Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Song of the Flute
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इत्थं
शरत्स्वच्छजलं
पद्माकरसुगन्धिना
।
न्यविशद्वायुना
वातं
सगोगोपालकोऽच्युतः
2
▾
Meaning
Keep
कुसुमितवनराजिशुष्मिभृङ्ग-
द्विजकुलघुष्टसरःसरिन्महीध्रम्
।
मधुपतिरवगाह्य
चारयन्
गाः
सह
पशुपालबलश्चुकूज
वेणुम्
3
▾
Meaning
Keep
तद्
व्रजस्त्रिय
आश्रुत्य
वेणुगीतं
स्मरोदयम्
।
काश्चित्
परोक्षं
कृष्णस्य
स्वसखीभ्योऽन्ववर्णयन्
4
▾
Meaning
Keep
तद्वर्णयितुमारब्धाः
स्मरन्त्यः
कृष्णचेष्टितम्
।
नाशकन्
स्मरवेगेन
विक्षिप्तमनसो
नृप
5
▾
Meaning
Keep
बर्हापीडं
नटवरवपुः
कर्णयोः
कर्णिकारं
बिभ्रद्वासः
कनककपिशं
वैजयन्तीं
च
मालाम्
।
रन्ध्रान्
वेणोरधरसुधया
पूरयन्
गोपवृन्दै-
र्वृन्दारण्यं
स्वपदरमणं
प्राविशद्गीतकीर्तिः
6
▾
Meaning
Keep
इति
वेणुरवं
राजन्
सर्वभूतमनोहरम्
।
श्रुत्वा
व्रजस्त्रियः
सर्वा
वर्णयन्त्योऽभिरेभिरे
7
▾
Meaning
Keep
अक्षण्वतां
फलमिदं
न
परं
विदामः
सख्यः
पशूननु
विवेशयतोर्वयस्यैः
।
वक्त्रं
व्रजेशसुतयोरनुवेणुजुष्टं
यैर्वा
निपीतमनुरक्तकटाक्षमोक्षम्
8
▾
Meaning
Keep
चूतप्रवालबर्हस्तबकोत्पलाब्ज-
मालानुपृक्तपरिधानविचित्रवेषौ
।
मध्ये
विरेजतुरलं
पशुपालगोष्ठ्यां
रङ्गे
यथा
नटवरौ
क्व
च
गायमानौ
9
▾
Meaning
Keep
गोप्यः
किमाचरदयं
कुशलं
स्म
वेणुर्दामोदराधरसुधामपि
गोपिकानाम्
।
भुङ्क्ते
स्वयं
यदवशिष्टरसं
ह्रदिन्यो
हृष्यत्त्वचोऽश्रु
मुमुचुस्तरवो
यथाऽऽर्याः
10
▾
Meaning
Keep
वृन्दावनं
सखि
भुवो
वितनोति
कीर्तिं
यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि
।
गोविन्दवेणुमनु
मत्तमयूरनृत्यं
प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम्
11
▾
Meaning
Keep
धन्याः
स्म
मूढमतयोऽपि
हरिण्य
एता
या
नन्दनन्दनमुपात्तविचित्रवेषम्
।
आकर्ण्य
वेणुरणितं
सहकृष्णसाराः
पूजां
दधुर्विरचितां
प्रणयावलोकैः
Hymn
12
▾
Meaning
Keep
कृष्णं
निरीक्ष्य
वनितोत्सवरूपशीलं
श्रुत्वा
च
तत्क्वणितवेणुविचित्रगीतम्
।
देव्यो
विमानगतयः
स्मरनुन्नसारा
भ्रश्यत्प्रसूनकबरा
मुमुहुर्विनीव्यः
13
▾
Meaning
Keep
गावश्च
कृष्णमुखनिर्गतवेणुगीत-
पीयूषमुत्तभितकर्णपुटैः
पिबन्त्यः
।
शावाः
स्नुतस्तनपयःकवलाः
स्म
तस्थु-
र्गोविन्दमात्मनि
दृशाश्रुकलाः
स्पृशन्त्यः
14
▾
Meaning
Keep
प्रायो
बताम्ब
विहगा
मुनयो
वनेऽस्मिन्
कृष्णेक्षितं
तदुदितं
कलवेणुगीतम्
।
आरुह्य
ये
द्रुमभुजान्
रुचिरप्रवालान्
शृण्वन्त्यमीलितदृशो
विगतान्यवाचः
15
▾
Meaning
Keep
नद्यस्तदा
तदुपधार्य
मुकुन्दगीत-
मावर्तलक्षितमनोभवभग्नवेगाः
।
आलिङ्गनस्थगितमूर्मिभुजैर्मुरारे-
र्गृह्णन्ति
पादयुगलं
कमलोपहाराः
16
▾
Meaning
Keep
दृष्ट्वाऽऽतपे
व्रजपशून्
सह
रामगोपैः
सञ्चारयन्तमनु
वेणुमुदीरयन्तम्
।
प्रेमप्रवृद्ध
उदितः
कुसुमावलीभिः
सख्युर्व्यधात्स्ववपुषाम्बुद
आतपत्रम्
17
▾
Meaning
Keep
पूर्णाः
पुलिन्द्य
उरुगायपदाब्जराग-
श्रीकुङ्कुमेन
दयितास्तनमण्डितेन
।
तद्दर्शनस्मररुजस्तृणरूषितेन
लिम्पन्त्य
आननकुचेषु
जहुस्तदाधिम्
18
▾
Meaning
Keep
हन्तायमद्रिरबला
हरिदासवर्यो
यद्
रामकृष्णचरणस्परशप्रमोदः
।
मानं
तनोति
सहगोगणयोस्तयोर्यत्
पानीयसूयवसकन्दरकन्दमूलैः
19
▾
Meaning
Keep
गा
गोपकैरनुवनं
नयतोरुदार-
वेणुस्वनैः
कलपदैस्तनुभृत्सु
सख्यः
।
अस्पन्दनं
गतिमतां
पुलकस्तरूणां
निर्योगपाशकृतलक्षणयोर्विचित्रम्
20
▾
Meaning
Keep
एवं
विधा
भगवतो
या
वृन्दावनचारिणः
।
वर्णयन्त्यो
मिथो
गोप्यः
क्रीडास्तन्मयतां
ययुः
Previous
←
The Rains and the Autumn
Next
The Girls' Vow, and the Clothes on the Bank
→