Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Indra Asks Pardon
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
गोवर्धने
धृते
शैले
आसाराद्रक्षिते
व्रजे
।
गोलोकादाव्रजत्कृष्णं
सुरभिः
शक्र
एव
च
2
▾
Meaning
Keep
विविक्त
उपसङ्गम्य
व्रीडीतः
कृतहेलनः
।
पस्पर्श
पादयोरेनं
किरीटेनार्कवर्चसा
3
▾
Meaning
Keep
दृष्टश्रुतानुभावोऽस्य
कृष्णस्यामिततेजसः
।
नष्टत्रिलोकेशमद
इन्द्र
आह
कृताञ्जलिः
4
▾
Meaning
Keep
विशुद्धसत्त्वं
तव
धाम
शान्तं
तपोमयं
ध्वस्तरजस्तमस्कम्
।
मायामयोऽयं
गुणसम्प्रवाहो
न
विद्यते
तेऽग्रहणानुबन्धः
5
▾
Meaning
Keep
कुतो
नु
तद्धेतव
ईश
तत्कृता
लोभादयो
येऽबुधलिङ्गभावाः
।
तथापि
दण्डं
भगवान्
बिभर्ति
धर्मस्य
गुप्त्यै
खलनिग्रहाय
6
▾
Meaning
Keep
पिता
गुरुस्त्वं
जगतामधीशो
दुरत्ययः
काल
उपात्तदण्डः
।
हिताय
स्वेच्छातनुभिः
समीहसे
मानं
विधुन्वञ्जगदीशमानिनाम्
7
▾
Meaning
Keep
ये
मद्विधाज्ञा
जगदीश
मानिन-
स्त्वां
वीक्ष्य
कालेऽभयमाशु
तन्मदम्
।
हित्वाऽऽर्यमार्गं
प्रभजन्त्यपस्मया
ईहा
खलानामपि
तेऽनुशासनम्
8
▾
Meaning
Keep
स
त्वं
ममैश्वर्यमदप्लुतस्य
कृतागसस्तेऽविदुषः
प्रभावम्
।
क्षन्तुं
प्रभोऽथार्हसि
मूढचेतसो
मैवं
पुनर्भून्मतिरीश
मेऽसती
9
▾
Meaning
Keep
तवावतारोऽयमधोक्षजेह
स्वयम्भराणामुरुभारजन्मनाम्
।
चमूपतीनामभवाय
देव
भवाय
युष्मच्चरणानुवर्तिनाम्
10
▾
Meaning
Keep
नमस्तुभ्यं
भगवते
पुरुषाय
महात्मने
।
वासुदेवाय
कृष्णाय
सात्वतां
पतये
नमः
11
▾
Meaning
Keep
स्वच्छन्दोपात्तदेहाय
विशुद्धज्ञानमूर्तये
।
सर्वस्मै
सर्वबीजाय
सर्वभूतात्मने
नमः
12
▾
Meaning
Keep
मयेदं
भगवन्
गोष्ठनाशायासारवायुभिः
।
चेष्टितं
विहते
यज्ञे
मानिना
तीव्रमन्युना
13
▾
Meaning
Keep
त्वयेशानुगृहीतोऽस्मि
ध्वस्तस्तम्भो
वृथोद्यमः
।
ईश्वरं
गुरुमात्मानं
त्वामहं
शरणं
गतः
14
▾
Meaning
Keep
एवं
सङ्कीर्तितः
कृष्णो
मघोना
भगवानमुम्
।
मेघगम्भीरया
वाचा
प्रहसन्निदमब्रवीत्
15
▾
Meaning
Keep
श्रीभगवानुवाच ।
मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता ।
मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम्
16
▾
Meaning
Keep
मामैश्वर्यश्रीमदान्धो
दण्डपाणिं
न
पश्यति
।
तं
भ्रंशयामि
सम्पद्भ्यो
यस्य
चेच्छाम्यनुग्रहम्
17
▾
Meaning
Keep
गम्यतां
शक्र
भद्रं
वः
क्रियतां
मेऽनुशासनम्
।
स्थीयतां
स्वाधिकारेषु
युक्तैर्वः
स्तम्भवर्जितैः
18
▾
Meaning
Keep
अथाह
सुरभिः
कृष्णमभिवन्द्य
मनस्विनी
।
स्वसन्तानैरुपामन्त्र्य
गोपरूपिणमीश्वरम्
19
▾
Meaning
Keep
कृष्ण
कृष्ण
महायोगिन्
विश्वात्मन्
विश्वसम्भव
।
भवता
लोकनाथेन
सनाथा
वयमच्युत
20
▾
Meaning
Keep
त्वं
नः
परमकं
दैवं
त्वं
न
इन्द्रो
जगत्पते
।
भवाय
भव
गोविप्रदेवानां
ये
च
साधवः
21
▾
Meaning
Keep
इन्द्रं
नस्त्वाभिषेक्ष्यामो
ब्रह्मणा
चोदिता
वयम्
।
अवतीर्णोऽसि
विश्वात्मन्
भूमेर्भारापनुत्तये
22
▾
Meaning
Keep
एवं
कृष्णमुपामन्त्र्य
सुरभिः
पयसाऽऽत्मनः
।
जलैराकाशगङ्गाया
ऐरावतकरोद्धृतैः
23
▾
Meaning
Keep
इन्द्रः
सुरर्षिभिः
साकं
चोदितो
देवमातृभिः
।
अभ्यसिञ्चत
दाशार्हं
गोविन्द
इति
चाभ्यधात्
24
▾
Meaning
Keep
तत्रागतास्तुम्बुरुनारदादयो
गन्धर्वविद्याधरसिद्धचारणाः
।
जगुर्यशो
लोकमलापहं
हरेः
सुराङ्गनाः
संननृतुर्मुदान्विताः
25
▾
Meaning
Keep
तं
तुष्टुवुर्देवनिकायकेतवो
ह्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः
।
लोकाः
परां
निर्वृतिमाप्नुवंस्त्रयो
गावस्तदा
गामनयन्
पयोद्रुताम्
26
▾
Meaning
Keep
नानारसौघाः
सरितो
वृक्षा
आसन्
मधुस्रवाः
।
अकृष्टपच्यौषधयो
गिरयोऽबिभ्रदुन्मणीन्
27
▾
Meaning
Keep
कृष्णेऽभिषिक्त
एतानि
सर्वाणि
कुरुनन्दन
।
निर्वैराण्यभवंस्तात
क्रूराण्यपि
निसर्गतः
28
▾
Meaning
Keep
इति
गोगोकुलपतिं
गोविन्दमभिषिच्य
सः
।
अनुज्ञातो
ययौ
शक्रो
वृतो
देवादिभिर्दिवम्
Previous
←
Nanda Repeats What Garga Said
Next
Nanda Taken from the Water
→