn
62
▾
Meaning
Keep
दृष्ट्वा
त्वरेण
निजधोरणतोऽवतीर्य
पृथ्व्यां
वपुः
कनकदण्डमिवाभिपात्य
।
स्पृष्ट्वा
चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं
नत्वा
मुदश्रुसुजलैरकृताभिषेकम्
63
▾
Meaning
Keep
उत्थायोत्थाय
कृष्णस्य
चिरस्य
पादयोः
पतन्
।
आस्ते
महित्वं
प्राग्दृष्टं
स्मृत्वा
स्मृत्वा
पुनः
पुनः
64
▾
Meaning
Keep
शनैरथोत्थाय
विमृज्य
लोचने
मुकुन्दमुद्वीक्ष्य
विनम्रकन्धरः
।
कृताञ्जलिः
प्रश्रयवान्
समाहितः
सवेपथुर्गद्गदयैलतेलया
Previous
←
Aghasura
Next
Brahma's Praise
→