Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Sacrifice to the Hill
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भगवानपि
तत्रैव
बलदेवेन
संयुतः
।
अपश्यन्निवसन्
गोपानिन्द्रयागकृतोद्यमान्
2
▾
Meaning
Keep
तदभिज्ञोऽपि
भगवान्
सर्वात्मा
सर्वदर्शनः
।
प्रश्रयावनतोऽपृच्छद्वृद्धान्
नन्दपुरोगमान्
3
▾
Meaning
Keep
कथ्यतां
मे
पितः
कोऽयं
सम्भ्रमो
व
उपागतः
।
किं
फलं
कस्य
चोद्देशः
केन
वा
साध्यते
मखः
4
▾
Meaning
Keep
एतद्ब्रूहि
महान्
कामो
मह्यं
शुश्रूषवे
पितः
।
न
हि
गोप्यं
हि
साधूनां
कृत्यं
सर्वात्मनामिह
5
▾
Meaning
Keep
अस्त्यस्वपरदृष्टीनाममित्रोदास्तविद्विषाम्
।
उदासीनोऽरिवद्वर्ज्य
आत्मवत्सुहृदुच्यते
6
▾
Meaning
Keep
ज्ञात्वाज्ञात्वा
च
कर्माणि
जनोऽयमनुतिष्ठति
।
विदुषः
कर्मसिद्धिः
स्यात्तथा
नाविदुषो
भवेत्
7
▾
Meaning
Keep
तत्र
तावत्क्रियायोगो
भवतां
किं
विचारितः
।
अथ
वा
लौकिकस्तन्मे
पृच्छतः
साधु
भण्यताम्
8
▾
Meaning
Keep
पर्जन्यो
भगवानिन्द्रो
मेघास्तस्यात्ममूर्तयः
।
तेऽभिवर्षन्ति
भूतानां
प्रीणनं
जीवनं
पयः
9
▾
Meaning
Keep
तं
तात
वयमन्ये
च
वार्मुचां
पतिमीश्वरम्
।
द्रव्यैस्तद्रेतसा
सिद्धैर्यजन्ते
क्रतुभिर्नराः
10
▾
Meaning
Keep
तच्छेषेणोपजीवन्ति
त्रिवर्गफलहेतवे
।
पुंसां
पुरुषकाराणां
पर्जन्यः
फलभावनः
11
▾
Meaning
Keep
य
एवं
विसृजेद्धर्मं
पारम्पर्यागतं
नरः
।
कामाल्लोभाद्भयाद्द्वेषात्स
वै
नाप्नोति
शोभनम्
12
▾
Meaning
Keep
वचो
निशम्य
नन्दस्य
तथान्येषां
व्रजौकसाम्
।
इन्द्राय
मन्युं
जनयन्
पितरं
प्राह
केशवः
13
▾
Meaning
Keep
श्रीभगवानुवाच ।
कर्मणा जायते जन्तुः कर्मणैव विलीयते ।
सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते
14
▾
Meaning
Keep
अस्ति
चेदीश्वरः
कश्चित्फलरूप्यन्यकर्मणाम्
।
कर्तारं
भजते
सोऽपि
न
ह्यकर्तुः
प्रभुर्हि
सः
15
▾
Meaning
Keep
किमिन्द्रेणेह
भूतानां
स्वस्वकर्मानुवर्तिनाम्
।
अनीशेनान्यथा
कर्तुं
स्वभावविहितं
नृणाम्
16
▾
Meaning
Keep
स्वभावतन्त्रो
हि
जनः
स्वभावमनुवर्तते
।
स्वभावस्थमिदं
सर्वं
सदेवासुरमानुषम्
17
▾
Meaning
Keep
देहानुच्चावचाञ्जन्तुः
प्राप्योत्सृजति
कर्मणा
।
शत्रुर्मित्रमुदासीनः
कर्मैव
गुरुरीश्वरः
18
▾
Meaning
Keep
तस्मात्सम्पूजयेत्कर्म
स्वभावस्थः
स्वकर्मकृत्
।
अञ्जसा
येन
वर्तेत
तदेवास्य
हि
दैवतम्
19
▾
Meaning
Keep
आजीव्यैकतरं
भावं
यस्त्वन्यमुपजीवति
।
न
तस्माद्
विन्दते
क्षेमं
जारान्
नार्यसती
यथा
20
▾
