Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Lifting of Govardhana
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इन्द्रस्तदाऽऽत्मनः
पूजां
विज्ञाय
विहतां
नृप
।
गोपेभ्यः
कृष्णनाथेभ्यो
नन्दादिभ्यश्चुकोप
सः
2
▾
Meaning
Keep
गणं
सांवर्तकं
नाम
मेघानां
चान्तकारिणाम्
।
इन्द्रः
प्रचोदयत्
क्रुद्धो
वाक्यं
चाहेशमान्युत
3
▾
Meaning
Keep
अहो
श्रीमदमाहात्म्यं
गोपानां
काननौकसाम्
।
कृष्णं
मर्त्यमुपाश्रित्य
ये
चक्रुर्देवहेलनम्
4
▾
Meaning
Keep
यथादृढैः
कर्ममयैः
क्रतुभिर्नामनौनिभैः
।
विद्यामान्वीक्षिकीं
हित्वा
तितीर्षन्ति
भवार्णवम्
5
▾
Meaning
Keep
वाचालं
बालिशं
स्तब्धमज्ञं
पण्डितमानिनम्
।
कृष्णं
मर्त्यमुपाश्रित्य
गोपा
मे
चक्रुरप्रियम्
6
▾
Meaning
Keep
एषां
श्रियावलिप्तानां
कृष्णेनाध्मायितात्मनाम्
।
धुनुत
श्रीमदस्तम्भं
पशून्
नयत
संक्षयम्
7
▾
Meaning
Keep
अहं
चैरावतं
नागमारुह्यानुव्रजे
व्रजम्
।
मरुद्गणैर्महावेगैर्नन्दगोष्ठजिघांसया
8
▾
Meaning
Keep
इत्थं
मघवताऽऽज्ञप्ता
मेघा
निर्मुक्तबन्धनाः
।
नन्दगोकुलमासारैः
पीडयामासुरोजसा
9
▾
Meaning
Keep
विद्योतमाना
विद्युद्भिः
स्तनन्तः
स्तनयित्नुभिः
।
तीव्रैर्मरुद्गणैर्नुन्ना
ववृषुर्जलशर्कराः
10
▾
Meaning
Keep
स्थूणास्थूला
वर्षधारा
मुञ्चत्स्वभ्रेष्वभीक्ष्णशः
।
जलौघैः
प्लाव्यमाना
भूर्नादृश्यत
नतोन्नतम्
11
▾
Meaning
Keep
अत्यासारातिवातेन
पशवो
जातवेपनाः
।
गोपा
गोप्यश्च
शीतार्ता
गोविन्दं
शरणं
ययुः
12
▾
Meaning
Keep
शिरः
सुतांश्च
कायेन
प्रच्छाद्यासारपीडिताः
।
वेपमाना
भगवतः
पादमूलमुपाययुः
13
▾
Meaning
Keep
कृष्ण
कृष्ण
महाभाग
त्वन्नाथं
गोकुलं
प्रभो
।
त्रातुमर्हसि
देवान्नः
कुपिताद्भक्तवत्सल
14
▾
Meaning
Keep
शिलावर्षनिपातेन
हन्यमानमचेतनम्
।
निरीक्ष्य
भगवान्मेने
कुपितेन्द्रकृतं
हरिः
15
▾
Meaning
Keep
अपर्त्वत्युल्बणं
वर्षमतिवातं
शिलामयम्
।
स्वयागे
विहतेऽस्माभिरिन्द्रो
नाशाय
वर्षति
16
▾
Meaning
Keep
तत्र
प्रतिविधिं
सम्यगात्मयोगेन
साधये
।
लोकेशमानिनां
मौढ्याद्धनिष्ये
श्रीमदं
तमः
17
▾
Meaning
Keep
न
हि
सद्भावयुक्तानां
सुराणामीशविस्मयः
।
मत्तोऽसतां
