Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Nanda Repeats What Garga Said
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
विधानि
कर्माणि
गोपाः
कृष्णस्य
वीक्ष्य
ते
।
अतद्वीर्यविदः
प्रोचुः
समभ्येत्य
सुविस्मिताः
2
▾
Meaning
Keep
बालकस्य
यदेतानि
कर्माण्यत्यद्भुतानि
वै
।
कथमर्हत्यसौ
जन्म
ग्राम्येष्वात्मजुगुप्सितम्
3
▾
Meaning
Keep
यः
सप्तहायनो
बालः
करेणैकेन
लीलया
।
कथं
बिभ्रद्गिरिवरं
पुष्करं
गजराडिव
4
▾
Meaning
Keep
तोकेनामीलिताक्षेण
पूतनाया
महौजसः
।
पीतः
स्तनः
सह
प्राणैः
कालेनेव
वयस्तनोः
5
▾
Meaning
Keep
हिन्वतोऽधःशयानस्य
मास्यस्य
चरणावुदक्
।
अनोऽपतद्विपर्यस्तं
रुदतः
प्रपदाहतम्
6
▾
Meaning
Keep
एकहायन
आसीनो
ह्रियमाणो
विहायसा
।
दैत्येन
यस्तृणावर्तमहन्
कण्ठग्रहातुरम्
7
▾
Meaning
Keep
क्वचिद्धैयङ्गवस्तैन्ये
मात्रा
बद्ध
उलूखले
।
गच्छन्नर्जुनयोर्मध्ये
बाहुभ्यां
तावपातयत्
8
▾
Meaning
Keep
वने
सञ्चारयन्
वत्सान्
सरामो
बालकैर्वृतः
।
हन्तुकामं
बकं
दोर्भ्यां
मुखतोऽरिमपाटयत्
9
▾
Meaning
Keep
वत्सेषु
वत्सरूपेण
प्रविशन्तं
जिघांसया
।
हत्वा
न्यपातयत्तेन
कपित्थानि
च
लीलया
10
▾
Meaning
Keep
हत्वा
रासभदैतेयं
तद्बन्धूंश्च
बलान्वितः
।
चक्रे
तालवनं
क्षेमं
परिपक्वफलान्वितम्
11
▾
Meaning
Keep
प्रलम्बं
घातयित्वोग्रं
बलेन
बलशालिना
।
अमोचयद्व्रजपशून्
गोपांश्चारण्यवह्नितः
12
▾
Meaning
Keep
आशीविषतमाहीन्द्रं
दमित्वा
विमदं
ह्रदात्
।
प्रसह्योद्वास्य
यमुनां
चक्रेऽसौ
निर्विषोदकाम्
13
▾
Meaning
Keep
दुस्त्यजश्चानुरागोऽस्मिन्
सर्वेषां
नो
व्रजौकसाम्
।
नन्द
ते
तनयेऽस्मासु
तस्याप्यौत्पत्तिकः
कथम्
14
▾
Meaning
Keep
क्व
सप्तहायनो
बालः
क्व
महाद्रिविधारणम्
।
ततो
नो
जायते
शङ्का
व्रजनाथ
तवात्मजे
15
▾
Meaning
Keep
श्रूयतां
मे
वचो
गोपा
व्येतु
शङ्का
च
वोऽर्भके
।
एनं
कुमारमुद्दिश्य
गर्गो
मे
यदुवाच
ह
16
▾
Meaning
Keep
वर्णास्त्रयः
किलास्यासन्
गृह्णतोऽनुयुगं
तनूः
।
शुक्लो
रक्तस्तथा
पीत
इदानीं
कृष्णतां
गतः
17
▾
Meaning
Keep
प्रागयं
वसुदेवस्य
क्वचिज्जातस्तवात्मजः
।
वासुदेव
इति
श्रीमानभिज्ञाः
सम्प्रचक्षते
18
▾
Meaning
Keep
बहूनि
सन्ति
नामानि
रूपाणि
च
सुतस्य
ते
।
गुणकर्मानुरूपाणि
तान्यहं
वेद
नो
जनाः
19
▾
Meaning
Keep
एष
वः
श्रेय
आधास्यद्गोपगोकुलनन्दनः
।
अनेन
सर्वदुर्गाणि
यूयमञ्जस्तरिष्यथ
20
▾
Meaning
Keep
पुरानेन
व्रजपते
साधवो
दस्युपीडिताः
।
अराजके
रक्ष्यमाणा
जिग्युर्दस्यून्
समेधिताः
21
▾
Meaning
Keep
य
एतस्मिन्
महाभागाः
प्रीतिं
कुर्वन्ति
मानवाः
।
नारयोऽभिभवन्त्येतान्
विष्णुपक्षानिवासुराः
22
▾
Meaning
Keep
तस्मान्नन्द
कुमारोऽयं
नारायणसमो
गुणैः
।
श्रिया
कीर्त्यानुभावेन
तत्कर्मसु
न
विस्मयः
23
▾
Meaning
Keep
इत्यद्धा
मां
समादिश्य
गर्गे
च
स्वगृहं
गते
।
मन्ये
नारायणस्यांशं
कृष्णमक्लिष्टकारिणम्
24
▾
Meaning
Keep
इति
नन्दवचः
श्रुत्वा
गर्गगीतं
व्रजौकसः
।
दृष्टश्रुतानुभावास्ते
कृष्णस्यामिततेजसः
।
मुदिता
नन्दमानर्चुः
कृष्णं
च
गतविस्मयाः
25
▾
Meaning
Keep
देवे
वर्षति
यज्ञविप्लवरुषा
वज्राश्मवर्षानिलैः
सीदत्पालपशुस्त्रि
आत्मशरणं
दृष्ट्वानुकम्प्युत्स्मयन्
।
उत्पाट्यैककरेण
शैलमबलो
लीलोच्छिलीन्ध्रं
यथा
बिभ्रद्
गोष्ठमपान्महेन्द्रमदभित्
प्रीयान्न
इन्द्रो
गवाम्
Previous
←
The Lifting of Govardhana
Next
Indra Asks Pardon
→