Meaning
Keep
वर्तेत
ब्रह्मणा
विप्रो
राजन्यो
रक्षया
भुवः
।
वैश्यस्तु
वार्तया
जीवेच्छूद्रस्तु
द्विजसेवया
21
▾
Meaning
Keep
कृषिवाणिज्यगोरक्षा
कुसीदं
तूर्यमुच्यते
।
वार्ता
चतुर्विधा
तत्र
वयं
गोवृत्तयोऽनिशम्
22
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
स्थित्युत्पत्त्यन्तहेतवः
।
रजसोत्पद्यते
विश्वमन्योन्यं
विविधं
जगत्
23
▾
Meaning
Keep
रजसा
चोदिता
मेघा
वर्षन्त्यम्बूनि
सर्वतः
।
प्रजास्तैरेव
सिद्धयन्ति
महेन्द्रः
किं
करिष्यति
24
▾
Meaning
Keep
न
नः
पुरो
जनपदा
न
ग्रामा
न
गृहा
वयम्
।
वनौकसस्तात
नित्यं
वनशैलनिवासिनः
25
▾
Meaning
Keep
तस्माद्गवां
ब्राह्मणानामद्रेश्चारभ्यतां
मखः
।
य
इन्द्रयागसम्भारास्तैरयं
साध्यतां
मखः
26
▾
Meaning
Keep
पच्यन्तां
विविधाः
पाकाः
सूपान्ताः
पायसादयः
।
संयावापूपशष्कुल्यः
सर्वदोहश्च
गृह्यताम्
27
▾
Meaning
Keep
हूयन्तामग्नयः
सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः
।
अन्नं
बहुगुणं
तेभ्यो
देयं
वो
धेनुदक्षिणाः
28
▾
Meaning
Keep
अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो
यथार्हतः
।
यवसं
च
गवां
दत्त्वा
गिरये
दीयतां
बलिः
29
▾
Meaning
Keep
स्वलङ्कृता
भुक्तवन्तः
स्वनुलिप्ताः
सुवाससः
।
प्रदक्षिणां
च
कुरुत
गोविप्रानलपर्वतान्
30
▾
Meaning
Keep
एतन्मम
मतं
तात
क्रियतां
यदि
रोचते
।
अयं
गोब्राह्मणाद्रीणां
मह्यं
च
दयितो
मखः
31
▾
Meaning
Keep
कालात्मना
भगवता
शक्रदर्प
जिघांसता
।
प्रोक्तं
निशम्य
नन्दाद्याः
साध्वगृह्णन्त
तद्वचः
32
▾
Meaning
Keep
तथा
च
व्यदधुः
सर्वं
यथाऽऽह
मधुसूदनः
।
वाचयित्वा
स्वस्त्ययनं
तद्द्रव्येण
गिरिद्विजान्
33
▾
Meaning
Keep
उपहृत्य
बलीन्
सर्वानादृता
यवसं
गवाम्
।
गोधनानि
पुरस्कृत्य
गिरिं
चक्रुः
प्रदक्षिणम्
34
▾
Meaning
Keep
अनांस्यनडुद्युक्तानि
ते
चारुह्य
स्वलङ्कृताः
।
गोप्यश्च
कृष्णवीर्याणि
गायन्त्यः
सद्विजाशिषः
35
▾
Meaning
Keep
कृष्णस्त्वन्यतमं
रूपं
गोपविश्रम्भणं
गतः
।
शैलोऽस्मीति
ब्रुवन्
भूरि
बलिमादद्बृहद्वपुः
36
▾
Meaning
Keep
तस्मै
नमो
व्रजजनैः
सह
चक्रेऽऽत्मनाऽऽत्मने
।
अहो
पश्यत
शैलोऽसौ
रूपी
नोऽनुग्रहं
व्यधात्
37
▾
Meaning
Keep
एषोऽवजानतो
मर्त्यान्
कामरूपी
वनौकसः
।
हन्ति
ह्यस्मै
नमस्यामः
शर्मणे
आत्मनो
गवाम्
38
▾
Meaning
Keep
इत्यद्रिगोद्विजमखं
वासुदेवप्रणोदिताः
।
यथा
विधाय
ते
गोपा
सहकृष्णा
व्रजं
ययुः
Previous
←
The Wives of the Brahmanas
Next
The Lifting of Govardhana
→