मानभङ्गः
प्रशमायोपकल्पते
18
▾
Meaning
Keep
तस्मान्मच्छरणं
गोष्ठं
मन्नाथं
मत्परिग्रहम्
।
गोपाये
स्वात्मयोगेन
सोऽयं
मे
व्रत
आहितः
19
▾
Meaning
Keep
इत्युक्त्वैकेन
हस्तेन
कृत्वा
गोवर्धनाचलम्
।
दधार
लीलया
कृष्णश्छत्राकमिव
बालकः
20
▾
Meaning
Keep
अथाह
भगवान्
गोपान्
हेऽम्ब
तात
व्रजौकसः
।
यथोपजोषं
विशत
गिरिगर्तं
सगोधनाः
21
▾
Meaning
Keep
न
त्रास
इह
वः
कार्यो
मद्धस्ताद्रिनिपातनात्
।
वातवर्षभयेनालं
तत्त्राणं
विहितं
हि
वः
22
▾
Meaning
Keep
तथा
निर्विविशुर्गर्तं
कृष्णाश्वासितमानसः
।
यथावकाशं
सधनाः
सव्रजाः
सोपजीविनः
23
▾
Meaning
Keep
क्षुत्तृड्व्यथां
सुखापेक्षां
हित्वा
तैर्व्रजवासिभिः
।
वीक्ष्यमाणो
दधाराद्रिं
सप्ताहं
नाचलत्
पदात्
24
▾
Meaning
Keep
कृष्णयोगानुभावं
तं
निशाम्येन्द्रोऽतिविस्मितः
।
निःस्तम्भो
भ्रष्टसङ्कल्पः
स्वान्
मेघान्
संन्यवारयत्
25
▾
Meaning
Keep
खं
व्यभ्रमुदितादित्यं
वातवर्षं
च
दारुणम्
।
निशम्योपरतं
गोपान्
गोवर्धनधरोऽब्रवीत्
26
▾
Meaning
Keep
निर्यात
त्यजत
त्रासं
गोपाः
सस्त्रीधनार्भकाः
।
उपारतं
वातवर्षं
व्युदप्रायाश्च
निम्नगाः
27
▾
Meaning
Keep
ततस्ते
निर्ययुर्गोपाः
स्वं
स्वमादाय
गोधनम्
।
शकटोढोपकरणं
स्त्रीबालस्थविराः
शनैः
28
▾
Meaning
Keep
भगवानपि
तं
शैलं
स्वस्थाने
पूर्ववत्प्रभुः
।
पश्यतां
सर्वभूतानां
स्थापयामास
लीलया
29
▾
Meaning
Keep
तं
प्रेमवेगान्निभृता
व्रजौकसो
यथा
समीयुः
परिरम्भणादिभिः
।
गोप्यश्च
सस्नेहमपूजयन्मुदा
दध्यक्षताद्भिर्युयुजुः
सदाशिषः
30
▾
Meaning
Keep
यशोदा
रोहिणी
नन्दो
रामश्च
बलिनां
वरः
।
कृष्णमालिङ्ग्य
युयुजुराशिषः
स्नेहकातराः
31
▾
Meaning
Keep
दिवि
देवगणाः
साध्यागन्धर्वचारणाः
।
तुष्टुवुर्मुमुचुस्तुष्टाः
पुष्पवर्षाणि
पार्थिव
32
▾
Meaning
Keep
शङ्खदुन्दुभयो
नेदुर्दिवि
देवप्रचोदिताः
।
जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा
नृप
33
▾
Meaning
Keep
ततोऽनुरक्तैः
पशुपैः
परिश्रितो
राजन्
स
गोष्ठं
सबलोऽव्रजद्धरिः
।
तथाविधान्यस्य
कृतानि
गोपिका
गायन्त्य
ईयुर्मुदिता
हृदिस्पृशः
Previous
←
The Sacrifice to the Hill
Next
Nanda Repeats What Garga Said
→